To Search in Text
step-1
step-2
Press Control + F
उपनिषद् में की-वर्ड की खोज के लिये : -
step-1
step2.
कण्ट्रोल एफ दबाएँ।.
▲प्रथमोऽध्यायः ►प्रथममाह्निकम्►द्वितीयमाह्निकम् ▲द्वितीयोऽध्यायः ►प्रथममाह्निकम्►द्वितीयमह्निकम् ▲तृतीयोऽध्यायः ►प्रथममाह्निकम्►द्वितीयमाह्निकम् ▲चतुर्थोऽधायायः ►प्रथममाह्निकम्►द्वितीयमाह्निकम् ▲पञ्चमोऽध्यायः ►प्रथममाह्निकम्►द्वितीयमाह्निकम्
अथप्रथमोऽध्यायः प्रथममाह्निकम्।
1 /1 /1 प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः।
1 /1 /2 दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः।
1 /1 /3 प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि।
1 /1 /4 इन्द्रयार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्।
1 /1 /5 अथ तत्पुर्वकं त्रिविधमनुमालं पूप्ववच्छेषवत् सामान्यतोदृष्टृष्च।
1 /1 /6 प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्।
1 /1 /7 आप्तोपद्शः शब्दः।
1 /1 /8 स द्विविधो दृष्टादृष्टार्थत्वात्।
1 /1 /9 आत्मशरीरेन्द्रिययार्थबुद्धिमनःप्रवृत्तिदोषप्रत्यभावफलदुःखापवर्गास्तु प्रमेयम्।
1 /1 /10 इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्।
1 /1 /11 चेष्टेन्द्रियार्थाश्रयः शरीरम्।
1 /1 /12 घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रयाणि भूतेभ्यः।
1 /1 /13 पृथिव्यापस्तेजो वायुराकाशमिति भूतानि।
1 /1 /14 गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः।
1 /1 /15 बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्।
1 /1 /16 युगपज्ज्ञानानुत्पत्तिरमनसो लिङ्गम्।
1 /1 /17 प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः।
1 /1 /18 प्रवर्त्तनालक्षणा दोषाः।
1 /1 /19 पुनरुत्पत्तिः प्रेत्यभावः।
1 /1 /20 प्रवृत्तिदोषजनितोऽर्थः फलम्।
1 /1 /21 बाधनालक्षणं दुःखम्।
1 /1 /22 तदत्यन्तविमोक्षोऽपवर्गः।
1 /1 /23 समानानेकधर्म्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः।
1 /1 /24 यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनम्।
1 /1 /25 लौकिक परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः।
1 /1 /26 तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः।
1 /1 /27 च चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्।
1 /1 /28 सर्वतन्त्राविरुद्धस्तन्त्रेऽथिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः।
1 /1 /29 समानतन्त्रसिद्धः परतन्त्रासिद्धः पतितन्त्रसिद्धान्तः।
1 /1 /30 यत्सिद्धावन्यप्रकरणसिद्धिः सोऽथिकरणसिद्धान्तः।
1 /1 /31 अपरीक्षताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः।
1 /1 /32 प्रतिज्ञाहेतूदाहरणोपनयन्गमनाल्यवयवाः।
1 /1 /33 साध्यनिर्देशः प्रतिज्ञा।
1 /1 /34 उदाहरणसाधर्म्यात् साध्यसाधनं हेतु)।
1 /1 /35 तथा वैधर्म्यात्।
1 /1 /36 साध्यसाधर्मायत् तद्धर्मभावी दृष्टान्त उदाहरणम्।
1 /1 /37 तद्विपर्य्यमाद्वा विपरीतम्।
1 /1 /38 उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः।
1 /1 /39 हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्।
1 /1 /40 इविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थंमूहस्तर्कः।
1 /1 /41 विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः।
इति गौतमीयन्यायसूत्रे प्रथमाध्याये प्रथमाह्निकम्।।
द्वितीयमाह्निकम्
1 /2 /1 प्रमाणतर्कसाधनोपालम्भः सिद्धान्थाविरुद्धः पञ्चावयवोपन्नः पक्षप्रतिपक्षपरिग्रहो वादः।
1 /2 /2 यथोक्तपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः।
1 /2 /3 स प्रतिपक्षस्थापनहीनो वितण्डा।
1 /2 /4 सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः।
1 /2 /5 अनेकान्तिकः सव्यभिचारः।
1 /2 /6 सिद्धान्तमभ्यपेत्य तद्विरोधी विरुद्धः।
1 /2 /7 यस्मात् प्रकरणचिन्था स निर्णयार्थमपदिष्टः प्रकरणसमः।
1 /2 /8 साध्याविशिष्टः साध्यत्वात् साध्यसमः।
1 /2 /9 कालात्ययापदिष्टः कालातीतः।
1 /2 /10 वचनविघातोऽर्थविकल्पोपपत्त्या छलम्।
1 /2 /11 तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्चेति।
1 /2 /12 अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पता वाक्छलम्।
1 /2 /13 सम्भवतोऽर्थस्यातिसामान्ययोग्दसम्भूतार्थकल्पना सामान्यच्छलम्।
1 /2 /14 धर्मविकल्पनिर्देशेऽर्थे सद्भावप्रतिषेध उपचारच्छलम्।
1 /2 /15 वाक्छलमेवोपचारच्छलं तदविशेषात्।
1 /2 /16 न; तदर्थाल्तरभावात्।
1 /2 /17 अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः।
1 /2 /18 साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः।
1 /2 /19 विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्।
1 /2 /20 तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम्।
अथ द्वितीयोऽध्यायः
प्रथममाह्निकम्।
2 /1 /1. समानानेकधर्माध्यवसायादन्यतहधर्माध्यवसायाद्वा न संशयः।
2 /1 /2. विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च।
2 /1 /3. विप्रतिपत्तौ च सम्प्रतिपत्तेः।
2 /1 /4. अव्यवस्थात्मनि व्यस्थितत्वाच्चाव्यवस्थायाः।
2 /1 /5. तथाऽत्यन्तसंशयस्तद्धर्म्मसातत्योपपत्तेः।
2 /1 /6. यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशयेन संशयो नात्यन्तसंशयो वा ।
2 /1 /7. यत्र संशयस्तत्रैवमुत्तरत्तरप्रसक्ष्गः।
2 /1 /8. प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः।
2 /1 /9. पूर्व्वं हि प्रमाणसिद्धौ नेन्द्रियार्थतसन्नकर्षात् प्रत्यक्षोत्पत्तिः?
