कौटिलीयम् अर्थशास्त्रम् Kautilya - Arthasastra
To Search in Text |
step-1 |
step-2 Press Control + F |
उपनिषद् में की-वर्ड की खोज के लिये : - |
step-1 |
step2. कण्ट्रोल एफ दबाएँ।. |
1. ◄►विद्यासमुद्देशः◄►2. वृद्धसंयोगः◄►3. इन्द्रियजयः◄►4. अमात्योत्पत्तिः◄►5. मन्त्रिपुरोहितोत्पत्तिः◄►6. उपाधिभिः शौचाशौचज्ञालममात्यानाम्◄►7. गूढपुरुषोत्पत्तिः◄►8. गूढपुरुषप्रणिधिः◄►9. स्वविषये कृत्याकृत्यपक्षरक्षणम्◄►10. परविषयेकृत्याकृत्यपक्षोग्रहः◄►11. मन्त्राधिकारः◄►12. दूतप्रणिधिः◄►13. राजपुत्ररक्षणम्◄►14. अवरूद्धवृत्तम्◄►15. अवरूद्धे च वृत्तिः◄►16. राजप्रणिधिः◄►17. निशान्तप्रणिधिः◄►18. आत्मरक्षितकम्◄►
|
विनयाधिकारिकं – प्रथममधिकरणम् ॐ नमः शुक्रबृहस्पतिभ्याम्। पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापित्नि प्रायशस्तानि संहृत्यैकमिदमर्थशास्त्रं कृतम्। तस्यायं प्रकरणाधिकरणसमुद्देशः – 1. विद्यासमुद्देशः। 2. वृद्धसंयोगः। 3. इन्द्रियजयः 4. अमात्योत्पत्तिः। 5. मन्त्रिपुरोहितोत्पत्तिः। 6. उपाधिभिः शौचाशौचज्ञालममात्यानाम्। 7. गूढपुरुषोत्पत्तिः। 8. गूढपुरुषप्रणिधिः । 9. स्वविषये कृत्याकृत्यपक्षरक्षणम्। 10. परविषयेकृत्याकृत्यपक्षोग्रहः। 11. मन्त्राधिकारः। 12. दूतप्रणिधिः । 13. राजपुत्ररक्षणम् 14. अवरूद्धवृत्तम्। 15. अवरूद्धे च वृत्तिः। 16. राजप्रणिधिः। 17. निशान्तप्रणिधिः। 18. आत्मरक्षितकम्। इति विनयाधिकारिकं प्रथमाधिकरणम्।। 1. जनपदविनिवेशः। 2. भूमिच्छिद्रविधानम्। 3. दुर्गविधानम्। 4. दर्गविनिवेशः। 5. सन्निधातृनिचयकर्म। 6. समाहर्तृसमुदयप्रस्थापनम्। 7. अक्षपटले गाणनिक्याधिकारः। 8. समुदयस्य युक्तापहृस्य प्रत्यान्यनम्। 9. उपयुक्त परीक्षा। 10. शासनाधिकारः। 11. कोशप्रवेश्यसत्नपराक्षा। 12. आकरकर्मान्तप्रवर्तनम्। 13. अक्षशालायां सुवर्णाध्यक्षः । 14. विशिखायां सौवर्णिकप्रचारः। 15. कोष्ठिगाराध्यक्षः । 16. पण्याध्यक्षः । 17. कुप्याध्यक्षः। 18. आयुधागाराध्यक्षः। 19. तुलामालपौतवम्। 20. देशकालमानम्। 21. शुल्काध्यक्षः। 22. सूत्राध्यक्षः। 23. सीताध्यक्षः। 24. सुराध्यक्षः। 25. सूनाध्यक्षः। 26. गणिकाध्यक्षः। 27. नावध्यक्षः। 28. गोध्यक्षः। 29. अश्वाध्यक्षः । 30. हस्त्यध्यक्षः। 31. रथाध्यक्षः 32. पत्त्यध्यक्षः। 33. सेनापतिप्रचारः। 34. मुद्राध्यक्षः। 35 विवीताध्यक्षः। 36. समाहर्तृप्रचारः। 37. गृहपतिकवैदेहकतापसव्यञ्जनाः प्रणिधयः। 38. नागरिकप्रणिधिः। इत्यध्यक्षप्रचारो द्वितीयमधिकरणम्।। 1. व्यवहारस्थापना। 2. विवादपदनिबन्धः। 3.विवाहसंयुक्तम्। 4. दायविभागः.। 5. वास्तुकम्। 6. समयस्यापानकर्म। 7. ऋणदानम्। 8. यौपनिधिकम्। 9. दासकर्मकरकल्पः। 10. समभूयसमुत्थानम्। 11. विक्रीतक्रीतानुशयः। 12. दत्तस्यानपाकर्म। 13. अस्वामिविक्रयः। 14. स्वस्वामिसम्बन्धः। 15. साहसम्। 16. वाक्पारुष्यम्। 17. दण्डपारुष्यम्। 18. द्यूतसमाह्वयम्। 19. प्रकीर्णानि। इति धर्मस्थीयं तृतीयमधिकरणम्।। 1. कारुकरक्षणम्। 2. वैदेहकरक्षणम्। 3. उपनिपातप्रतीकारः। 4. गूढाजीविमां रक्षा । 5. सिद्धव्यञ्जनैर्माणवप्रकासनम्। 6. शङ्कारूपकर्माभिग्रहः। 7. आशुमृतकपरीक्षा। 8. वाक्य कर्मानुयोगः। 9. सर्वाधिकरणक्षणम्। 10. एकाङ्गवधनिष्क्रयः। 11. शुद्धश्चिक्षश्च दण्डकल्प। 12. कन्याप्रकर्म। 13. अतिचारदण्डः। इति कण्टकशोधनं चतुर्थमधिकरणम् ।। 1. दाण्डकर्मिकम्। 2. कोशाभिसंहरणम्। 3. भृत्यभरणीयम्। 4. अनुजीविवृत्तम्। 5. सामयाचारिकम्। 6. राज्यप्रतिसन्धानम्। 7. एकैश्वर्यम् । इति योगवृत्तं पञ्चममधिकरणम्।। 1. प्रकृतिसम्पदः। 2. शमव्यायामिकम्। इति मण्डलयोनिः षष्ठमधिकरणम्।। 1. षाड्गुण्यसमुद्देशः। 2. क्षयस्थानवृद्धिनिश्चयः। 3. संश्रयवृत्तिः। 4. समहीनज्यायसां गुणाभिनिवेशः। 5. हीनसन्धयः। 6. विगृह्यासनम्। 7. सन्धायासनम्। 8. विगृह्ययानम्। 9. सन्धाययानम्। 10. सम्भूयप्रयाणम्। 11. यातव्यामित्रयोरभिग्रहचिन्ता। 12. क्षयलोभविरागहेतवः प्रकृतीनाम् । 13. सामवायिकविपरिमर्शः। 14. संहितप्रयाणकम्। 15. परिपणितापरिपणितापसृताश्च सन्धयः। 16. द्वैधीभाविकाः सन्धिविक्रमाः। 17. यातव्यवृत्तिः। 18. अनिग्राह्यमित्रविशेषाः। 19. मित्रहिरण्यभूमिकर्मसनधयः। 20. बलवता विगृह्योपरोधहेतवः। 21. हीनशक्तिपूरणम्। 22. बलवता विगृह्योपरोधहेतवः। 23. दण्डोपनतवृत्तम्। 24. दण्डोपनायिवृत्तम्। 25. सन्धिकर्म। 26. सन्धिमोक्षः। 27. मध्यमचरितम्। 28. उदासीनचरितम्। 29. मण्डलचरितम्। इति षाड्गुण्यं सप्तममधिकरणम्।। 1. प्रकृतिव्यसनवर्गः। 2. राजराज्ययोर्व्यसनचिन्ता। 3. पुरुषव्यसनवर्गः। 4. पीडनवर्गः। 5. स्तम्भनवर्गः। 6. कोशसङ्गवर्गः। 7. बलव्यसनवर्गः। 8. मित्रव्यसनवर्गः। इति व्यसनाधिकारिकमष्टममधिकरणम्।। 1. शक्तिदेशकालबलाबलज्ञानम्। 2. यात्राकालाः। 3. बस्त्रोपादानकालाः। 4. सन्नाहगुणाः । 5. प्रतिबलकर्म । 6. पश्चात्कोपचिन्ता। 7. बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारः। 8. क्षयव्ययलाभवपरिमर्शः। 9. बाह्यभ्यन्तराश्चापदः । 10. दूष्यशत्रुसंयुक्ताः। 11.अर्थानर्थसंशययुक्ताः। 12. तासामुपायविकल्पजाः सिद्धयः। इत्याभियास्यत्कर्म नवममधिकरणम्।। 1. स्कान्धावारनिवेशः। 2. स्कान्धावारप्रयाणम्। 3. बलव्यसनावस्कन्दकालरक्षणम्। 4. कूटयुद्धविकल्पाः। 5. स्वसैन्योत्साहनम्। 6. स्वबलान्यबलव्यायोगः। 7. युद्धभूमयः 8. पत्त्यश्वरधहस्तिकर्माणि। 9. पक्षकहोरस्यानां बलाग्रतो व्यूहविभागः। 10. सारफल्गुबलविभागः। 11. पत्तयश्वरथहस्तियुद्धानि। 12, दण्डभोगमण्डलासंहतव्यूहव्यूहनम्। 13 तस्य प्रतिव्यूहसंस्थापनम्। इति साङ्ग्रामिकं दशममधिकरणम्।। 1. भेदोपादानानि। 2. उपांशुदण्डः। इति सङ्घवृत्तमेकादशमधिकरणम्।। 1. दूतकर्म। 2. मन्त्रयुद्धम्। 3. सेनामुख्यवधः। 4. मण्डलप्रत्साहनम्। 5. शस्त्राग्निरसप्रणिधयः। 6. विवधासारप्रसारवधः। 7. योगातिसन्धानम्। 8. दण्डातिसन्धानम्। 9. एकविजयः। इत्याबलीयसं द्वादशमधिकरणम्।। 1. उपजापः । 2. योगवामनम्। 3. अपसर्पप्रणिधिः । पर्युपासनकर्म। 5. अवमर्दः। 6. लब्धप्रशमनम्। इति दुर्गलम्भोपायस्त्रयोदशमधिकरणम्।। 