Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

हितोपदेशः (Mula Hitopadesh)

मङ्गलाचरणम्

 

सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः |

जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ||1||

श्रुतो हितोपदेशोयं पाटवं संस्कृतोक्तिषु |

वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ||2||

विद्या-प्रशंसा

अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् |

गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ||3||

सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुरनुत्तमम् |

अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ||4||

संयोजयति विद्यैव नीचगापि नरं सरित् |

समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ||5||

विद्या ददाति विनयं विनयाद् याति पात्रताम् |

पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ||6||

विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये |

आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ||7||

यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् |

कथा-च्छलेन बालानां नीतिस्तद् इह कथ्यते ||8||

मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिरेव च |

पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ||9||

अथ कथा-मुखम्

अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् | तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिरासीत् | स भूपतिरेकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव्

अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् |

सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अन्ध एव सः ||10||

यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता |

एकैकम् अप्यनर्थाय किम् उ यत्र चतुष्टयम् ||11||

इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास |

कोर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः |

काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ||12||

अजात-मृत-मूर्खाणां वरम् आद्यौ न चान्तिमः |

सकृद् दुःख-कराव् आद्यावन्तिमस्तु पदे पदे ||13||

किं च्

वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं

वरं जातः प्रेतो वरम् अपि च कन्यावजनिता |

वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर्

न वाविद्वान् रूप-द्रविण-गुण-युक्तोपि तनयः ||14||

स जातो येन जातेन याति वंशः समुन्नतिम् |

परिवर्तिनि संसारे मृतः को वा न जायते ||15||

अन्यच्च

गुणि-गण-गणनारम्भे

न पतति कठिनी स-सम्भ्रमाद् यस्य |

तेनाम्बा यदि सुतिनी

वद बन्ध्या कीदृशी भवति ||16||

अपि च्

दाने तपसि शौर्ये च यस्य न प्रथितं मनः |

विद्यायाम् अर्थ-लाभे च मातुरुच्चार एव सः ||17||

अपरं च्

वरम् एको गुणी पुत्रो न च मूर्ख-शतैरपि |

एकश्चन्द्रमस्तमो हन्ति न च तारा-गणैरपि ||18||

पुण्य-तीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् |

तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ||19||

तथा चोक्तं

अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च |

वश्यश्च पुत्रोर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ||20||

को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः |

वरम् एकः कुलालम्बी यत्र विश्रूयते पिता ||21||

ऋण-कर्ता पिता शत्रुर्माता च व्यभिचारिणी |

भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ||22||

यस्य कस्य प्रसूतोपि गुणवान् पूज्यते नरः |

धनुर्वंश-विशुद्धोपि निर्गुणः किं करिष्यति ||23||

हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु |

तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ||24||

तत् कथम् इदानीम् एते मम पुत्रा गुणवन्तः क्रियन्ताम् यतः

आहार-निद्रा-भय-मैथुनानि सामान्यम् एतत् पशुभिर्नराणाम् |

ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ||25||

यतः

धर्मार्थ-काम-मोक्षाणां यस्यैकोपि न विद्यते |

अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ||26||

यच् चोच्यते

आयुः कर्म च वित्तं च विद्या निधनम् एव च |

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ||27||

किं च्

अवश्यं भाविनो भावा भवन्ति महताम् अपि |

नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः ||28||

अन्यच्च

यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा |

इति चिन्ता-विष-घ्नोयम् अगदः किं न पीयते ||29||

एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् | पुरुषकारौत्कार्ष्यम् आह्

यथा ह्य् एकेन चक्रेण न रथस्य गतिर्भवेत् |

तथा पुरुषकारेण विना दैवं न सिद्ध्यति ||30||

तथा च्

पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते |

तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ||31||

न दैवम् अपि संचिन्त्य त्यजेद् उद्योगम् आत्मनः |

अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति ||32||

अन्यच्च

उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्

दैवेन देयम् इति कापुरुषा वदन्ति |

दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या

यत्ने कृते यदि न सिध्यति कोत्र दोषः ||33||

यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति |

एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते ||34||

काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः |

न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ||

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः |

नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ||36||

तथा चोक्तं

माता शत्रुः पिता वैरी येन बालो न पाठितः |

न शोभते सभा-मध्ये हंस-मध्ये बको यथा ||37||

रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः |

विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ||38||

अपरच्च

पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ |

न शोभते सम्भा-मध्ये जार-गर्भ इव स्त्रियाः ||39||

एतच् चिन्तयित्वा राजा पण्डित-सभां कारितवान् | राजोवाच्भो भोः पण्डिताः ! श्रूयतां मम वचनम् | अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः यतः