2 /1 /10. पश्चात् सिद्धौ न प्रमाणेभ्यः प्रम्यसिद्धिः?
2 /1 /11. युगपत्सिद्धौ प्रत्यर्थनितत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम्।
2 /1 /12. त्रैकाल्यासिद्धेः पआतिषेधानुपपत्तिः।
2 /1 /13. सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः।
2 /1 /14. तत्प्रमाण्ये वा न सर्वप्रमाणप्रतिषेधः।
2 /1 /15. त्रैकाल्याप्रतिषेधश्च शब्दादातोद्य़सिद्धिवत्तत्सिद्धेः।
2 /1 /16. प्रमेया च तुला प्रामाण्यवत्।
2 /1 /17. प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तररिद्धिवत् प्रमेयसिद्धिः।
2 /1 /18.
2 /1 /19. न प्रदीपप्रकाशवत् तत्सिद्धेः।
2 /1 /20. प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात्।
2 /1 /21. नात्ममनसोः सन्निकर्षाभावे नानवरोधः।
2 /1 /22. दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः।
2 /1 /23. ज्ञानलिङ्गत्वादात्मनो नानवरोधः।
2 /1 /24. तदयौगपद्यलिङ्गत्वाच्च न मनसः।
2 /1 /25. प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्नकर्षस्य स्वशब्देन वचनम्।
2 /1 /26. सुप्तव्यासक्तमनसां चेन्द्रयार्थयो सन्नकर्षानिमित्तत्वात्।
2 /1 /27. तैश्चापदेशो ज्ञानविशेषाणाम्।
2 /1 /28. व्याहतत्वादहेतुः।
2 /1 /29. नार्थविशेषप्रबल्यात्।
2 /1 /30. प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः?
2 /1 /31. न प्रत्यक्षेण यावत्तावदप्यपलम्भात्।
2 /1 /32. न चैकदेशोपलब्धिरवयविसद्भावात्।
2 /1 /33. साध्यत्वादवयविनि सन्देहः।
2 /1 /34. सर्वाग्रहणमवयव्यसिद्धेः।
2 /1 /35. धारणाकरणणोपपत्तेश्च।
2 /1 /36. सेनावनवद् ग्रहणमिति चेन्न, अतीन्द्रियत्वादणूनाम्।
2 /1 /37. रोधोपघातसादृस्येभ्योऽर्थान्तरभावात्।
2 /1 /38. न, एकदेशत्राससादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम्।
2 /1 /39. वर्त्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः।
2 /1 /40. तयोरप्यभावो वर्त्तमानाभावे तदपेक्षत्वात्।
2 /1 /41. नातीतानागतयोरितरेतरापेक्षासिद्धिः।
2 /1 /42. वर्त्तमानाभावे सर्वाग्रहणम्प्रत्यक्षानुपपत्तेः।
2 /1 /43. कृतताकर्तव्यतोपपत्तेस्तूभयथाग्रहणम्।
2 /1 /44. अत्यन्तप्रायैकदेशसाधर्म्यादुपमानसिद्धिः।
2 /1 /45. प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः।
2 /1 /46. प्रत्यक्षेणाप्रत्यक्षसिद्धेः।
2 /1 /47. नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः।
2 /1 /48. तथेत्युपसंहारादुपमासिद्धेर्नाविशेषः।
2 /1 /49. शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात्।
2 /1 /50. उपलब्धेरद्विप्रवृत्तित्वात्।
2 /1 /51. सम्बन्धाच्च।
2 /1 /52. आप्तोपदेशसामर्थ्याच्छब्दादर्थसंप्रत्ययः।
2 /1 /53. प्रमाणतोऽनुपलब्धेः।
2 /1 /54. पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः।
2 /1 /55. शब्दार्थव्यवस्थानादप्रतिषेधः।
2 /1 /56. न, सामयिकत्वाचछब्दार्थसम्प्रत्ययस्य।
2 /1 /57. जातिविशेषे चैनियमात्।
2 /1 /58. तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः।
2 /1 /59. न, कर्मकर्तृसाधलवैगुण्यात्।
2 /1 /60. अभ्युपेत्य कालभेदे तोषवचनात्।
2 /1 /61. अनुवादोपपत्तेश्च।
2 /1 /62. वाक्यविभागस्य चार्थग्रहणात्।
2 /1 /63. विध्यर्थवादानुवातवचनविनियोगात्।
2 /1 /64. विधिर्विधायकः।
2 /1 /65. स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः।
2 /1 /66. विधिविहितस्यनुवचनमनुवादः।
2 /1 /67. नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः।
2 /1 /68. शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः।
2 /1 /69. मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्।
इति गौतमीयसूत्रपाठे द्नितीयध्यास्य प्रथममाह्निकम्।।
द्वितीयमह्निकम्
2 /2 /1 चतुष्टवमैतिह्यार्थापत्तिसम्भावाभावप्रामाण्यात्।
2 /2 /2 शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः।
2 /2 /3 अर्थापत्तिरप्रमाणमनैकान्तिकत्वात्।
2 /2 /4 अनर्थापत्तावर्थापत्त्यभिमानात्।
2 /2 /5 प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात्।