1. परघातप्रयोगः। 2. प्रलम्भनम् । 3. स्वबलोपघातप्रतीकारः। 4. इत्यौपनिषदं चतुर्दशमधिकरणम्।। 1. तन्त्रयुक्तयः। इति तन्त्रयुक्तिः पञ्चदशमधिकरणम्।। शास्त्रसमुद्देशः पञ्चदशाधिकरणानि सपञ्चाशदध्यायशतं साशीति प्रकरणशतं षट् श्लोकसहस्राणीति। सुखग्रहणविज्ञेयं तत्त्वार्थपदनिशचितम्। कौटिल्येन क़ृतं शास्त्रं विमुक्तग्रन्थविस्तरम्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे प्रथमोऽध्यायः राजवृत्तिः।। 1. प्रकरणं विद्यासमुद्देशः – आन्वीक्षकीस्थापना। त्रयी वार्त्ता दण्डनीतिश्चेति मानवाः, त्रयीविशेषो ह्यान्वीक्षिकीति। वार्त्ता दण्डनीतिश्चेति बृहस्पत्याः, संवरणमात्रं हि त्रयी लोकयात्राविद इति। दण्डनीतिरेका विद्येत्यौशनसाः, तस्यां हि सर्वविद्यारम्भाः प्रतिबद्धा इति। चतस्र एव विद्या इति कौटिल्यः। ताभिर्धर्मार्थौ यद् विद्यात् , तद् विद्यानां विद्यात्वम्। साङ्ख्य योगो लोकायतं चेत्यान्वीक्षिकी । धर्माधर्मौ त्रय्याम्। अर्थानर्थौ वार्त्तायाम्। नयापनयौ दण्डनीत्याम्। बलाबले चैतासां हेतुभिरन्वीक्षमाणान्वीक्षिकी लोकस्योपकरोति, व्यसनेऽभ्युदये च बुद्धिमवस्थापयति, प्रज्ञावाक्यक्रियावैशारद्यं च करोति। प्रदीपः सर्वविद्यानामुपायः स्वकर्मणाम्। आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे द्वितीयोऽध्यायः विद्यासमुद्देशे आन्वीक्षकीस्थापना।। 1. प्रकरणं विद्यासमुद्देशः – त्रयीस्थापना । आनवीक्षिकी त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः। सामर्ग्यजुर्वैदास्भयस्त्रयी अथर्ववेदेतिहासवेदौ च वेदाः। शिक्षा कल्यो व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषमिति चाङ्गानि। एष त्रयीधर्मश्चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापनादौपकारिकः। स्वधर्मो ब्राह्मणस्याध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहश्चेति। क्षत्रिययस्याध्ययनं यजनं दानं शस्त्राजीलो भूतरक्षणं च। वैश्यस्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वणिज्या च। शूद्रस्य द्विज्तिशुश्रूषा वार्त्ता कारुकुशीलवकर्म । गृहस्थस्य स्वकर्मजीवस्तुल्यैरसमानर्षिभिर्वैवाह्यमृतुगामित्वं देवपित्रतिथिभृत्येषु त्यागः शेषभोजनं च। ब्रह्मचारिणः स्वाध्यायोऽग्निकार्याभिणेकौ भैक्षव्रतत्वमाचार्ये प्रणान्तिकी वृत्तिस्तदभावे गुरुपुत्रे सब्रह्मचारिणि वा। वानप्रस्थ प्रह्मचर्यं भूमौ शय्या जटाजिनधारणमग्निहोत्राभिषेकौ देवतापित्रतिथिपूजा वन्यश्चाहारः। वरिव्राजकस्य संयतेन्द्रयत्वमनारम्भो निष्किञ्चनत्वं सङ्गत्यागो भैक्षमनेकत्र अरण्यवासो बाह्याभ्यन्तरं च शौचम्। सर्वेषामहिंसा सत्यं शौचमनसूयानृशंस्यं क्षमा च। स्वधर्म स्वर्गायनन्त्याय च। तस्यातिक्रमे लोकः सङ्करादुच्छिद्येत। तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत्। स्वधर्मं संदधानो हि प्रत्य चोह च नन्दति।। व्यवस्थितार्यमर्यादः कृतवर्णाश्रमास्थितिः। त्रय्या हि रक्षितो लोकः प्रसीदति न सीदति।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे तृतीयोऽध्यायः विद्यासमुद्देशे त्रयीस्थापना ।। 1. प्रकरणं विद्यासमुद्देशः – वार्तादण्डनीतिस्थापना ।
कृषिपाशपाल्ये वणिज्चा च वार्त्ता धान्यपशुहिरण्यकुप्यविष्टिप्रदानादौपकारिकि। तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम्। आन्वीक्षिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्डनीतिः अलब्धलाभार्था, लब्धपरिरक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिपादनी च। तस्यामायत्ता लोकयात्रा । तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डः स्यात्। नह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः। नेति कौटिल्यः। तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः। मृदुदण्डः परिभूयते। यथार्हदण्डः पूज्यः। सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति। दुष्प्रणीतः कामक्रोधाभ्यामज्ञानाद् वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान्। अप्रणीतो हि मत्स्यन्यायमुद्भावयति। बलीयनबलं हि ग्रसते दण्डधराभावे। तेन गुप्तः प्रभवतीति। चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः। स्वधर्मर्माभिरतो वर्तते स्वेषु वेश्मषु।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे चतुर्थोऽध्यायः वार्तादण्डनीतिस्थापना । विद्या समुद्देशः समाप्तः।।
2. प्रकरणं वृद्धसंयोगः। तस्माद् दण्डमूलास्तिस्रो विद्याः। विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः। कृतकः स्वाभाविकश्च विनयः। क्रया हि द्रव्यं विनयति नाद्रव्यम्। शुश्रुषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या वियति नेतरम्। विद्यानां तु यथास्वमाचार्यप्रामाण्याद् विनयो नियमश्च। वृत्तचौलकर्मा निपिं सङ्ख्यानं चोपयुञ्जीत। वृत्तोपनयनस्त्रयीमान्वीक्षिकीं च शिष्टेभ्यः, वार्त्तामध्यक्षेभ्यः, दण्डनीतिं वक्तृप्रयोक्तृभ्यः। ब्रह्मचर्यं च आ षोडशाद् वर्षात्। अतो गोदानं दारकर्म च। अस्य नित्यश्च विद्यावृद्धसंयोगो विनयवृद्ध्यर्थं, तन्मूलत्वाद् विनयस्य। पूर्वमहर्भागं हस्त्यश्वरथप्रबरणविद्यासु विनयं गच्छेत्, पश्चिममितिहासश्रवणे। पुराणमितिवृत्तमाख्यायिकोदाहरणं धर्मशास्त्रमर्थशास्त्र चेतीतिहासः। शेषमहोरात्रभागमपूर्वग्रबणं गृहीतपरिचयं च कुर्यद्, अगृहीतानामाभीक्ष्ण्यश्रवणं च। श्रुताद्धि प्रज्ञोपजायते प्रज्ञाया योगो योगादात्मवत्तेति विद्यासामर्थ्यम्। विद्याविनीतो राजा हि प्रजानां विनये रतः। अनन्यां पृथवीं भुङ्क्ते सर्वभूतहिते रतः।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे पञ्चमोऽध्यायः वृद्धसंयोगः।। 3.