काचः काञ्चन-संसर्गाद् धत्ते मारकतीर्द्युतीः |

तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम् ||40||

उक्तं च्

हीयते हि मतिस्तात हीनैः सह समागमात् |

समैश्च समताम् एति विशिष्टैश्च विशिष्टताम् ||41||

अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिरिवाब्रवीत्देव महाकुल-सम्भूता एते राजपुत्राः | तत् मया नीतिं ग्राहयितुं शक्यन्ते | यतः

नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् |

न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ||42||

अन्यच्च

अस्मिंस्तु निर्गुणं गोत्रे नापत्यम् उपजायते |

आकरे पद्य-रागानां जन्म काच-मणेः कुतः ||43||

अतोहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि | राजा स-विनयं पुनरुवाच |

कीटोपि सुमनः-सङ्गाद् आरोहति सतां शिरः |

अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ||44||

अन्यच्च

यथोदय-गिरेर्द्रव्यं सन्निकर्षेण दीप्यते |

तथा सत्-सन्निधानेन हीन-वर्णोपि दीप्यते ||45||

गुणा गुणज्ञेषु गुणा भवन्ति

ते निर्गुणं प्राप्य भवन्ति दोषाः |

आस्वाद्य-तोयाः प्रवहन्ति नद्यः

समुद्रम् आसाद्य भवन्त्य् उपेयाः ||46||

तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ||

------------------------

 

मित्र-लाभः

अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितोब्रवीत्भो राज-पुत्राः शृणुत्

काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् |

व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ||1||

तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि | राज-पुत्रैरुक्तमार्य ! कथ्यतां | विष्णु-शर्मोवाच्शृणुत यूयम् | सम्प्रति मित्र-लाभः प्रस्तूयते | यस्यायम् आद्यः श्लोकः

असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः |

साधयन्त्य् आशु कार्याणि काक-कूर्म-मृगाखुवत् ||2||

राजपुत्रा ऊचुःकथम् एतत्

सोब्रवीत्स्ति गोदावरी-तीरे विशालः शाल्मली-तरुः | तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति | अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनी-नायके चन्द्रमसि | लघुपतन-नामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाश-हस्तं व्याघम् अपश्यत् | तम् आलोक्याचिन्तयत्द्य प्रातरेवानिष्ट-दर्शनं जातम् | न जाने किम् अनभिमतं दर्शयिष्यति | इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश्चलति | यतः

शोक-स्थान-सहस्राणि भय-स्थान-शतानि च |

दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ||3||

अन्यच् च्विषयिणाम् इदम् अवश्यं कर्तव्यम् |

उत्थायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् |

आयुषः खण्डम् आदाय रविरस्तं गमिष्यति ||4||

अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् | स च तत्र प्रच्छन्नो भूत्वा स्थितः | अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस्तण्डुल-कणान् अवलोकयामास | ततः कपोत-राजस्तण्डुल-कण-लुब्धान् कपोतान् प्राह्कुतोत्र निर्जने वने तण्डुल-कणानां सम्भवः | तन् निरूप्यतां तावत् | भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिरपि तथा भवितव्यम् |

कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे |

वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ||5||

कपोता ऊचुःकथम् एतत्

कथा 1

सोब्रवीत्हम् एकदा दक्षिणारण्ये चरन्न् अपश्यम् एको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूतेभो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् | ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्भाग्येन एतत् सम्भवति | किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर्न विधेया | यतः

अनिष्टाद् इष्ट-लाभेपि न गतिर्जायते शुभा |

यत्रास्ते विष-संसर्गोमृतं तद् अपि मृत्यवे ||6||

किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव | तथा चोक्तम्

न संशयम् अनारुह्य नरो भद्राणि पश्यति |

संशयं पुनरारुह्य यदि जीवति पश्यति ||7||

तन् निरूपयामि तावत् | प्रकाशं ब्रूते | कुत्र तव कङ्कणम् व्याघ्रो हस्तं प्रसार्य दर्शयति | पान्थोवदत्कथं मारात्मके त्वयि विश्वासः

व्याघ्र उवाच्शृणु रे पान्थ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम् | अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश्च | वंश-हीनश्चाहम् | ततः केनचिद् धार्मिकेणाहम् उपदिष्टः | दान-धर्मादिकं चरतु भवान् इति | तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः उक्तं च्

इज्याध्ययन-दानानि तपः सत्यं धृतिः क्षमा |

अलोभ इति मार्गोयं धर्मस्याष्ट-विधः स्मृतः ||8||

तत्र पूर्वश्चतुर्वर्गो दम्भार्थम् अपि सेव्यते |

उत्तरस्तु चतुर्वर्गो महात्मन्य् एव तिष्ठति ||9||

मम चैतावान् लोभ-विरहः | येन स्व-हस्त-स्थम् अपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः | यतः

गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् |

प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ||10||

मया च धर्म-शास्त्राणि अधीतानि | शृणु

मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा |

दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ||11||

प्राणा यथात्मनोभीष्टा भूतानाम् अपि ते तथा |

आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ||12||

अपरं च्

प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये |

आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ||13||

अन्यच्च

मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् |

आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः ||14||

त्वं च अतीव-दुर्गतः | तेन तत् तुभ्यं दातुं स-यत्नोहम् | तथा चोक्तम्

दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् |

व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ||15||

अन्यत् च्

दातव्यम् इति यद् दानं दीयतेनुपकारिणि |

देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ||16||

तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणम् इदं गृहाण | ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन्महा-पङ्के निमग्नः पलायितुम् अक्षमः | तं पङ्के

पतितं दृष्ट्वा व्याघ्रोवदत्हह महा-पङ्के पतितोसि | अतस्त्वाम् अहम् उत्थापयामि | इत्य् उक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोचिन्तयत्

न धर्म-शास्त्रं पठतीति कारणं

न चापि वेदाध्ययनं दुरात्मनः |

स्वभाव एवात्र तथातिरिच्यते

यथा प्रकृत्या मधुरं गवां पयः ||17||

किं च्

अवशेन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया |

दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ||18||

तन्मया भद्रं न कृतम् | यद् अत्र मारात्मके विश्वासः कृतः | तथा चोक्तम्

नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा |

विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ||19||

अपरं च्

सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः |

अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ||20||

अन्यच्च

स हि गगन-विहारी कल्मष-ध्वंस-कारी

दश-शत-कर-धारी ज्योतिषां मध्य-चारी |

विधुरपि विधि-योगाद् ग्रस्यते राहुणासौ

लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः ||21||

इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च | अतोहं ब्रवीमिकङ्कणस्य तु लोभेनेत्य् आदि | अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति | यतः

सुजीर्णम् अन्नं सुविचक्षणः सुतः

सुशासिता स्त्री नृपतिः सुसेवितः |

सुचिन्त्य चोक्तं सुविचार्य यत् कृतं

सुदीर्घ-कालेपि न याति विक्रियाम् ||22||

एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आहाः ! किम् एवम् उच्यते

वृद्धस्य वचनं ग्राह्यम् आपत्-काले ह्युपस्थिते |

सर्वत्रैवं विचारे च भोजनेपि प्रवर्तताम् ||23||

यतः

शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले |

प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ||24||

यथा चोक्तम्

ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्य-शङ्कितः |

पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ||25||

एतच् छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यस्अर्वे कपोतास्तत्रोपविष्टाः | यतः

सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहु-श्रुताः |

छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः ||26||

अन्यच्च

लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते |

लोभान् मोहश्च नाशश्च लोभः पापस्य कारणम् ||27||

अन्यच्च

असंभवं हेम-मृगस्य जन्म

तथापि रामो लुलुभे मृगाय |

प्रायः समापन्न-विपत्ति-काले

धियोपि पुंसां मलिना भवन्ति ||28||

अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म | यतः,

न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् |

यदि कार्य-विपत्तिः स्यान् मुखरस्तत्र हन्यते ||29||

तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच्नायम् अस्य दोषः, यतः

आपदाम् आपतन्तीनां हितोप्यायाति हेतुताम् |

मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने ||30||

अन्यच्च

स बन्धुर्यो विपन्नानाम् आपद्-उद्धरण-क्षमः |

न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः ||31||

विपत्-काले विस्मय एव कापुरुष-लक्षणम् | तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः

विपदि धैर्यम् अथाभ्युदये क्षमा

सदसि वाक्य-पटुता युधि विक्रमः |

यशसि चाभिरुचिर्व्यसनं श्रुतौ

प्रकृति-सिद्धम् इदं हि महात्मनाम् ||32||

सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् |

तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ||33||

अन्यच्च

षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता |

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ||34||

इदानीम् अपि एवं क्रियताम्सर्वैरेकचित्तीभूय जालम् आदाय उड्डीयताम् | यतः

अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका |

तृणैर्गुणत्वम् आपन्नैर्बध्यन्ते मत्त-दन्तिनः ||35||

संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि |

तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ||36||

इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः | अनन्तरं च व्याधः सुदूराज् जालापहारकांस्तान् अवलोक्य पश्चाद् धावितोचिन्तयत्

संहतास्तु हरन्त्य् एते मम जालं विहङ्गमाः |

यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा ||37||

ततस्तेषु चक्षुर्विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः | अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुःस्वामिन् ! किम् इदानीं कर्तुम् उचितम्

चित्रग्रीव उवाच्

माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् | कार्य-कारणतश्चान्ये भवन्ति हित-बुद्धयः ||38||

तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति | सोस्माकं पाशांश्छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः | हिरण्यकश्च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति | ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः | चित्रग्रीव उवाच्सखे हिरण्यक ! कथम् अस्मान् न सम्भाषसे