2 /2 /6 तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम्।
2 /2 /7 नाभावप्रामाण्यं प्रमेयासिद्धेः।
2 /2 /8 लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धेः।
2 /2 /9 असत्यर्थे नाभाव इति चेन्न, अन्यलक्षणोपपत्तेः।
2 /2 /10 तत्सिद्धेरलक्षितेष्वहेतुः।
2 /2 /11 न, लक्षणावस्थितापेक्षासिद्धेः।
2 /2 /12 प्रागुत्पत्तेरभावोपपत्तेश्च।
2 /2 /13 विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः।
2 /2 /14 आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च।
2 /2 /15 न, घटाभालसामाल्यनित्यत्वात् नित्येष्वप्यनित्यवदुपचाराच्च।
2 /2 /16 तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः।
2 /2 /17 सन्तानानुमानविशेषणात्।
2 /2 /18 कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्।
2 /2 /19 प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च।
2 /2 /20 तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः।
2 /2 /21 अनुपलम्भादप्यनुपलब्धिसद्भावान्नावरणानुपपत्तिरनुपलम्भात।
2 /2 /22 अनुपलम्भात्मकत्वदनुपलब्धरहेतुः।
2 /2 /23 अस्पर्शत्वात्।
2 /2 /24 न कर्मानित्यत्वात्।
2 /2 /25 न, अणु नित्यत्वात्।
2 /2 /26 सम्प्रदानात्।
2 /2 /27 तदन्तरालानुपलब्धेरहेतुः।
2 /2 /28 अध्यापनादप्रतिषेधः।
2 /2 /29 उभयोः पक्षोयोरन्यतरस्याध्यापनादप्रतिषेधः।
2 /2 /30 अभ्यासात्।
2 /2 /31 नान्यत्वेऽप्यभ्यासस्योपचारात्।
2 /2 /32 अन्यदन्यस्मादनन्यत्वादनन्यादित्यन्यतोऽभावः।
2 /2 /33 तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः।
2 /2 /34 विनाशकारणानुपलब्धेः।
2 /2 /35 अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः।
2 /2 /36 उपलभ्यमाने चानुपलब्धरसत्त्वदनपदेशः।
2 /2 /37 पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः।
2 /2 /38 विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः।
2 /2 /39 अस्पर्शत्वादप्रतिषेधः।
2 /2 /40 विभक्त्यन्तरोपपत्तेश्च समासे।
2 /2 /41 विकारादेशोपदेशात् संशयः।
2 /2 /42 प्रकृतिविवृद्धौ विकारविवृद्धेः।
2 /2 /43 न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः।
2 /2 /44 न, अतुल्यप्रकृतीनां विकारविकल्पात्।
2 /2 /45 द्रव्यविकारवैषमयवद्वर्णविकारविकल्पः।
2 /2 /46 न, विकारधर्मानुपपत्तेः।
2 /2 /47 विकारप्राप्तानामपुररापत्तेः।
2 /2 /48 सुवर्णादीनां पुनरापत्तेहहेतुः।
2 /2 /49 न, तद्विकाराणां सुवर्णभावाव्यतिरेकात्।
2 /2 /50 वर्णत्वाव्यतिरेकाद्वर्णंविकाराणामप्रतिषेधः।
2 /2 /51 सामान्यवतो धर्म्मयोगो न सामान्यस्य।
2 /2 /52 नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात्।
2 /2 /53 नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच्च वर्णविकारणामप्रतिषेधः।
2 /2 /54 अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः।
2 /2 /55 विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः।
2 /2 /56 प्रकृत्यनियमाद्वर्णविकाराणाम्।
2 /2 /57 अनियमे नियमान्नानियमः।
2 /2 /58 नियमानियमविरोधादनियमः नियमाच्चाप्रतिषेधः।
2 /2 /59 गुणान्तरापत्त्युपमर्दहासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णंविकारः।
2 /2 /60 ते विभक्त्यन्ताः पदम्।
2 /2 /61 व्यक्त्याकृतिजातिसन्न्धावुपचारात् संशयः।
2 /2 /62 याशब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्वयक्तिः।
2 /2 /63 न; तदनवस्थानात्।
2 /2 /64 सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्रह्मणमञ्चकटराजस्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावऽपि तदुपचारः।
2 /2 /65 आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः।
2 /2 /66 व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रक्षणादीनां मृदगवके जातिः।
2 /2 /67 नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्ते।
2 /2 /68 व्यक्त्याकृतिजातयस्तु पदार्थः।
2 /2 /69 व्यक्त्तिर्गुणविशेषाश्रयो मूर्तिः।
2 /2 /70 आकृतिर्ज्जातिनिङ्गाख्या।
2 /2 /71 समानप्रसवात्मिका जातिः।