प्रकरणम् इन्द्रियजयः – अरिषड्वर्गत्यागः। विद्याविनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदह्षत्यागात् कार्यः। कर्णत्वगक्षिजिह्वाघ्राणेन्द्रयाणां शब्दस्पर्शपूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः शास्त्रार्थानुष्ठानं वा। कृत्स्नं हि शास्त्रमिदमिन्द्रिजयः। तद्विरुद्धवृत्तिरवश्येन्द्रियश्चतुरन्तोऽपि राजा सद्यो विनश्यति- यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश करालश्च वैदेहः, कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः तालजङ्घश्च भृगुषु, लोभादैलश्चातुर्वर्ण्यमत्याहारयमाणः सौवीरश्चाजबिन्दुः, मानाद् रावाणः परदारानप्रयच्छन् दुर्योधनो राज्यादंशं च, मदाद् डम्भोद्भवो भतावमावि हैहयश्चार्जुनः, हर्षाद् वातापिरगस्त्यमत्यासादयन् वृष्णिसङ्घश्च द्वैपायनमिति। एते चान्ये च बहवः शत्रुषडवर्गमाश्रिताः। सबन्धुराष्ट्रा राजानो विनेशुरजितेन्द्रियाः।। शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रयः। अम्बरीषश्च नाभागो बुभुजाते चिरं महीम्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे षष्ठोऽध्यायः अरिषड्वर्गत्यागः।। 3. प्रकरणम् इन्द्रियजयः – राजर्षिवृत्तम्। तस्मादरिषड्वर्गत्यागेनेन्द्रयजयं कुर्वीत, वृद्धसंयोगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्योपदेशेन, लोकप्रयत्वमर्थसंयोगेन, हितेन वृत्तिम्। एवं वश्येन्द्रयः परस्त्रीद्रव्यहिंसाश्च वर्जयेत् स्वप्नं लौल्यमनृतमुद्धतवेषत्वमनर्थसंयोगं च, अधर्मसंयुक्तमनरेथसंयुक्तं च व्यवहारम्। धर्मार्थाविरोधेन कामं सेवेत न रिस्सुखः स्यात्। समं वा त्रिवर्गमन्योन्यानुबन्धम्। एको ह्यत्यासेवितो धर्मार्थकामानामात्मानमितरौ च पीडयति। अर्थ एव प्रधान इति कौटिल्यः अर्थमूलौ हि धर्मकामाविति। मर्यादां स्थापयेदाचार्यानमात्यान् वा, य एनमपायस्थालेभ्यो वारयेयुः, छायानालिकाप्रतोदेन वा रहसि प्रमाद्यन्तमभितुदेयुः। सहायसाध्यं राजत्वं चक्रमेकं न वर्तते। कुर्वीत सचिवांस्तस्मात् तेषां च श्रुणुयान्मतम्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे सप्तमोऽध्यायः इन्द्रियजये – राजर्षिवृत्तम् । इन्द्रयजयः समाप्तः।। 4. प्रकरणम् अमात्योत्पत्तिः। सहाध्यायिनोऽमात्यान् कुर्वीत दृष्टशौचसामर्थ्यत्वादिति भारद्वाजः, ते ह्यस्य विश्वास्या भवन्तीति। नेति विशालाक्षः। सहक्रीडितत्वात् परिक्षवन्त्येनम्। ये ह्यस्य गुह्यसधर्माणस्तानमात्यान् कुर्वीत समानशीलव्यसनत्वात्, ते ह्यस्य मर्मज्ञभयान्नापराध्यन्तीति। साधारण एष दोष इति पराशरः। तेषामपि मर्मज्ञभयात् कृताकृतान्यनुवर्तेत। यावद्भयो गुह्यमाचष्टे जनेभ्यः पुरुषाधिपः। अवशः कर्मणा तेन वश्यो भवति तावताम्।। य एनमापत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुस्तानमात्यान् कुर्वीत, दृष्टानुरागत्वादिति। लेति पिशुनः। भक्तिरेषा न बुद्धिगुणः। सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथादिष्टमर्थं सविशेषं वा कुर्युस्तानमात्यान् कुर्वीत, दृष्टगुणत्वादिति। नेति कौणपदन्तः। अन्यैरमात्यगुणैरयुक्ता ह्येते। पितृपैतामहानमात्यान् कुर्वीत, दृष्टपदानत्वात्। ते ह्येनमपचरन्तमपि न त्यजन्ति, सगन्धत्वात्। अमानुषेष्वपि चैतद् दृश्यते- गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धष्वेवावतिष्ठन्ते इति। नेति वातव्याधिः, ते ह्यस्य सर्वमवगृह्य स्वामिवत् प्ररन्तीति। तस्मान्नीतिविदो नवानमात्यान् कुर्वीत्, नवास्तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्तीति। नेति बाहुदन्तीपुत्रः। शास्त्रविददृष्टकर्मा कर्मसु विषादं गच्छेत्। अभिजनप्रज्ञाशौचचशौर्यानुरागयुक्तानमात्यान् कुर्वीत्, गुणप्राधान्यादिति। सर्वमुपपन्नमिति कौटिल्यः, कार्यसामर्थ्याद्धि पुरुषसामर्थ्यं कल्प्यते सामर्थ्यतश्च। विभज्यामात्यविभवं देशकालौ च कर्म च । अमात्याः सर्व एवैते कार्याः स्युर्नतु मन्त्रिणः।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे अष्टमोऽध्यायः अमात्योत्पत्तिः।। 5. प्रकरणं मन्त्रिपुरोहितोत्पत्तिः। जानपदोऽभिजातः स्ववग्रहः कृतशिल्पश्चक्षष्मान् प्राज्ञो धारयिष्णुर्दक्षो वाग्ग्मी प्रगल्भः प्रतिपत्तिमानुत्साहप्रभावयुक्तः क्लेशसहः शुचिर्मैत्रो दृढभक्तिः शीलबलारोग्यसत्त्वसंयुक्तः स्तम्भचापल्यवर्जितः संप्रयो वैराणामकर्तेत्यमात्यसमपत्। अतः पादार्धगुणहीनौ मध्यमावरौ। तेषां जनपदमवग्रहं चाप्यतः परीक्षेत, सानविद्येभ्यः शिल्पं शास्त्रचक्षुष्मत्तां च, कर्मारम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथा योगेषु वाग्ग्मित्वं प्रगल्भ्यं प्रतिभानवत्त्वं च; आपद्युत्साहप्रभावौ क्लेशसहत्वं च; संव्यवहाराच्छौचं मैत्रतां दृढभक्तित्वं च; संवासिभ्यः शीलबलारोग्यसत्त्वयोगमस्तम्भमचापल्यं च; प्रत्यक्षतः संप्रयत्वमवैरित्वं च। प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः। स्वयंदृष्टं प्रत्यक्षं परोपदिष्टं परोक्षं कर्मसु कृतेनाकृतावेक्षणमनुमेयम्। यौगपद्यात् तु कर्मणामनेकत्वादनेकस्थत्वाच्च देशकालात्ययो मा भूदिति परोक्षममात्यैः कारयेदित्यमात्यकर्म। पुरोहितमुदितोदितकुलशीलं षडङ्गे वेदे दैवे निमित्ते दण्डनीत्यां च अभिविनीतमापदां दैवमानुषीणाम् अथर्वभिरुपायैश्च प्रतिकर्तारं कर्वीत। तमाचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनमिव चानुवर्तेत। ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम्। जयत्यजितमत्यन्तं शास्त्रनुगतशस्त्रितम्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे नवमोऽध्यायः मन्त्रिपुरोहितोत्पत्तिः॥ प्रकरण उपाधिभिः शौचाशौचज्ञानममात्यानाम् मन्त्रिपुरोहितसखः सामान्येष्वधिकरणेषु स्थापयित्वामात्यानुपधिभिः शौचयेत्। पुरोहितमयाज्ययाजनाध्यापने नियक्तममृष्यमाणं राजा अवक्षिपेत्। स सत्रिभिः शपथपूपवमेकैकममात्यमुपजापयेत्—अधार्मिकोऽयं राजा, साधु धार्मिकमन्यमस्य तत्कुलीनमवरुद्धं कुल्यप्रकमग्रहं सामन्तमाटविकमौपपादिकं वा प्रतिपादयामः। स्वेषामेतद्रोचते, कथं वा तवेति। प्रत्याख्याने शुचिरिति धर्मोपधा। सेनापतिरसत्प्रग्रहेणावाक्षिप्तः सत्रिभिरेकैकममात्यमुपजापयेल्लोभनीयेनार्थेन राजविनाशाय—सर्वेषामेतद् रोचते, कथं वा तवेति। प्रत्याख्यने शुचिरित्यर्थोपधा। परिव्राजिका लब्धविश्वासान्तःपुरे कृतसत्कारा महामात्रमेकैकमुपजपेत्—राजमहिषीत्वांकमयते कृतसागमोपाया। महानर्थश्च भविष्यतीति । प्रत्याख्याने शुचिरिति कामोपधा. प्रवहणनिमित्तमेकोऽमात्यः सर्वामात्यानावाहयेत्। तेनोद्वेगेन राजा त्ानवरुन्ध्यात्। कापटिकशछाक्षः पूर्वावरुद्धस्तेषामर्थमानीवक्षिप्तमेकैकममात्यमुपजपेत्—असत्प्रवृत्तोऽयं राजा, साध्वेनं हत्वा अल्यं प्रतिपादयिष्यामः। सर्वेषामेतद् रोचते, कथं वा तवेति। प्रत्याख्याने शुचिरिति भयोपधा। तत्र धर्मोपधाशुद्धान् धर्मस्थीयकण्टकशोधनेषु स्थापयेद्, अरथोपधाशुद्धान् समाहर्तृसन्निघातृनिचयकरमसु, कामोपधाशुत्धान् बाह्याभ्यन्तरविहाररक्षासु, भयोपधाशुद्धानासन्नकार्येषु राज्ञः। सर्वोपधाशुद्धान् मन्त्रिणः कुर्यात्। सर्वत्राशुचीम् खनिद्रव्यहस्तिवनकर्मान्तेषूपयोजयेत्। त्रवर्गभयसंशुद्धानमात्यान् स्वेषु कर्मसु। अधिकुर्याद् यथाशौचमित्याचार्या व्यवस्थिताः।।