ततो हिरण्यकस्तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर्निःसृत्य अब्रवीत् ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः |

यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः |

यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ||39||

अथ पाश-बद्धांश्चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच्सखे ! किम् एतत्

चित्रग्रीव उवाच्सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत् |

यस्माच् च येन च यथा च यदा च यच् च

यावच् च यत्र च शुभाशुभम् आत्म-कर्म |

तस्माच् च तेन च तथा च तदा च तच् च

तावच् च तत्र च विधातृ-वशाद् उपैति ||40||

राग-शोक-परीताप-बन्धन-व्यसनानि च | आत्मापराध-वृक्षाणां फलान्य् एतानि देहिनाम् ||41||

एतच् छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति | तत्र चित्रग्रीव उवाच्मित्र ! मा मैवं कुरु | प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश्छिन्धि | मम पाशं पश्चाच् छेत्स्यसि |

हिरण्यकोप्याहहम् अल्प-शक्तिः | दन्ताश्च मे कोमलाः | तद् एतेषां पाशांश्छेत्तुं कथं समर्थो भवामि तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि | तद्-अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि |

चित्रग्रीव उवाचस्त्व् एवम् | तथापि यथा-शक्ति बन्धनम् एतेषां खण्डय |

हिरण्यकेनोक्तमात्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् | यतः

आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि |

आत्मानं सततं रक्षेद् दारैरपि धनैरपि ||42||

अन्यच् च--

धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः |

तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ||43||

चित्रग्रीव उवाच्सखे ! नीतिस्तावद् ईदृश्य् एव, किन्त्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि | यतः

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् |

सन्निमित्ते वरं त्यागो विनाशे नियते सति ||44||

अयम् अपरश्चासाधारणो हेतुः |

जाति-द्रव्य-बलानां च साम्यम् एषां मया सह |

मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ||45||

अन्यच्च

विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् |

तन् मे प्राण-व्ययेनापि जीवयैतान्ममाश्रितान् ||46||

किं च्

मांस-मूत्र-पुरीषास्थि-पूरितेत्र कलेवरे |

विनश्वरे विहायास्थां यशः पालय मित्र मे ||47||

अपरं च पश्य्

यदि नित्यम् अनित्येन निर्मलं मल-वाहिना |

यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ||48||

यतः

शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् |

शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः ||49||

इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्साधु मित्र ! साधु | अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते | एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि | ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह्सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या | यतः

योधिकाद् योजन-शतान् पश्यतीहामिषं खगः |

स एव प्राप्त-कालस्तु पाश-बन्धं न पश्यति ||50||

अपरं च्

शशि-दिवाकरयोर्ग्रह-पीडनं

गज-भुजङ्गमयोरपि बन्धनम् |

मतिमतां च विलोक्य दरिद्रतां

विधिरहो बलवान् इति मे मतिः ||51||

अन्यच्च

व्योमैकान्त-विहारिणोपि विहगाः सम्प्राप्नुवन्त्य् आपदं

बध्यन्ते निपुणैरगाध-सलिलान्मत्स्याः समुद्राद् अपि |

दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः

कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ||52||

इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यकोपि स्व-विवरं प्रविष्टः |

यानि कानि च मित्राणि कर्तव्यानि शतानि च |

पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः ||53||

अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यम् इदम् आहहो हिरण्यक ! श्लाघ्योसि, अतोहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि | अतस्त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि | एतच् छ्रुत्वा हिरण्यकोपि विवराभ्यन्तराद् आह्कस्त्वम्

स ब्रूतेलघुपतनक-नामा वायसोहम् | हिरण्यको विहस्याह्का त्वया सह मैत्री यतः

यद् येन युज्यते लोके बुधस्तत् तेन योजयेत् |

अहम् अन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ||54||

अपरं च्

भक्ष्य-भक्षयोः प्रीतिर्विपत्तेः कारणं मतम् |

शृगालात् पाशबद्धोसौ मृगः काकेन रक्षितः ||55||

वायसोब्रवीत्--कथम् एतत्

हिरण्यकः कथयति

कथा 2

अस्ति मगध-देशे चम्पकवती नाम अरण्यानी | तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः | स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः | तं दृष्ट्वा शृगालोचिन्तयत् ! कथम् एतन्-मांसं सुललितं भक्षयामि भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते

मृगेणोक्तम्कस्त्वम्

स ब्रूतेक्षुद्र-बुद्धि-नामा जम्बुकोहम् | अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि | इदानीं त्वां मित्रम् आसाद्य पुनः स-बन्धुर्जीव-लोकं प्रविष्टोस्मि | अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति |

मृगेणोक्तमेवम् अस्तु |

ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ | तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति | तौ दृष्ट्वा काकोवदत्सखे चित्राङ्ग ! कोयं द्वितीयः