इति गौतमीयन्यायसूत्रे द्वितीयाध्याये द्वितीयमाह्निकं द्वितीयोऽध्यायश्च।।
अथ तृतीयोऽध्यायः
प्रथममाह्निकम्
3 /1 /1. दर्शनस्पर्शनाभ्यामेकार्थंग्रहणात्।
3 /1 /2. न विषयव्यवस्थानात्।
3 /1 /3. तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः।
3 /1 /4. शरीरदाहे पातकाभावात्।
3 /1 /5. तदभावः सात्गकप्रदाहेऽपि तन्नित्यत्वात्।
3 /1 /6. न; कार्य्याश्रयकर्तृवधात्।
3 /1 /7. सव्यदष्टस्येतरेण प्रत्यभिज्ञानात्।
3 /1 /8. नैकस्मिन्नासास्थिव्यवहिते द्वत्वाभिमानात्।
3 /1 /9. एकविलाशे द्वीयाविनाशान्ैकतेवम्।
3 /1 /10. अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः।
3 /1 /11. दृष्टान्तविरोधादप्रतिषेधः।
3 /1 /12. इन्द्रियान्तरविकारात्।
3 /1 /13. न; स्मृतेः स्मर्त्तव्यविषयत्वात्।
3 /1 /14. तदात्मगुणसद्भावादप्रतिषेधः।
3 /1 /15. अपरिसङ्ख्यानाच्च स्मृतिविषयस्य।
3 /1 /16. न; आत्मप्रतिपत्तिहेतूनां मनसि समभवात्।
3 /1 /17. ज्ञातुर्ज्ञानसाधनोपपत्तेः, संज्ञाभेदमाक्षम्।
3 /1 /18. नयमशच निरनुमानः।
3 /1 /19. पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः।
3 /1 /20. पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः।
3 /1 /21. न, उष्णशीतलर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम्।
3 /1 /22. प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात्।
3 /1 /23. अयसोऽयस्कान्ाभिगमनवत्तदुपसर्पणम् ?
3 /1 /24. न , अन्यत्र प्रवृत्त्यभावात्।
3 /1 /25. वीतरागजन्ादर्शनात्।
3 /1 /26. सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः?
3 /1 /27. न, सङ्कल्पनिमित्तत्वाद्रागादीनाम्।
3 /1 /28. पार्थिव गुणान्तरोपलब्धेः।
3 /1 /29. श्रुतिप्रामाण्याच्च।
3 /1 /30. कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात् संशयः।
3 /1 /31. महदणुग्रहणात्।
3 /1 /32. रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्।
3 /1 /33. तदुनुपलब्धेरहेतुः।
3 /1 /34. नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः।
3 /1 /35. द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः।
3 /1 /36. अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः।
3 /1 /37. कर्म्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः।
3 /1 /38. अव्यभिचाराच्च प्रतिघातो भौतिकधर्मः।
3 /1 /39. माध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः।
3 /1 /40. न रात्रावप्यनुपलब्धेः।
3 /1 /41. बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः।
3 /1 /42. अभिव्यक्तौ चाभिभवात्।
3 /1 /43. नक्तञ्चरनयनरश्मिदर्शनाच्च।
3 /1 /44. अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः।
3 /1 /45. कुड्यान्तरितानुपलब्धेरप्रतिषेधः।
3 /1 /46. अप्रतिघातात् सन्नकर्मोपपत्तिः।
3 /1 /47. आदित्यरश्मेः स्फटिकान्तरेऽपि दाह्योऽविघातात्।
3 /1 /48. नेतरेतरधर्म्मप्रसङ्गात्?
3 /1 /49. आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः।
3 /1 /50. दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः।
3 /1 /51. स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः।
3 /1 /52. त्वगव्यतिरेकात्?
3 /1 /53. न, इन्द्रियान्तरार्थानुपलब्धेः।
3 /1 /54. त्वगवयवविशेषण धूमोपलब्धिवत्तदुपलब्धिः।
3 /1 /55. आहतत्वादहेतुः।
3 /1 /56. न युगपदार्थानुपलब्धः।
3 /1 /57. विप्रतिषेधाच्च न त्वगेका।
3 /1 /58. इन्द्रियार्थपञ्चत्वात्।
3 /1 /59. न तदर्थबहुत्वात्?
3 /1 /60. गन्धत्वाद्यव्यातिरेकाद् गन्धादीनामप्रतिषेधः।
3 /1 /61. विषयत्वाव्यतिरेकादेकत्वम्?
3 /1 /62. न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः।
3 /1 /63. भूतगुणविशेषोपलब्धेस्तादात्म्यम्।
3 /1 /64. गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्य्यन्ता पृथिव्याः।
3 /1 /65. अप्तेजोवायुनां पूर्वंपूर्वमपोह्याकाशस्योत्तरः।
3 /1 /66. न सर्वगुणानुपलब्धेः।
3 /1 /67. ऐकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः।
3 /1 /68. संसर्गाच्चानेकगुणग्रहणम्।
3 /1 /69. विष्टं ह्यपरम्परेण?