नत्वेव
कुर्यादात्मानं देवीं वा लक्षमीश्वरः। न दूषणमदुष्टस्य विणेणेवाम्भसश्चरेत्। कदाचिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम्।। कृता च कलुषा बुद्धरुपधाभिश्चतुर्विधा। नागत्वान्तं निवर्तेत स्थिता सत्त्ववतां धृतौ।। तस्माद् वाह्यमधिष्ठानं कृत्वा चार्ये चतुर्विधे। शौचाशौचाममात्यानां राजा मार्गेत सत्रिभिः।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे दशमोऽध्यायः उपाधिभिः शौचाशौचज्ञानममात्यानाम्
प्रक. गूढपुरुषोत्पत्तिः। उपाधिभिः शुद्धमात्यवर्गो गूढपुरुषानुत्पादयेत् कापटिकोदस्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्रितीक्ष्णरसदभिक्षुकीश्च। परमर्मज्ञः प्रल्भश्छात्रः कापटिकः। तमर्थमानाभ्यामुत्साह्य मन्त्री ब्रूयात्—राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत् तदानीमेव प्रत्यादिशेति।
प्रव्रज्याप्रत्यवसितः प्रज्ञाशौचयुक्त उदस्थितः। स वार्त्ताकर्मप्रदिष्टायों भूमौ
प्रभूतहिरण्यान्तेवासी कर्म कारयेत्। कर्मफनाच्च सर्वप्रव्रजितानां
ग्रसाच्छादनावस्थान् प्रतिविदध्यात्। वृत्तिकामांश्चोपजपेत्—एतेनैव
वेषेण साजार्थशचरितव्यो भक्तवेतनकाले चोपस्थातव्यमिति। सर्वप्रव्रजिताश्च स्वं स्वं
वर्गमुपजपेयुः। मुण्डो जदिलो वा वृत्तिकामस्तापसव्यञ्जनः . स नगराभ्याशेप्रभूतमुण्डजटिलान्तेवासी शाकं यवसमुष्टिं वा मासद्विमासान्तरं प्रकाशमश्नीयात्, गूढमिष्टमाहारम्। वैदेहकान्तेवासिनश्चैनं समिद्धयोगैरर्चयेयुः। शिष्याश्चास्यावेदयेयुः—असौ सिद्धः सामेध्क इति। समेधाशास्तिभिश्चाभिगतानामङ्गविद्यया शिष्यसंज्ञाभिश्च कर्माण्यभिजनेऽवसितान्यादिशेदल्पलाभमग्निदाहं चोरभयं दूष्यवधं तुष्टिदानं विदेशप्रवृत्तिज्ञानम् इदमद्य श्वो वा भविष्यतीदं वा राजा करिष्यतीति। तदस्य गूढाः सत्रिणश्च संवादयेयुः। सत्त्वप्रज्ञावाक्यशक्तिसम्पन्नानां राजभाव्यमनुव्याहरेन्मन्त्रिसंयोगं च। मन्त्री चैषां वृत्तिकर्मभ्यां वियतेत। ये च कारणादभिक्रद्धास्तार्थमानाभ्यां शमयेत्, अकारणक्रद्धन् तूष्णीदण्डेन राजद्विष्टकारिणश्च। पूचिताश्चार्थमानाभ्यां राज्ञा राजोपजीनिनाम्। जानीयुः शौचमित्येताः पञ्च संस्थाः प्रकीर्तिताः।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे एकादशोऽध्यायः गूढपुरुषोत्पत्तौ संस्थोत्पत्तिः। प्रक. गूढपुरुषप्रणिधिः। ये चास्य सम्बन्धिनोऽवश्यभर्तव्यस्ते लक्षणमङ्गविद्यां जम्भकविद्यां मायागतमाश्रमधर्मं निमित्तमन्तरचक्रमित्यधीयानाः सत्रिणः संसर्गविद्या वा। ये जनपदे शूरास्त्यक्तात्मालो स्तिनं व्यालं वा द्रव्यहेतोः प्रतियोदयेयुस्ते तीक्ष्णाः। ये बन्धुषु निःस्नेहाः क्रूराश्चालसाश्च ते रसदाः। परिव्रजिका वडत्िकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृतसत्कारा महामात्रकुलान्यधिगच्छेत्। एतया मुष्डावृषल्यो व्याख्याताः। इति सञ्चाराः। तान् राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वेशिकप्रशास्तऋसमाहर्तृसन्निधातृप्रदेष्टनायकपौरव्यानहर्ककार्मान्तिकमन्त्रिपरिषदध्यक्षदण्डदुर्गान्तपालाटविकेषु श्रद्धेयदेशवेषशिल्पभाषाभिजनापदेशान् भक्तितः सामर्थ्ययोगाच्चापसर्पयेत्। तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहनोपग्राहिणस्तीक्ष्णा विद्युः। तं सत्रिणः संस्थास्वर्पयेयुः। सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारका रसदाः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मानो नटनर्तक गायनवादकवाग्जीवनकुशीलवाः स्त्रियश्चाभ्यन्तरं चारं विद्युः। तं भिक्षुक्यः संस्थास्वर्पयेयुः। संस्थानामन्तेवासिनः संज्ञालिपिभिश्चारसञ्चारं कुर्युः। न चान्योन्यं संर्थास्ते वा विद्युः। भुक्षुकीप्रतिषेधे द्वारस्थपरम्परा मातापितृव्यञ्जनाः शिल्पकारिकाः कुशीलवा दास्यो वा गीतपाठ्यवाद्यभाणडगूढलेष्यसंज्ञाभीर्वा चारं निर्हर्युः। दीर्घरोगोन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम्। त्रयाणामेकवाक्ये सम्प्रत्ययः। तेषामभीक्ष्णविनिपाते तूष्णी दण्डः प्रतिषेधो वा। कण्टकशोधनोक्ताश्चापसर्पाः परेषुक कृतवेतना वसेयुः समपातनिश्चारार्थं, च उभयवेतनाः। गृहीतपुत्रदारांश्च कुर्यादुभयवेतनान्। ताश्चारिप्रहितान् विद्यातम तेषां शौचं च तद्विधैः।। एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् ।
उदासीने च तेषां च
तीर्थेष्वष्टादशस्वपि।। शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छजातयः।। दुर्गेषु वणिजः संस्था दुर्गान्ते सिद्धतापसाः। कर्षकोदास्थिता राष्ट्रे राष्ट्रान्ते ब्रजवासिनः।। वनेवनचराः कार्याः श्रमणाटविकादयः। परप्रवृत्तिज्ञानार्थाः शीघ्रश्चारपरम्पराः।।
परस्य चैते