मृगो ब्रूतेमित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता | तन् न भद्रम् आचरितम् | तथा चोक्तम्

अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् |

मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ||56||

तौ आहतुः--कथम् एतत्

काकः कथयति

कथा 3

अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति | अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति | अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः | ततस्तम् आयान्तं दृष्ट्वा पक्षि-शावकैर्भयार्तैः कोलाहलः कृतः | तच् छ्रुत्वा जरद्गवेन उक्तम्कोयम् आयाति दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह्हा हतोस्मि यतोयं मां व्यापादयिष्यति | अथवा

तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् |

आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ||57||

अधुनातिसन्निधाने पलायितुम् अक्षमः | तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्ार्य ! त्वाम् अभिवन्दे |

गृध्रोवदत्कस्त्वम्

सोऽवदत्मार्जारोहम् |

गृध्रो ब्रूतेदूरम् अपसर नो चेत् हन्तव्योसि मया |

मार्जारोवदत्श्रूयतां तावत् मद्-वचनम् | ततो यद्य् अहं वध्यस्तदा हन्तव्यः | यतः 

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् |

व्यवहारं परिज्ञाय वध्यः पूज्योथवा भवेत् ||58||

गृध्रो ब्रूतेब्रूहि किम् अर्थम् आगतोसि

सोऽवदत्हम् अत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतम् आचरंस्तिष्ठामि | युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुम् इहागतः | भवन्तश्चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हन्तुम् उद्यताः गृहस्थ-धर्मश्च एषः 

अरावप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते |

छेत्तुम् अप्यागते छायां नोपसंहरते द्रुमः ||59||

किं च्यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव |

तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता |

एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ||60||

अन्यच्च

बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः |

तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ||61||

अपरं च्

निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः |

न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डाल-वेश्मनः ||62||

अन्यच्च

अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते |

स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ||63||

अन्यच्च

उत्तमस्यापि वर्णस्य नीचोपि गृहम् आगतः |

पूजनीयो यथा-योग्यं सर्व-देव-मयोतिथिः ||64||

गृध्रोवदत्मार्जारो हि मांस-रुचिः | पक्षि-शावकाश्चात्र निवसन्ति | तेनाहम् एव ब्रवीमि | तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च्मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् | यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् | यतः

सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश्च ये |

सर्वस्याश्रय-भूताश्च ते नराः स्वर्ग-गामिनः ||65||

अन्यच्च

एक एव सुहृद् धर्मो निधनेप्यनुयाति यः |

शरीरेण समं नाशं सर्वम् अन्यद् हि गच्छति ||66||

किं च्

योत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् |

एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ||67||

अपि च्

मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते |

शक्यस्तेनानुमानेन परोपि परिरक्षितुम् ||68||

शृणु पुनः

स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते |

अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ||69||

एवं विश्वास्य स मार्जारस्तरु-कोटरे स्थितः | ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति | अथ येषाम् अपत्यानि खादितानि | तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा | तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः | पश्चात् पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः | अतोहं ब्रवीमिज्ञात-कुल-शीलस्य इत्य् आदि |

----------------------------

इत्य् आकर्ण्य स जम्बुकः स-कोपम् आह्मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् | तत् कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते अथवा

यत्र विद्वज्-जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि |

निरस्त-पादपे देशे एरण्डोपि द्रुमायते ||70||

अन्यच्च

अयं निजः परो वेति गणना लघु-चेतसाम् |

उदार-चरितानां तु वसुधैव कुटुम्बकम् ||71||

यथा चायं मृगो मम बन्धुस्तथा भवान् अपि | मृगोब्रवीत् कमनेन उत्तरोत्तरेण सर्वैरेकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् | यतः

न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः |

व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ||72||

काकेन उक्तमेवम् अस्तु | अथ प्रातः सर्वे यथाभिमत-देशं गताः | एकदा निभृतं शृगालो ब्रूतेसखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति | तद् अहं त्वां तत्र नीत्वा दर्शयामि | तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति | ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास्तत्र योजिताः | अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोचिन्तयत्को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः

अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोचिन्तयत्फलितस्तावद् अस्माकं कपट-प्रबन्धः | मनोरथ-सिद्धिरपि बाहुल्यान् मे भविष्यति | यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि | तानि च बाहुल्येन मम भोजनानि भविष्यन्ति | स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूतेसखे ! छिन्धि तावन्मम बन्धनम् | सत्वरं त्रायस्व माम् | यतः

आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् |

भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ||73||

अपरं च्

उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे |

राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ||74||

जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत्दृढस्तावद् अयं बन्धः | ब्रूते च्सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दन्तैः स्पृशामि मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति | अनन्तरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस्ततोन्विष्यन् तथाविधं तं दृष्ट्वा उवाच्सखे ! किम् एतत् मृगेणोक्तम्वधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्