3 /1 /70. न, पार्थिवाप्ययोः प्रत्यक्षत्वात्।
3 /1 /71. पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम्।
3 /1 /72. तद्व्यवस्थानन्तु भूयत्त्वात्।
3 /1 /73. सगुणानामिरन्द्रियभावात्।
3 /1 /74. तेनैव तस्याग्रहणाच्च।
3 /1 /75. न शब्दकुणोपलब्धेः?
3 /1 /76. तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात्।
इति गौतमीयन्यायसूत्रपाठे तृतीयाध्यास्य प्रथममाह्निकम्।।
द्वितीयमाह्निकम्।
3 /2 /1. कर्म्माकाशसाधर्म्यात् संशयः।
3 /2 /2. विषयप्रत्यभिज्ञानात्।
3 /2 /3. साध्यसमत्वादहेतुः।
3 /2 /4. न युगपदग्रहणात्।
3 /2 /5. अप्रत्यभिज्ञाने च विनाशप्रसङ्गः।
3 /2 /6. क्रमव-त्तित्वदयुगपद्ग्रहणम्।
3 /2 /7. अप्रत्यभिज्ञानश्च विषयान्तरव्यासङ्गात्।
3 /2 /8. न, गत्यभावात्।
3 /2 /9. स्फचिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः।
3 /2 /10. न हेत्वभावात्।
3 /2 /11. स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्वयुक्तीनामहेतुः।
3 /2 /12. नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा।
3 /2 /13. नोत्पत्तिविनाशकारणोपलब्धेः।
3 /2 /14. क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः।
3 /2 /15. लिङ्गतो ग्रहणान्नानुपलब्धिः।
3 /2 /16. न पयसः परिणामगुणान्तरप्रादुर्भावात्।
3 /2 /17. व्यूहान्तराद्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम्।
3 /2 /18. क्वचिद्विनाशकारणनुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः।
3 /2 /19. नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात्।
3 /2 /20. तदात्मगुणत्वेऽपि तुल्यम्।
3 /2 /21. इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः?
3 /2 /22. न, उत्पत्तिकारणानपदेशात्।
3 /2 /23. विनाशकारणानुपलब्धेश्चालस्थाने तन्नित्यत्वप्रसङ्गः।
3 /2 /24. अनित्यत्वग्रहाद् बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत्।
3 /2 /25. ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः।
3 /2 /26. न, अन्तःशरीरवृत्तित्वान्मनसः?
3 /2 /27. साध्यत्वादहेतुः।
3 /2 /28. स्मरतः शरीरधारणोपपत्तिरप्रतिषेधः।
3 /2 /29. न तदाशुगतित्वान्मनसः?
3 /2 /30. न, स्मरणकालानियमात्।
3 /2 /31. आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः।
3 /2 /32. व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्।
3 /2 /33. प्रणिधाननिङ्गादिज्ञानानामयुगपद्भावादयुगपदस्मरणम्।
3 /2 /34. प्रतिभवत्तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गेः।
3 /2 /35. ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः।
3 /2 /36. तल्लिङ्गत्वादिच्छाद्विषयोः पार्थिवाद्येष्वप्रतिषेधः।
3 /2 /37. परश्वादिष्वारम्भनवृत्तिदर्शनात्।
3 /2 /38. कुम्भादिष्वनुपलब्धेरहेतुः।
3 /2 /39. वियमानियमौ तु तद्विशेषकौ।
3 /2 /40. यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः।
3 /2 /41. परिशेषाद्यथोक्तहेतूपपत्तेश्च।
3 /2 /42. समरणं त्वात्मनो ज्ञस्वाभाव्यात्।
3 /2 /43. प्रणिधाननिबन्धाभ्यासनिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्थ्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखच्छाद्वेषभयाऽर्थित्वक्रियारागधर्म्माधर्मनिमित्तेभ्यः।
3 /2 /44. कर्म्मानवस्थायिग्रहणात्।
3 /2 /45. बुद्ध्यवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः।
3 /2 /46. अव्यक्तग्रहणमनवस्थायित्वात् विद्युत्सम्पाते रूपाद्यव्यक्तग्रहणवत्।
3 /2 /47. हेतूपादानात् प्रतिषमद्धव्याभ्यनुज्ञा।
3 /2 /48. प्रदीपार्च्चिः सन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम्।
3 /2 /49. द्व्ये स्वगुणपरगुणोपलब्धेः संशयः।
3 /2 /50. यावच्छरीरभावित्वाद्रूपादीनाम्।
3 /2 /51. न, पाकजगुणान्तरोत्पत्तेः।
3 /2 /52. प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः।
3 /2 /53. शरीरव्यापित्वात्।
3 /2 /54. न, केशनखादिष्वनुपलब्धेः?
3 /2 /55. त्वक्पर्य्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः।
3 /2 /56. शरीरगुणवैधर्म्यात्।
3 /2 /57. न, रूपादीनामितरेतरवैधर्म्यात्।
3 /2 /58. ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधेः।
3 /2 /59. ज्ञानायौगपद्यादेकं मनः।
3 /2 /60. न, युगपदनेकक्रियोपलब्धेः?
3 /2 /61. अलातचक्रदर्शनवत्तदुपलब्धिराशुसञ्चारात्।
3 /2 /62. यथोक्तहेतुत्वाच्चाणु।
3 /2 /63. पूर्वकृतफलानुबन्धात्तदुत्पत्तिः।
3 /2 /64. भूतेभ्यो मूर्त्त्युपादानवत् तदुपादानम्?