बोद्धव्यास्तादृशैरेव तादृशाः। परापसर्पज्ञानार्थं मुख्यान्तेषु वासयेत्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे द्वादशोऽध्यायः गूढपुरुषोत्पत्तौ सञ्चारोत्पत्तिः, गूढपुरुषप्रणिधिः।। प्रक. स्वविषये कृत्याकृत्यपक्षरक्षणम्। कृतमहामात्यापर्पः पौरजानपदानपर्पयेत्। सत्रिणो द्वन्द्विनस्तीर्थसभाशालापूगजनसमवायेषु विवादं कुर्युः—सर्वगुणसमपन्नश्चायं राजा श्रूयते। । न चास्य कश्चिद् गुणो दृश्यते यः पौर-जापदान् दण्डकराभ्यां पीडयति इति। तत्र येऽनुप्रशंसेयुः तानितरस्तं च प्रतिषेधयेत्—मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे। धान्यषड्भागं पण्यदशभागं हिरण्यं चास्य भागधेयं प्रल्पयामासुः। तेव भृता राजानः प्रजानां यागक्षेमवहाः। तेषां किल्बिषं दण्डकरा हरन्ति, योगक्षेमवहाश्य प्रजानाम्। तस्मादुञ्छषड्भागमारण्यका अपि निवपन्ति—तस्यैतद् भागधेयं योऽस्मान् गापोयतीति। इनद्रयमस्थानमेतद् राजानः प्रत्यहेडप्रसादाः । तानवमन्यमानं दैवोऽपि दण्डः स्पृशति। तस्माद् राजानो नावमन्तव्याः इति क्षुद्रकान् प्रतिषेधयेत्। किंवदन्तीं च विद्युः। ये चास्य धाल्यपशुहिरण्यान्यजीलन्ति, तैरुपकुर्वन्ति व्यसते अभ्यदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रमाटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनास्तुष्टातुत्वं विद्युः। तुष्टान भूयः पूजयेत्। अतुष्टांस्तुष्टिहेतोस्त्यागेन साम्वा च प्रसादयेत्। परस्पराद्वा भेदयेदनान् सान्ताटविकतत्कुलीनावरुद्धेभ्यश्च। तथाप्यतुष्यतो दण्डकरसाधनाधिकारेण वा जनपदविद्वेषं ग्राहयेत्। विद्विष्टानुपांशुदण्डेन जनपदकोपेन वा साधयेत्। गुप्तपुत्रदारानाकरकर्मान्तषु वा वासयेत् पराषामास्पदभयात्। क्रुद्धलुब्धभीतावमानिनस्तु परेषां कृत्याः। तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्पराभिसम्बन्धम् अमित्रप्रतिसम्बन्धं वा विद्युः। तुष्टानर्थमानाभ्यां पूजयेक्। अतुष्टान् सामदानभेददण्डैः साधयेत्। एवं स्वविषये कृत्यानकृत्यांश्च विचक्षणः। परोपजापात् संरक्षेत् प्रधानान् क्षुद्रकानपि।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे त्रयोदशोऽध्यायः स्वविषये कृत्याकृत्यपक्षरक्षणम्।। 10. प्रक. परविषये कृत्याकृत्यपक्षोपग्रहः। कृत्याकृत्यपक्षोपग्रहः स्वविषये व्याख्यातः परविषये वाच्यः। संश्रुत्यार्थन् विप्रलब्धः, तुल्यकारिणोः शिल्पे वोपकारे वा विमानितः, वल्लभावरुद्धः, समाहूयपराजितः, प्रवासोपतप्तः, कृत्वा व्ययमलब्धकार्यः, स्वधर्माद् दायाद्याद् वोपरुद्धः, मानाधिकारभ्यां भ्रष्टः, कुल्यैरन्तर्हितः, प्रसभाभिमृष्टस्त्रीकः, काराभिन्यस्तः, परोक्तदण्डितः, मिथ्याचारवारितः, सर्वस्वमाहारितः, बन्धनपरिक्लिष्टः, प्रवासितबन्धुरिति क्रुद्धवर्गः। स्वयमुपहतः, विप्रकृतः, पापकर्माभिख्यातः, तुल्यदोषदण्डेनोद्विग्नः, पर्यात्तभूमिः, दण्डेनोपहतः, सर्वाधिकरणस्थः, सहसोपचितार्थः, तत्कुलीनोपाशंसुः, प्रद्वष्टो राज्ञा, राजद्वेषी चेति भीतवर्गः। परिक्षीणोऽत्यात्तस्वः कदर्यो व्यसन्यत्याहितव्यतवहारश्चेति लुब्धवर्गः। आत्मसम्भावितो मानकामः शत्रुपूजामर्षितो नीचैरुपहितस्तीक्ष्णः साहसिको भोगेनासन्तुष्ट इति मानिवर्गः। तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयस्तं तेवोपजापयेत्। यथा मदान्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत् सर्वं प्रमृद्गत्येवमयमशास्त्रचक्षुरन्धो राजान्धेन मन्त्रिणाधिष्ठितः पौरजानपदवधायाभ्युत्थितः। शक्यमस्यप्रतिहस्तिप्रोत्साहनेनापकर्तुम्, अमर्षः क्रियताम् इति क्रद्धवर्गमुपजापयेत्। यथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषमुत्सृजत्यंवमयं राजा जातदोषाशङ्कस्त्वयि पुरा क्रोधविषमुत्सृजति, अन्यत्र गम्यताम् इति भीतवर्गमुपजापयेत्। यथा श्वगणिनां धेनुः श्वेभ्यो दुग्धे न ब्राह्मणेभ्यः एवमयं राजा सत्त्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुग्धे नात्मगुणसम्पन्नेभ्यः। असौ राजा पुरुषविशेषज्ञः सेव्यतामिति लुब्धवर्गमुपजापयेत्। यथा चण्डालोदुपानश्चण्डालानामेवोपभोग्यो नान्येषामेवमयं राजा नीचो नीचानामेवोपभोग्यो न त्वद्विभानामार्याणाम्। असौ राजा पुरुषविशेषज्ञः तत्र गम्यतामिति मानिवर्गमुपजापयेत्। तथेति प्रतिपन्नांस्तान् संहितान् पणकर्मणा। योजयेत यथाशक्ति सापसर्पान् स्वकर्मसु।। लभेत सामदानाभ्यां कृत्यांश्च परभूमिषु। अकृत्यान् भेददण्डाभ्यां परदोषांश्च दर्शयेत्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे चतुर्दशोऽध्यायः परविषये कृत्याकृत्यपक्षोपग्रहः।। 11. प्रक. मन्त्राधिकारः। कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भांश्चिन्तयेत्। मन्त्रपूर्वा सर्वारम्भाः। तदुद्देशः संवृतः कथावामनिःस्रावि पक्षिभिरव्यनालोक्यः स्यात्। श्रूयते हि शुकशारिकाभिर्मन्त्रो भिन्नः श्वभिरन्यैश्च तिर्यग्योनिभिः। तस्मान्मन्त्रोद्देशमनायुक्तो नोपगच्छेत्। उच्छिद्येत मन्त्रभेदी। मन्त्रभेदो हि दुतामात्यस्वामिनामिङ्गिताकाराभ्याम्। इङ्गितमन्यथावृत्तिः । आकृतिग्रहणमाकारः। तस्य संवरणम् र्युक्तपुरुषरक्षणम् कार्यकालादिति । तेषां रि प्रमादमदसुर्तप्रलापकामादिरुत्सेकः गच्छन्नोऽवमतो वा मन्त्रं भिनत्ति। तस्माद् रक्षेन्मन्त्रम्। मन्त्रभेदो ह्योगक्षेमकरो राज्ञस्तदायुक्तपुरुषाणां च । तस्माद् गुह्यमेको मन्त्रयेतेति भारद्वाजः। मन्त्रिमामपि हि मन्त्रिणो भवन्ति। तेषामप्यन्ते। सैषा मन्त्रपरम्परा मन्त्रं भिनत्ति। तस्मान्नास्य परे विद्युः कर्म किञ्चिच्चिकीर्षितम्। आरव्धारस्तु यानियुरारब्धं कृतमेव वा।। नैकस्य मन्त्रसिद्धिरिति विशालाक्षः। प्रत्यक्षपरोक्षानुमेया हि राजवृत्तः। अनुपलब्धस्य ज्ञानमुपलब्धस्य निश्चयबलाधानमर्थद्वैधस्य संशयच्छेदनमेकदेशदृष्टस्य शेषोपलब्धरिति मन्त्रिसाध्यमेतत्। तस्माद् बुद्धिवृद्धैः सार्धमासीत मन्त्रम्। न कञ्चिदवमन्येत सर्वस्य शृणुयान्मतम्। बालस्याप्यर्थवद् वाक्यमुपयुञ्जीत पण्डितः।। एतन्मन्त्रज्ञानं नैतन्मन्त्ररक्षणमिति पाराशराः। यदस्य कार्यमभिप्रतं तत्प्रतिरूपकं मनमत्रिणः पृच्छेत्—कार्यमिदमेवमासीदेवं वा यदि बवेत् तत् कथं कर्तव्यमिति । तेयथा ब्रूयुः तत् कुर्यात्। एवं मन्त्रोपलब्धिः संवृतिश्च भवतीति। नेति पिशुनः। मन्त्रिणो हि व्यवहितमर्थं वृत्तमवृत्तं वा पृष्टमवादरेण ब्रुवन्ति प्रकाशयन्ति वा । स दोषः । तस्मात् कर्मसु यो यष्वभिप्रतास्तै सह मन्त्रयेत् । तैर्मन्त्रयमाणो हि मन्त्रबुद्धिं गुप्तिं च लभत् इति। नेति कौटल्यः। अनवस्था ह्येषा। मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत। मन्त्रयमाणो ह्यकेनार्थकृच्छ्रेषु निश्चियं वाधिगचछेत्।