सुहृदां हित-कामानां यः शृणोति न भाषितम् |

विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ||75||

काको ब्रूतेस वञ्चकः क्वास्ते

मृगेणोक्तंमन्-मांसार्थी तिष्ठत्य् अत्रैव |

काको ब्रूतेमित्र ! उक्तम् एव मया पूर्वम् |

अपराधो न मेस्तीति नैतद् विश्वास-कारणम् |

विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ||76||

दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् |

न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ||77||

परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् |

वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम् ||78||

ततः काको दीर्घं निःश्वस्य उवाचरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् | यतः

संलापितानां मधुरैर्वचोभिर्

मिथ्योपचारैश्च वशीकृतानाम् |

आशावतां श्रद्दधतां च लोके

किम् अर्थिनां वञ्चयितव्यम् अस्ति ||79||

अन्यच्च

उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् |

तं जनम् असत्य-सन्धं भगवति वसुधे कथं वहसि ||80||

दुर्जनेन समं सख्यं वैरं चापि न कारयेत् |

उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ||81||

अथवा स्थितिरियं दुर्जनानाम्

प्राक् पादयोः पतति खादति पृष्ठ-मांसं

कर्णे फलं किम् अपि रौति शनैर्विचित्रम् |

छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः

सर्वं खलस्य चरितं मशकः करोति ||82||

तथा च्

दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् |

मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ||83||

अथ प्रभाते स क्षेत्र-पतिर्लगुड-हस्तस्तं प्रदेशम् आगच्छन् काकेनावलोकितः | तम् अवलोक्य काकेनोक्तम्सखे मृग ! त्वम् आत्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ | अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उत्थाय सत्वरं पलायिष्यसे |

मृगस्तथैव काक-वचनेन स्थितः | ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः | अथासौ ! स्वयं मृतोसि इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव | ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः | तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः | तथा चोक्तम्

त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः |

अत्युत्कटैः पाप-पुण्यैरिहैव फलम् अश्नुते ||84||

अतोहं ब्रवीमिभक्ष्य-भक्ष्यकयोः प्रीतिरित्य् आदि |

इति मृग-वायस-शृगाल-कथा

काकः पुनराह्

भक्षितेनापि भवता नाहारो मम पुष्कलः |

त्वयि जीवति जीवामि चित्रग्रीव इवानघ ||85||

अन्यच्च

तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् |

सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ||86||

किं च्

साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् |

न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ||87||

हिरण्यको ब्रूतेचपलस्त्वम् | चपलेन सह स्नेहः सर्वथा न कर्तव्यः | तथा चोक्तम्

मार्जारो महिषो मेषः काकः कापुरुषस्तथा |

विश्वासात् प्रभवन्त्य् एते विश्वासस्तत्र नो हितः ||88||

किं चान्यत्शत्रु-पक्षो भवान् अस्माकम् | शत्रुणा सन्धिर्न विधेयम् | उक्तं चैतत्

शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना |

सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ||89||

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोपि सन् |

मणिना भूषितः सर्पः किम् असौ न भयङ्करः ||90||

यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् |

नोदके शकटं याति न च नौर्गच्छति स्थले ||91||

अपरं च्

महताप्यर्थ-सारेण यो विश्वसिति शत्रुषु |

भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम् ||92||

लघु-पतनको ब्रूतेश्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः | यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति | अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति | तथा हि

मृद्-घटवत् सुख-भेद्यो दुःसन्धानश्च दुर्जनो भवति |

सुजनस्तु कनक-घटवद् दुर्भेद्यश्चाशु सन्धेयः ||93||

किं च्

द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् |

भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम् ||94||

किं च्

नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः |

अन्ये बदरिकाकारा बहिरेव मनोहराः ||95||

अन्यच्च

स्नेह-च्छेदेपि साधूनां गुणा नायान्ति विक्रियाम् |

भङ्गेपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ||96||

अन्यच्च

शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः |

दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्-गुणाः ||97||

एतैर्गुणैरुपेतो भवद्न्यो मया कः सुहृत् प्राप्तव्यः इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याहाप्यायितोहं भवताम् एतेन वचनामृतेन | तथा चोक्तम्

घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली

न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अप्यर्पितम् |

प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः

सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्रोपमम् ||98||

अन्यच्च

रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया |

क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ||99||

अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते | यतः

पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते |

अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ||100||

अपरं च्

अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः |

प्रवर्ततेन्यथा वाणी शाठ्योपहत-चेतसः ||101||

मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् |

मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ||102||

तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः | वायसोपि स्व-स्थानं गतः ततः-प्रभृति तयोः अन्योन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश्च कियत्-कालोतिवर्तने | एकदा