3 /2 /65. न, साध्यसमत्वात्।
3 /2 /66. न, उत्पत्तिनिमित्तन्वान्मातापित्रोः।
3 /2 /67. तथाहारस्य।
3 /2 /68. प्राप्तौ चानियमात्।
3 /2 /69. शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म।
3 /2 /70. एतेनानियमः प्रयुक्तः।
3 /2 /71. उपपन्नश्च तद्वियोगः कर्म्मक्षयोपपत्तेः।
3 /2 /72. तददृष्टकारिमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे।
3 /2 /73. न करणाकरणयोरारम्भदर्शनात्।
3 /2 /74. मनःकर्म्ममित्तत्वाच्च संयोगानुच्छेदः।
3 /2 /75. नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः।
3 /2 /76. अणुश्यामतानित्यत्ववदेतत् स्यात्।
3 /2 /77. न, अकृताभ्यागमप्रसङ्गात्।
इति गौतमीयन्यायसूत्रे तृतीयाध्यास्य द्वितीयमाह्निकं तृतीयोऽध्यायश्च।।
अथ चतुर्थोऽध्यायः
प्रथममाह्निकम्
4 /1 /1. प्रवृत्तिर्यथोक्ता।
4 /1 /2. तथा दोषाः।
4 /1 /3. तत्त्रैराश्यं रागद्वेषमोहार्थान्तभावात्।
4 /1 /4. न, एकप्रयत्नीकभावात्।
4 /1 /5. व्यभिचारादहेतुः।
4 /1 /6. तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः।
4 /1 /7. निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः।
4 /1 /8. न दोषलक्षणावरोधान्मोहस्य।
4 /1 /9. निमित्तनैनित्तिकोपपत्तेश्च तुल्यजातीयीनामप्पतिषेधः।
4 /1 /10. आत्मनिय्तत्वे प्रेत्यभावसिद्धिः।
4 /1 /11. व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात्।
4 /1 /12. न, घटाद् घटानिष्पत्तेः?
4 /1 /13. व्यक्ताद् घटन्ष्पत्तेरप्रतिषेधः।
4 /1 /14. अभावाद्भावोत्पत्तिर्नानुपमृद्य प्पादुर्भावात्।
4 /1 /15. व्याघातादप्पयोगः।
4 /1 /16. न, अतीतानागतयोः कारकशब्दप्रयोगात्?
4 /1 /17. न विनष्टेभ्योऽनिष्पत्तेः।
4 /1 /18. क्रमनिर्देशादप्रतिषेधः।
4 /1 /19. ईश्वरः कारणं पुपुषकर्म्माफल्यदर्शनात्।
4 /1 /20. न पुरुषकर्म्माभावे फलानिष्पत्तेः।
4 /1 /21. तत्कारितत्वादहेतुः।
4 /1 /22. अनिमित्ततो भावोत्पत्तिः कण्टकतैक्षण्यादिदर्शनात्।
4 /1 /23. अनिमित्तनिमित्तत्वान्नान्मित्ततः।
4 /1 /24. निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः।
4 /1 /25. सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात्।
4 /1 /26. न, अनित्यातान्त्यत्वात्।
4 /1 /27. तदनित्यत्वमग्नेदाह्यं विनाश्यानुविनाशवत्।
4 /1 /28. नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात्।
4 /1 /29. सर्वं नित्यं पञ्चभूतनित्यत्वात्?
4 /1 /30. न, उत्पत्तिविनाशकारणोपलब्धः।
4 /1 /31. तल्लक्षणावरोधादप्रतिषेधः?
4 /1 /32. न, उत्पत्तितत्कारणोपलब्धः।
4 /1 /33. न व्यवस्थानुपपत्तेः।
4 /1 /34. सर्वं पृथक्, भावलक्षणपृथक्त्वात्।
4 /1 /35. न, अनेकलक्षणैरकभावनिष्पत्तेः।
4 /1 /36. लक्षणव्यवस्थानादेवाप्रतिषेधः।
4 /1 /37. सर्वमभावो भावेष्वितरेतराभावसिद्धेः?
4 /1 /38. न, स्वभावसिद्धेर्भावानाम्।
4 /1 /39. न स्वभावसिद्धिरापेङिकत्वात्?
4 /1 /40. व्याहतत्वादयुक्तम्ष
4 /1 /41. संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम्।
4 /1 /42. न कारणावयवभावात्?
4 /1 /43. निरवयवत्वादहेतुः।
4 /1 /44. सद्यः कालान्तरे च फलनिष्पत्तेः संशयः।
4 /1 /45. न सद्यः कालान्तरोपभोग्यत्वात्।
4 /1 /46. कालान्तरेणानिष्पत्तिर्हेतुविनाशात्।
4 /1 /47. प्राह्निष्पत्तेर्वक्षफलवत्तत् स्यात्।
4 /1 /48. वासन्न सन्न सदसदत्सतोवैधर्म्यात्।
4 /1 /49. उत्पादव्ययदर्शनात्।
4 /1 /50. बुद्धिः सिद्धिन्तु तदसत्।
4 /1 /51. आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः।
4 /1 /52. प्रीतेरात्माश्रयत्वादप्रतिषेधः।
4 /1 /53. न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात्?