एकश्च मन्त्री यथेष्टमनवग्रहश्चरति। द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते, विगृहीताभ्यां विनाश्यते। त्रिषु चतुर्षु वा नैकान्तं कृच्छ्रेणोपपद्यते महादोषम्। उपपन्नं तु भवति। ततः परेषु कृच्छ्रेणार्थनिश्चयो गम्यते, मन्त्रो वा रक्ष्यते। देशकालकार्यवशेन त्वेकेन सह द्वाभ्यामेको वा यथासामर्थं मन्त्रयेत। कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद् देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः तानेकैकशः पृच्छेत समस्तांञ्च। हेतुभिश्चैषां मतिप्रविवेकान् विद्यात्। अवाप्तार्थः कालं नातिक्रामयेत्। न दीर्घकालं मन्त्रयेत्। न च तेषां पक्ष्यैर्येषाम् अपकुर्यात्। मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीतेति मानवाः। षोडशेति बार्हस्पत्याः। विंशतिम् इत्यौशनसाः। यथासामर्थ्यम् इति कौटल्यः। ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः। अकृतारम्भमारब्धानुष्ठानमनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्यः। आसन्नैः सह कार्याणि पश्येत् , अनासन्नैः सह पत्रसम्प्रषणेन मन्त्रयेत। इन्द्रस्य हि मन्त्रिपरिषदृषीणां सहस्रम्। च तच्चक्षुः तस्मादिमे द्व्यक्षं सहस्राक्षमाहुः। आत्ययिते कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रीयात्। तत्र यद् भूयिष्ठाः कार्यसिद्धिकरं वा ब्रूयुस्तत् कुर्यात्। कुर्वतश्च— नास्य गुह्यं परे विद्युश्छिद्रं विद्यात् परस्य च। गूहेत् कूर्म इवाङ्गारि यत् स्याद् विवृतमात्मनः।। यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुमर्हति। एवमश्रुतशास्त्रार्थो न मन्त्रं श्रोतुमर्हति।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे पञ्चदशोऽध्यायः मन्त्राधिकारः।। प्रकरण—दूतप्रणिधिः। उद्धृतमन्त्रो दुतप्रणिधिः। अमात्यस्पदोपोतो निसृष्टार्थः पादगुणहीनः परिमितार्थः, अर्धगुणहीनः शासनहरः। सुप्रतिविहितयानवाहनपुपुषपरिवापः प्रतिष्ठेत। शासनमेवं वाच्यः परः, स वक्ष्यत्येवे, तस्येदं प्रतिवाक्यम्, एवमतिसनधातव्यम् इत्यधीयानो गच्छेत्। अटव्यन्तपानपुपपाष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेत्। अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावक्षेत। दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि चोपलभेत। पराधिष्ठानमनज्ञातः प्रविशेत्। शासनं च यथोक्तं ब्रूयात् प्राणाबाधेऽपि दृष्टे। परस्य वाचि वक्त्रे दृष्टयां च प्रसादं वाक्यपूजनमिष्टपरिप्रश्नं गुणक्थासङ्गमासन्नमासनं सत्कामिष्टेषु स्मरणं विश्वासगमनं च लक्षयेत् तुष्टस्य, विपरीतमतुष्टस्य। तं ब्रूयात्—दूतमुखा वै राजालस्त्वं चान्ये च । तस्मादुद्येतुष्वपि शस्त्रेषु यथोक्तं वक्तारः। तेषामल्तावसायिनोऽप्यवध्याः. किमङ्ग पुनरब्राह्मणाः । परस्यैतद् वाक्यमेष दूतधर्मः इति। वसेदविसृष्टः, पूजया नोत्सिक्तः, परेषु बलित्वं न मन्येत, वाक्यमिनिष्टं सहेत, स्त्रियः पानं च वर्जयेत्, एकः शयीत, सुप्तमत्तयोर्हि भावज्ञानं दृष्टम्। कृत्यपक्षोपजापमकृत्यपक्षे गूढप्रणिधानं रागापरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापसवैदेहकव्यञ्जनाभ्यामुपलभेत। तयोरन्तेवासिभिश्चितित्सकपाषण्डव्यढजनोभयवेतनैर्वा, तेषामसम्भाषायां याचकमत्तोन्मत्तसुप्तप्रलापैः पुण्यस्थानदेवगृहचित्रलेख्यसंज्ञाभिर्वा चारमुपलभेत। उपलब्धस्योपजापमुपेयात्। परेण चोक्तः स्वासां प्रकृतीनां परिमाणं नाचक्षीत। सर्वं वेद भवानिति ब्रूयात्, कार्यसिद्धिकरं वा। कार्यस्य सिद्धावुपरुध्यमालस्तर्कयेत् किं भर्तुर्मे व्यसनमासन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तुकामः, पार्ष्णिग्रहासारावन्तः कोपमाटनिकं वा सुत्थापयितकामः, मित्रमाक्रन्दं वा व्यापादयितुकामः, स्वं वा परतो विग्रहमन्तः कोपमाटनिकं वा प्रतिकर्तुकामः, संसिद्धं मे भर्तुर्यात्राक्नमभिहन्तुकामः सस्यकुप्यपण्यसङ्ग्रहं दुर्गकर्म बलसमुत्थानं वा कर्तुकामः, स्वसैन्यानां वा व्यायामदेशकालावाकाङ्क्षमाणाः, परिभवप्रमदाभ्यां वा, संसर्गानुबन्धार्थी वा मामुपरुणद्धीति। ज्ञात्वा वसेदपसरेद् वा । प्रयोजनमिष्टमलेक्षेत वा । शासनमनिष्टमुक्त्वा बन्धवधभयादविसृष्टोऽप्यपगच्छेद् अन्यथा नियम्येत। प्रषणं सन्धिपालत्वं प्रतापो मित्रसङ्ग्रहः। उपजापः सुहृद्भेदो दण्डगूढातिसारणम्।। बन्धुरत्नापहरणं चारज्ञानं पारक्रमः। समाधिमोक्षो दूतस्य कर्म योगस्य चाश्रयः।। स्वदूतैः कारयेदेतत् परदूतांञ्च रक्षयेत्। प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे षोडशोऽध्यायः दूतप्रणिधिः।। 13.प्रकरणं राजपुत्ररक्षणम्। रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः पतेभ्यश्च। पूर्वं दारेभ्यः पुत्रेभ्यश््च। दाररक्षणं निशान्तप्रणिधो वक्ष्यामः। पुत्ररक्षणं—जन्मप्रभृति राजपुत्रान् रक्षेत्। कर्कटकसधर्माणो हि जनकभश्राः राजपुत्राः। तेषामजातस्नेहे पितर्युपांशुदण्डः श्रेयानिति भारद्वाजः। नृशंसमदृष्टवधः क्षत्रविनाशश्चेति विशालाक्षः।तस्मादेकस्थानावरोधः श्रेयानिति। अहिभयमेतदिदि पापशराः। कुमारो हि विक्रमभयान्मां पिता रुणदधीति ज्ञात्वा तमेवाङ्ते कुर्यात्।तस्मादन्तपालदुर्गे वासः श्रेयानिति। औरभ्रकं भयमेतदिति पिशुनः। प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वान्तपालसखः स्यात्। तस्मात् स्वविषयादपकृष्टे सामन्तदुर्गे वासः श्रेयानिति। वत्सस्थानमेतदिति कौणपदन्तः। वत्सेनेव हि धेनुं पितरमस्य सामन्तो दुह्यात्। तस्मान्मातृबन्धुषु वासः श्रेयानिति। ध्वजस्थानमेतद् इति वातव्याधिः। तेन हि ध्वजेनादितिकौशिकवदस्य मातृबान्धवा भिक्षेरन्। तस्माद् ग्राम्यधर्मेष्वेनमवसृजेयः। सुखोपरूद्धा हि पुत्राः पितरं नाभिद्रुह्यन्तीति. जीवन्मरणमेतदिति कौटल्यः। काणठमिव हि घणजग्धं राजकुलमविनीतपुत्रमभियुक्तमात्रं भज्येत। तस्माद् ऋतुमत्यां महिष्याम् ऋत्विजश्चरुमैन्द्रावार्हस्पत्यं निर्वपेयुः। आपन्नसत्त्वायां कौमारभृत्यो गर्भभर्मणि प्रजने च वियतेत। प्रजातायाः पुत्रसंस्कारं पुरोहितः कुर्यात्। समर्थं तद्विदो विनयेयुः। सत्रिणामेकशचैनं मृगयाद्यूतमद्यस्त्रीभिः प्रलोभयेत्—पितरि विक्रम्य राज्यं गृहाणेति। तदन्यः सत्री प्रतिषंधयेत् इत्याम्भीयाः। महादोषमबुद्धबोधनमिति कौटल्यः। नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तत्तदाचूषति, एवमयं नवबुद्धिर्यद्यदुच्येत तत्तच्छास्त्रोपदेशमिवाभिजानाति। तस्माद् धर्ममर्थं चास्योपदिशेन्नाधर्ममनर्थं च। सत्रिणस्त्वेनं तव स्मः इति वदन्तः पालयेयुः। यौवनोत्सेकात् परस्त्रीषु मनः कुर्वाणम् आर्याव्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्यागारेषु रात्रावुद्वजयेयुः। मद्यकामं योगपानेनोद्वजयेयुः। द्यूतकामं कापटिकैः पुरुषैरुद्वजयेयुः। मृगयाकामं प्रतिरोधकव्यञ्जनैस्त्रासयेयुः। पतरि विक्रमबुद्धिं तथेत्यनुप्रविश्य भदयेयुः—अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरकपातः, संक्रोशः प्रजाभिरेकलोष्टवधश्चेति। विरागं प्रियमेकपुत्रं वा बध्नीयात्। बहुपुत्रः प्रत्यन्तमन्यविषयं वा प्रषयेद् यत्र गर्भः पण्यं जिम्वो वा न भवेत्। आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत्। बुद्धिमानाहार्यबुद्धिर्दुर्बुद्धिरिति पुत्रविशेषाः। शिष्यमाणो धर्मार्थावुपलभते चानुतिष्ठति च बुद्धिमान्। उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः। अपायनित्यो धर्मार्थद्वेषी चेति दुर्बुद्धिः। स यद्येकपुत्रः पुत्रोत्पत्तावस्य वियतेत। पुत्रिकापुत्रानुत्पादयेद् वा। वृद्धस्तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानामन्यतमेन क्षेत्रे बीजमुत्पादयेत। न चैकपुत्रमविनीतं राज्ये स्थापयेत। बहूनामेकसंरोधः पिता पुत्रहितो भवेत। अन्यत्रापद ऐश्वर्यं ज्येष्ठभागि तु पूज्यते।। कुल्य वा भवेद् राज्यं कुलसङ्घो हि दुर्जयः। अराजव्यसनाबाधः शश्वदावस्ति क्षितिम्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे सप्तदशोऽध्यायः राजपुत्ररक्षणम्।। 14,15. प्रकरण-अवरूद्धवृत्तम्, अवरुद्धे च वृत्तिः। राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत, अन्यत्र प्राणाबाधकप्रकृतिकोपपातकेभ्यः. पुण्यकर्मणि नियुक्तः पुरुषमधिष्ठितारं याचेत। पुपुषाधिष्ठितश्च सविशेषमादेशमनितिष्ठेत्। अभिरूपं च कर्मफलमौपायनिकं च लाभं पितुरुपनाययेत। तथाऽप्यतुष्यन्तमन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तमरण्याय आपृच्छेत। बन्धवधभयाद् वा यः सामन्तो न्यायवृत्तिधार्मिकः सत्यवागविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तमाश्रयेत। तत्रस्थः कोशदण्डसम्पन्नः प्रवीरपुरुषकन्यासम्बन्धमटनीसम्बन्धं कृत्यपक्षोपग्रहं वा कुर्यात्। एकचरः सुवर्णपाकमणिरागहेमरूप्यपण्याकरकर्मान्तानाजीवेत्। पाषण्डसङ्घद्रव्यमश्रोत्रियभोग्यं देशद्रव्यमाढ्यविधवाद्रव्यं वा गूढमनुप्रविश्य सार्थयानपात्राणि च मदनरसयोगेनातिसन्धायावहरेत्। पारग्रामिकं वा योगमातिष्ठेत्। मातुः परिजनोपग्रहेण वा चेष्टेत। कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपाषण्डच्छद्मभिर्वा नष्टरूपस्तद्व्यञ्जनसखः छिद्रे प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रहृत्य ब्रूयात्—अहमसौ कुमारः, सहभोग्यमिदं राज्यमेको नार्हति भोक्तुं, तत्र यो कामयन्ते भर्तुं तानहं द्वगुणेन भक्तवेतनेनोपस्थास्ये इति। इत्यवरुद्धवृत्तम्।। अवरुद्धं तु मुख्यपुत्रापसर्पाः प्रतिपाद्यानयेयुः, माता वा प्रतिगृहीता। त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः। अत्यक्तं तुल्यशीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसज्ज्य रात्रावुपगृह्यानयेयुः। उपस्थितं च राज्येन मदूर्ध्वमिति सान्त्वयेत्। एकस्थमथ संरुन्ध्यात् पुत्रवान् वा प्रवासयेत।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे, अष्टादशोऽध्यायः, अवरूद्धवृत्तम्, अवरुद्धे च वृत्तिः। 16. प्रकरण-राजप्रणिधिः। राजानमुत्तिष्ठमानमनूत्तिष्ठन्ते भृत्याः। प्रमाद्यन्तमनुप्रमाद्यन्ति। कर्माणि चास्य भक्षयन्ति। द्विषत्भिश्चातिसन्धीयते। तस्मादुत्थानमात्मनः कुर्वीत। नालिकाभिरहरष्टधा रात्रिं च विभजेत्। छायाप्रमाणेन वा त्रिपौरुषी पौरुषी चतुरङ्गुला चच्छाया मध्याह्न इति चत्वारः पूर्वे दिवसस्याष्टभागाः। तैः पश्चिमा व्याख्याताः। तक्ष पूर्वे दिवसस्याष्टभागे रक्षाविधानमायव्ययौ च शृषुयात्।त्वितीये पौरजानपदानां कार्याणि पश्येत्। तृतीये स्नानभोजनं सेवेत, स्वाध्यायं च कुर्वीत। चतुर्थे हिरण्यप्रतिग्रहमध्यक्षांश्च कुर्वीत। पढ्चमे मन्त्रिपर्षदा पत्रसंप्रेणेन मन्त्रयेत, चारगुह्यहोधनीयानि च बुध्येत। षष्ठे स्वैरविहारं मन्त्रं वा सेवेत। सप्तमे हस्त्यश्वरथायुधीयान् पश्येत। अष्टमे सेनापतिसखो व्क्रमं चिन्तयेत्। प्रतिष्ठितेऽहनि सन्ध्यामुपासीत। प्रथमे रात्रिभागे गूढपुरुषालम पश्येत्। द्वीतीये स्नानभोजनं कुर्वीत स्वाध्यायं च। तृतीये तूर्यघोषेण संविष्टः चतुर्थपञ्चमौ शयीत। षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रमितिकर्तव्यतां च चिन्तयेत्। सप्तमे मन्त्रमध्यासीत, गूऋपुरुषांश्ट प्रेषयेत्। अष्टमे ऋत्विगाचार्यपुरोहितसखः स्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत्। सवत्सां धेवुं वृषभं च प्रदक्षिणीकृत्योपस्थानं गच्छेत्। आत्मबलानुकूल्येन वा निशाहर्भागान् प्रतिविभज्य कार्याणि सेवेत। उपस्थानगतः कार्यार्थिनामद्वारासङ्गं कारयेत्। दुर्दर्शो हि राजा कार्याकार्यविर्ययासमासन्नैः कार्यते। तेन प्रकृतिकोपमरिवशं वा गच्छेत्। तस्माद् देवताश्रमपाषाण्डश्रोत्रियपशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्यनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्यगौरवादात्ययिकवशेन वा। सर्वमात्ययिकं कार्यं शृणुयान्नातिपातयेत्। कृच्छ्रसाध्यमतिक्रन्तमसाध्यं वा विजायते।। अग्न्यगारगतः कार्यं पश्येद् वैद्यतपस्विनाम्। पुरोहिताचार्यसखः प्रत्युत्थायाभिवाद्य च। तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत्। मायायोगविदां चैव न स्वयं कोपकारणात्।। राज्ञो हि व्रतमुत्थानं यज्ञ- कार्यानुशासनम्। दक्षिमा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम्।। प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्। नात्मप्रियं हितं राज्ञः प्रजानां तु प्रयं हितम्।। तस्मान्नित्योत्थितो राजा कुर्यादर्थानिशासनम्। अर्थस्य मूलमुत्थामनर्थस्य विपर्ययः।। नुत्थाने ध्रवो नाशः प्राप्तस्यानागतस्य च। प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे, एकोनविंशोऽध्यायः, राजप्रणिधिः। 