4 /1 /54. तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः।
4 /1 /55. विविधवासनायोगाद् दुःखमेव जन्मोत्पत्तिः।
4 /1 /56. न, सुखस्यान्तरालनिष्पत्तेः।
4 /1 /57. बाधनाऽनिवृत्तेर्वेदयतः पर्य्येषणदोषादप्रतिषेधः।
4 /1 /58. दुःखविकल्पे सुखाभिमानाच्च।
4 /1 /59. ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः।
4 /1 /60. प्रधानशब्दानुपपत्तर्गुणशब्देनानुवादी निन्दाप्रशंसोपपत्तेः।
4 /1 /61. अधिकाराच्च विधानं विद्यान्तरवत्।
4 /1 /62. समारोपणादात्मन्यप्रतिषेधः।
4 /1 /63. पात्रचयान्तानुपपत्तेश्च फलाभावः।
4 /1 /64. सुषुप्तस्य स्वप्नादर्शने कलेशाभावादपवर्गः।
4 /1 /65. न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य।
4 /1 /66. न क्लेशसन्ततेः स्वाभाविकत्वात्।
4 /1 /67. प्रगुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम्।
4 /1 /68. अणुश्यामताऽनित्यत्ववद्वा।
4 /1 /69. न सङ्कल्पनिमित्तत्वाच्च रागादीनाम्।
इति गौतमीयन्यायसूत्रे चतुर्थध्यास्य प्रथममह्निकम्।
द्वितीयमाह्निकम्।
4 /2 /1 दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः।
4 /2 /2 दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः।
4 /2 /3 तन्निमित्तत्त्व मयवव्यभिमानः।
4 /2 /4 विद्याऽविद्याद्वैविध्यात् संशयः।
4 /2 /5 तदसंशयः पूर्वहेतुप्रसिद्धत्वात्।
4 /2 /6 वृत्त्यनुपपत्तेरपि तर्हि न संशयः.।
4 /2 /7 कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः।
4 /2 /8 तेषु चावृत्तेरवयव्यभावः।
4 /2 /9 पृथक् चालयवेभ्योऽवृत्तेः।
4 /2 /10 न चावयव्यवयवाः।
4 /2 /11 एकस्मिन् भेदाभावाद् भेदशव्दप्रयोगानुपपत्तेरप्रश्नः।
4 /2 /12 अवयवान्तराभावेऽप्यवृत्तेरहेतुः।
4 /2 /13 केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः।
4 /2 /14 स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहण्सय तथाभावो नाविषये प्रवृत्तिः।
4 /2 /15 अवयवावयविमसङ्गश्चैवमा प्रलयात्।
4 /2 /16 न प्रलयोऽणुसद्भावात्।
4 /2 /17 परं वा त्रुटेः।
4 /2 /18 आकाशव्यतिभेदात् तदनुपपत्तिः।
4 /2 /19 आकाशासर्वगतत्वं वा।
4 /2 /20 अन्तर्बहिश्च कार्य्यद्रव्यस्य कारणान्तरवचनादकार्य्यद्रव्यस्य कारणाल्तरवचनादकार्य्ये तदभावः।
4 /2 /21 शब्दसंयोगविभवाच्च सर्वगतम्।
4 /2 /22 अव्यहाविष्टम्भविभुत्वानि चाकाशधर्माः।
4 /2 /23 मूर्त्तिमताञ्च संस्थानोपपत्तेरवयवसद्भावः।
4 /2 /24 संयोगोपपत्तेश्च।
4 /2 /25 अनावस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः।
4 /2 /26 बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तत्त्वपकर्षमे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः।
4 /2 /27 व्याहतत्वादहेतुः।
4 /2 /28 तदाश्रयत्वादपृथग्ग्रहणम्।
4 /2 /29 प्रणाणतश्चाऽर्थप्रतिपत्तेः।
4 /2 /30 प्रमाणानुपपत्त्युपपत्तिभ्याम्।
4 /2 /31 स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः?
4 /2 /32 मायगन्धर्वनगरमृगतृष्णिकावद्वा?
4 /2 /33 हेत्वभावादसिद्धिः।
4 /2 /34 स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः।
4 /2 /35 मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे।
4 /2 /36 बुद्धेश्चैवं निमित्तसद्भावोपलम्भात्।
4 /2 /37 तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैबिध्यपपत्तिः।
4 /2 /38 समाधिविशेषाभ्यासात्।
4 /2 /39 नार्थविशेषप्राबल्यात्?
4 /2 /40 क्षुदादिभिः प्रवर्त्तनाच्च?