17. प्रकरण-निशान्तप्रणिधिः। वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्वारमनेककक्ष्यापरिगतमन्तःपुरं कारयेत्। कोशगृहविधानेन वा मध्ये वासगृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये मा वासगृहे, भूमिगृहं वा आसन्नकाष्ठचैत्यदेवतापिधारद्वारमन्कपुरुङ्गासञ्चारम्। प्रासादं वा गीढभित्ति सोपानं, सुषिरस्तभप्रवेशापसारं वा। वासगृहं यन्त्रबद्धतलावपातं कारयेद् आपत्प्रतीकारर्थम्। आपदि वा कारयेत्। एतोऽन्यथा वा विकल्पयेत्। सहाध्यायिभयात्। मानुषेमाग्निना त्रिरपसव्यं परगतमन्तःपुरमग्निरन्यो न दहति, न चात्रान्योऽग्निर्ज्वलति, वैद्युतेन भस्मवा मृत्संयुक्तेन करकवारिणावलिप्तं च। जीवन्तीश्वेतामुष्ककपुष्पवन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन वा गुप्तं सर्पा विषाणि वा न प्रसहन्ते। मार्जारमयूरनकुलपृषतोत्सरगः सर्पान् भक्षयति। शुकः शारिका भृङ्गराजो वा सर्पविषशष्टाया क्रोशति। क्रौञ्चो विषाभ्याशे माद्यति, ग्लायति जीवञ्जीवकः, म्रियते मत्तकोकिलः, चकोरस्याक्षिणी विरज्येते। इत्येवम् अग्निविषसर्पेभ्यः प्रतिकुर्वीत। पृष्ठतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्याधिवेद्यप्रत्याख्यातसंस्था वृक्षोदकस्थानं च। बहिः कन्याकुमारपुरम्। पुरस्तादलङ्कारभूमिः मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च। कक्ष्यान्तरेष्वन्तर्वंशिकसैन्यं तिष्ठेत्। अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां दवीं पश्येत्। नं काञ्चिदभिगच्छेत्। देवीगृहे लीनो हि भ्राता भद्रसेनं जघान. मातुः शय्यान्तर्गतश्च पुत्रः कारुशम्। लाजान् मधुनेति विषेण पर्यस्य देवी काशिराजं, विषदग्धेन नूपुरेण वैरन्त्यं, मेखलामणिना सौनूरं, जालूथमादर्शेन वेण्यां गूढं शस्त्रं कृत्वा देवी विडीरथं जघान। तस्मादेतान्यास्पदानि परिहरेत्। मुण्डजटिलकुहकप्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत्। नचैनाः कुल्याः पश्येयुरन्यत्र गर्भव्याधिसंस्थाभ्यः। रूपाजीवाः स्वानप्रघर्षशुद्धशरीराः परिवर्तितवस्त्रालङ्काराः पश्येयुः। आशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा मातापितृव्यञ्जनाः स्थविरवर्षवराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्युः स्थापयेयुश्च स्वामिहिते।
स्वभूमौ च वसेत् सर्वः परभूमौ न सञ्चरेत। सर्वं चावेक्षितं द्रव्यं निबद्धागमनिर्गमम्। निर्गच्छेदधिगच्छेद् वा मुद्रासङ्क्रान्तभूमिकम्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे, विंशोऽध्यायः, निशान्तप्रणिधिः।। 18. प्रकरण—आत्मरक्षितकम्। शयनादुत्थितः स्त्रीगणैर्धन्विभः परिगृह्येत, द्वितीयस्यां कक्ष्यायां कञ्चुकोष्णीषिभिर्वर्षवराभायगारिकैः, तृतीयस्यां कुब्जवामनकिरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रासपाणिभिः। पितृपैतैमहं महासम्बन्धनुबन्धं शिक्षितमनुरक्तं कृतकर्माणं चनमासन्नं कुर्वीत, नान्यतोदेशीयमकृतार्तमानं स्वदेशीयं वाप्यपकृत्योपगृहीतम्। अन्तर्वंशिकसैन्यं राजानमन्तःपुरं च रक्षेत्। गुप्ते देशे माहानसिकः सर्वमास्वादबाहुल्येन कर्म कारयेत्। तद् राजा तथैव प्रतिभुञ्जीत पूर्वमग्नये वयोभ्यश्च बलिं कृत्वा। अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य, वयसां विपत्तिश्च। अन्नस्योष्मा मयूरग्रीवाभः शैत्यमाशु क्लिष्टस्येव वैवर्ण्यं सोदकत्वमक्लिन्नत्वं च। व्यञ्जनानामाशुशुष्कत्वं च क्वाथः श्यामफेनपटलसीमन्तोर्ध्वराजीदर्शनं च। रसस्य मध्ये नीला राजी, पयसस्ताम्रा, मद्यतोययोः काली, दध्नः स्यामा, मधुनः श्वेता। द्रव्याणामार्द्राणाम् आशंुप्रम्लानत्वमुत्क्वभावः क्वाथनीलश्यावता च। शुष्काणामाशुसातनं वैवर्ण्यं च। कठिनानां मृदुत्वं कृदूनां कठिनित्वं च । तदभ्याशे क्षुद्रसत्त्ववधश्च। आस्तरणप्रावरणानां श्याममण्डलता तन्तुरोमपक्ष्मशातनं च। लोहमणिमयानां पङ्कमलोपदेहता स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्च। इति विषयुक्तलिङ्गानि। विषप्रदस्य तु शुष्कश्याववक्त्रता वाक्सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रक्षणमावेशः कर्मणि स्वभूमौ चानवस्थानमिति। तस्मादस्य जाङ्गलीविदो भिषजश्चासन्नाः स्युः। भिषग् भैषज्यागारादास्वादविशुद्धमौषधं गृहीत्वा पाचकपेषकाभ्यामात्मना च प्रचिस्वाद्य राज्ञे प्रयच्छेत्। पानं पानीयं चौषधेन व्याख्यातम्। कल्पकप्रसाधकाः स्नातशुद्धवस्त्रहस्ताः समुद्रमुपकरणमन्तर्वंशितहस्तादादाय परिचरेयुः। स्नापकसेवाहकास्तरकरजकमालाकारकर्म दास्यः कुर्युः, ताभिरधिष्ठिता वा शिल्पिनः। आत्मचक्षुषि निवेश्य वस्त्रमाल्यं दद्युः, स्नानानुलेपनप्रघर्षचूर्णवासस्नानीयानि च स्ववक्षोबाहुषु च। एतेन परस्मादागतकं च व्याख्यातम्। कुशीलवाः शस्त्राग्निरसवर्जं नर्मयेयुः। आचोद्यानि चैषामन्तस्तिष्ठेयुः, अश्वरथद्विपालङ्काराश्च। मौलपुरुषाधिष्ठितं यानवाहनमारोहेत्, नावं चाप्तनाविकाधिष्ठिताम्। अन्यनौप्रतिबद्धां वातवेगशां च नोपेयात्। उदकान्ते सैन्यमासीत। मत्स्यग्रहविशुद्धमवगाहेत। व्यालग्राहपरिशुद्धमुद्यानं गच्छेत्। लुब्धकैः श्वगणिभिरपास्तस्तेनव्यालपराबाधभयं चललक्षपरिचयार्थं मृगारण्यं गच्छेत्। आप्तशस्भगाहाधिष्ठितः सिद्दतापसं पश्येद्, मन्त्रिपर्षदा सामन्तदूतम्। सन्नद्धोऽश्वं हस्तिनं रथं वारूढः सन्नद्धमलीकं गच्छेत्। निर्याणेऽभियाने च राजमार्गमुभयतः कृतारक्षं दण्डिभिरपास्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत्। न पुरुषसम्बाधमवगाहेत। यात्रासमाजोत्सवप्रहणानि च दशवर्गिकाधिष्ठितानि गच्छेत्ष यथा च योगपुरुषैरन्यान् राजाधितिष्ठिति। तथायमन्यबाधेभ्यो रक्षेदात्मानमात्मवान्।। इति कौटिलीयार्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे, एकविंशोऽध्यायः, आत्मरक्षितकम्। एतावता कौटलीयस्यार्थशास्त्रस्य विनयाधिकारिकं प्रथममधिकरणं समाप्तम्।। |