4 /2 /41 पूर्वकृतफलानुबन्धात् तदुत्पत्तिः।
4 /2 /42 अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः।
4 /2 /43 अपवर्गैऽप्येवं प्रसङ्गः।
4 /2 /44 न निष्पन्नावश्यम्भावित्तवात्।
4 /2 /45 तदभावश्चापवर्गे।
4 /2 /46 तदर्थ यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः।
4 /2 /47 ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः।
4 /2 /48 तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात्।
4 /2 /49 प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे।
4 /2 /50 तत्त्वध्यवसायसंरक्षणार्थं जल्पवतण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्।
4 /2 /51 ताभ्यां विग्रह्य कथनम्।
इति गौतमीयन्यायसत्रे चतुर्थाध्यास्य द्वितीयमाह्निकम्, चतुर्थोऽध्यायश्च।।
अथ पञ्चमोऽध्यायः
प्रथममाह्निकम्
5 /1 /1 साधर्म्यवैधर्मयोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्य्यसमाः।
5 /1 /2 साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्य्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ।
5 /1 /3 गोत्वाद् गोसिद्धिवत् तत्सिद्धिः।
5 /1 /4 साध्य-दृष्टान्तयोर्धर्म्मंविकल्पादुभ्यसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्म्यविकल्पसाध्यसमाः।
5 /1 /5 किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः।
5 /1 /6 साध्यातिदेशाच्च दृष्टान्तोपपत्तेः।
5 /1 /7 साध्यसमप्राप्य वा हेतोः प्राप्त्या अविशिष्टत्वादप्राप्त्या असाधकत्वाच्च प्राप्त्यप्राप्तिसमौ।
5 /1 /8 घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारदप्रतिषेधः।
5 /1 /9 दृष्टन्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ।
5 /1 /10 प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः।
5 /1 /11 प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टन्तः।
5 /1 /12 प्रगुत्पत्तेः करणाभावादनुत्पत्तिसमः।
5 /1 /13 तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः।
5 /1 /14 सामान्यदृष्टान्तयोरैन्द्रयकत्वे समाने नित्यानित्यसाधर्म्म्यात् संशयसमः।
5 /1 /15 साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्यपगमाच्च सामान्यस्यप्रतिषेधः।
5 /1 /16 उभयसाधर्म्यात् प्रकरमसिद्धेः प्रकरणसमः।
5 /1 /17 प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषंधानुपपत्तिः प्रतिषेधः।
5 /1 /18 त्रैकाल्यासिद्धेरहेतोरहेतुसमः।
5 /1 /19 न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः।
5 /1 /20 प्रतिषेधानुपपत्तेश्च प्रतिषेध्याप्रतिषेधः।
5 /1 /21 अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः।
5 /1 /22 अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाचेचार्थापत्तेः।
5 /1 /23 एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः।
5 /1 /24 क्वचिद्धर्म्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः।
5 /1 /25 उभयकारणोपपत्तेरुपपत्तिसमः।
5 /1 /26 कारणान्तरादपि तद्धर्म्मोपपत्तेरप्रतिषेधः।
5 /1 /27 तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः।
5 /1 /28 अनुपलम्भात्मकत्वादनुपब्धेरहेतुः।
5 /1 /29 ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम्।
5 /1 /30 साधर्म्यात् तुल्यधर्म्मोपपत्तेः सर्वनित्यत्वप्रसङ्गादनित्यसमः।
5 /1 /31 साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च।
5 /1 /32 दृष्टान्ते च साध्चयसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः।
5 /1 /33 नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः।
5 /1 /34 प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः।
5 /1 /35 प्रयत्नकार्य्यानेकत्वात् कार्य्यसमः।
5 /1 /36 कार्य्यन्यत्वे प्रयत्नाहेतुत्वमनुलब्धिकारणोपपत्तेः।
5 /1 /37 प्रतिषेधेऽपि समानो दोषः।
5 /1 /38 सर्वत्रैवम्।
5 /1 /39 प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङगो मतानुज्ञा।
5 /1 /40 स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारो हेतुनिर्देशे परपक्षदोषाभ्यपगमात् समानो दोष इति।।
इति गौतमीयन्यायसूत्रे पञ्चमाध्यास्य प्रथमाह्निकम्।
द्वितीयमाह्निकम्
5 /2 /1 प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तसमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकंपुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्य्यनुयोज्योपेश्रणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि।
5 /2 /2 प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः।
5 /2 /3 प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनर्देशः प्रतिज्ञान्तरम्।
5 /2 /4 प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः।
5 /2 /5 पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः।
5 /2 /6 अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्।
5 /2 /7 प्रकृतादर्थादप्रतिसमबद्धार्थमर्थान्तरम्।
5 /2 /8 वर्णक्रमनिर्देशवन्निर्थकम्।
5 /2 /9 परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्तम्।
5 /2 /10 पौर्वापर्यायोगादप्रतिसमबद्धार्थमपार्थकम्।
5 /2 /11 अवयवविपर्यासवचनमप्राप्तकालम्।
5 /2 /12 हीनमन्यतमेनाप्यवयवेन न्यूनम्।
5 /2 /13 हेतुदाहरणाधिकमधिकम्।
5 /2 /14 शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्।
5 /2 /15 अनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशेषोपपत्तेः।
5 /2 /16 अर्थादापन्नस्य स्वशब्देन पुनर्वचनम्।
5 /2 /17 विज्ञातस्य परिषदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणम्।
5 /2 /18 अविज्ञातञ्चाज्ञानम्।
5 /2 /19 उत्तरस्याप्रतिपत्तिरप्रतिभा।
5 /2 /20 कार्य्यव्यासङ्गात् कथाविच्छेदो विक्षेपः।
5 /2 /21 स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मतानुज्ञा।
5 /2 /22 निग्रहस्थानप्राप्तस्यानिग्रहः पर्य्यनुयोज्योपेक्षणम्।
5 /2 /23 अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः।
5 /2 /24 सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः।
5 /2 /25 हेत्वाभासाश्च यथोक्ताः।
इति गौतमीयन्यायसूत्रे पञ्चमाध्यास्य प्रथमाह्निकम्, पञ्चमोऽध्यायश्च।