लघु-पतनको हिरण्यकम् आह्सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् | तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि |

हिरण्यको ब्रूते

स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः |

इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ||103||

काको ब्रूतेमित्र ! कापुरुषस्य वचनम् एतत् | यतः

स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः |

तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ||104||

अन्यच्च

को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः

यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् |

यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते

तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिन्नत्त्य् आत्मनः ||105||

हिरण्यको ब्रूतेमित्र क्व गन्तव्यम् तथा चोक्तम्

चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् |

नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ||106||

वायसो ब्रूतेमित्र ! अस्ति सुनिरूपितं स्थानम् |

हिरण्यकोवदत्किं तत्

वायसः कथयतिस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः | तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति | पश्य मित्र !

परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् |

धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ||107||

स च भोजन-विशेषैर्मां संवर्धयिष्यति | हिरण्यकोप्याह्तत् किम् अत्रावस्थाय मया कर्तव्यम् यतः

यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः |

न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ||108||

अपरं च---

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः |

पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ||109||

अपरं च---

लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता |

पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ||110||

अन्यच्च

तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् |

ऋण-दाता च वैद्यश्च श्रोत्रियः सजला नदी ||111||

अतो माम् अपि तत्र नय |

वायसोऽवदत् एवम् अस्तु |

अथ वायसस्तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ | ततो मन्थरो दूराद् एव लघु-पतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्यतिथि-सत्कारं चकार | यतः

बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः |

तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ||112||

तथा

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः |

पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ||113||

अपरं च्

उत्तमस्यापि वर्णस्य नीचोपि गृहम् आगतः |

पूजनीयो यथा-योग्यं सर्व-देव-मयोतिथिः ||114||

वायसोऽवदत्सखे ! मन्थर ! स-विशेष-पूजाम् असमि विधेहि, यतोयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः | एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् | ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह्भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि

हिरण्यकोवदत्कथयामि, श्रूयताम् |

कथा 4

अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः | तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति | स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तकेवस्थाप्य स्वपिति | अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि | अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन चूडाकर्णो भूमिम् अताडयत् | तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच्सखे ! किम् इति मम कथा-विरक्तोन्यासक्तो भवान् यतः

मुखं प्रसन्नं विमला च दृष्टिः

कथानुरागो मधुरा च वाणी |

स्नेहोधिकः सम्भ्रम-दर्शनं च

सदानुरक्तस्य जनस्य लक्ष्म ||115||

अदृष्टि-दानं कृत-पूर्व-नाशनम्

आननं दुश्चरितानुकीर्तनम् |

कथा-प्रसङ्गेन च नाम-विस्मृतिर्

विरक्त-भावस्य जनस्य लक्षणम् ||116||

चूडाकर्णेनोक्तम्भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति | वीणाकर्णो नागदन्तम् अवलोक्याह्कथम् अयं मूषिकः स्वल्प-बलोप्य् एतावद् दूरम् उत्पतति तद् अत्र केनापि कारणेन भवितव्यम् |

क्षणं विचिन्त्य परिव्राजकेनोक्तम्कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति | यतः

धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा |

प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते ||117||

ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् | ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् चूडाकर्णेनावलोकितः | ततस्तेनोक्तम्

धनेन बलवान् लोको धनाद् भवति पण्डितः |

पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ||118||

किं च्

अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः |

क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ||119||

अपरं च्

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः |

यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ||120||

अपरं च्

अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च |

मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता ||121||

अपरं च्

दारिद्र्यान्मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् |

अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ||122||

अन्यच्च

तानीन्द्रियाण्य् अविकलानि तद् एव नाम

सा बुद्धिरप्रतिहता वचनं तद् एव |

अर्थोष्मणा विरहितः पुरुषः स एव

अन्यः क्षणेन भवतीति विचित्रम् एतत् ||123||

एतत् सर्वम् आकर्ण्य मयालोचितंममान्नावस्थानम् अयुक्तम् इदानीम् | तथा चोक्तम्

अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे |

मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ||124||

अन्यच्च

मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति |

अपि निर्वाणम् आयाति नानलो याति शीतताम् ||125||

किं च्

कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः |

सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेथवा ||126||

यच् चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्यनुचितम् | यतः

अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च |

वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ||127||

यच् चात्रैव याच्ञया जीवनं तद् अप्यतीव-गर्हितम् | यतः

वरं विभव-हीनेन प्राणैः सन्तर्पितोनलः |

नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ||128||

अन्यच्च

दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते

निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते |

निर्विण्णः शुचम् एति शोक-फिहितो बुद्ध्या परित्यज्यते

निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ||129||

किं च्

वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं

वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् |

वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर्

वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ||130||

वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो

वरं वेश्या पत्नी न पुनरविनीता कुल-वधूः |

वरं वासोरण्ये न पुनरविवेकाधिप-पुरे

वरं प्राण-त्यागो न पुनरधमानाम् उपगमः ||131||

अपि च्

सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् |

हरि-हर-कथेव दुरितं गुण-शतम् अप्यर्थिता हरति ||132||

तत् किम् अहं पर-पिण्डेन आत्मानं पोषयामि कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् | अन्यच्च

रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी |

यज् जीवति तन्मरणं यन्मरणं सोस्य विश्रामः ||133||

इत्य् आलोच्यापि लोभात् पुनरपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् | तथा चोक्तम्

लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् |

तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ||134||

ततोहं मन्दं मन्दम् उपसर्पंस्तेन वीणाकर्णेन जर्जर-वंश-खण्डेन ताडितश्चाचिन्तयम्लुब्धो ह्य् असन्तुष्टो नियतम् आत्म-द्रोही भवति | तथा च्

धन-लुब्धो ह्य् असन्तुष्टोनियतात्माजितेन्द्रियः |

सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ||135||

सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् |

उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः ||136||

अपरं च्

सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् |

कुतस्तद्-धन-लुब्धानाम् इतश्चेतश्च धावताम् ||137||

किं च्

तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् |

येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ||138||

अपि च्

असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम् |

अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम् ||139||

न योजन-शतं दूरं वाह्यमानस्य तृष्णया |

सन्तुष्टस्य कर-प्राप्तेप्यर्थे भवति नादरः ||140||

तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् |

को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति |

कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः ||141||

तथा च्

परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः |

अपरिच्छेद-कर्त्णां विपदः स्युः पदे पदे ||142||

तथा हि

त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् |

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||143||

अपरं च्

पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् |

विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ||144||

इत्य् आलोच्याहं निर्जन-वनम् आगतः | यतः

वरं वनं व्याघ्र-गजेन्द्र-सेवितं

द्रुमालयः पत्र-फलाम्बु-भक्षितम् |

तृणानि शय्या वसनं च वल्कलं

न बन्धु-मध्ये धन-हीन-जीवनम् ||145||

अतः

संसार-विषय-वृक्षस्य द्वे एव रसवत् फले |

काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह ||146||

अपरं च्

सत्-सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् |

असारे खलु संसारे त्रीणि साराणि भावयेत् ||147||

मन्थर उवाच्

अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम्

आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् |

धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं

पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ||148||

युष्माभिरतिसञ्चयः कृतः | तस्यायं दोषः | शृणु

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् |

तडागोदर-संस्थानां परीवाहैवाम्भसाम् ||149||

अन्यच्च

यद् अधोधः क्षितौ वित्तं निचखान मितम्पचः |

तद्-अधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः ||150||

यतः

निज-सौख्यं निरुन्धानो यो धनार्जनम् इच्छति |

परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ||151||

तथा चोक्तं

दानोपभोग-हीनेन धनेन धनिनो यदि |

भवामः किं न तेनैव धनेन धनिनो वयम् ||152||

यतः

धनेन किं यो न ददाति नाश्नुते

बलेन किं यश्च रिपून् न याधत्ते |

श्रुतेन किं यो न च धर्मम् आचरेत्

किम् आत्मना यो न जितेन्द्रियो भवेत् ||153||

अन्यच्च

असम्भोगेन सामान्यं कृपणस्य धनं परैः |

अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ||154||

अपि च्

न देवाय न विप्राय न बन्धुभ्यो न चात्मने |

कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः ||155||

तथा चोक्तम्

दानं प्रिय-वाक्-सहितं

ज्ञानम् अगर्वं क्षमान्वितं सौर्यम् |

त्यागं सहितं च वित्तं

दुर्लभम् एतच् चतुर्भद्रम् ||156||

उक्तं च्

कर्तव्यः सञ्चयो नित्यं न तु कार्योतिसञ्चयः |

अतिसञ्चय-शीलोयं धनुषा जम्बुको हतः ||157||

ताव् आहतुःकथम् एतत्

मन्थरः कथयति

कथा 5

आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः | स चैकदा मांस-लुब्धो धनुरादाय मृगम् अन्विष्यन् विन्ध्याटवी-मध्यं गतः | तत्र तेन मृग एको व्यापादितः | ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः | ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः | शूकरेणाप्यागत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात | तथा चोक्तम्

जलम् अग्निर्विषं शस्तं क्षुद् व्याधिः पतनं गिरेः |

निमित्तं किञ्चिद् आसाद्य देही प्राणैर्विमुच्यते ||158||

अथ तयोः पादास्फालनेन एकः सर्पोपि मृतः | अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् | आलोक्याचिन्तयच् चहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् |

अथवा

अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् |

सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ||159||

मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ |

अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ||160||

ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् | ततश्छिन्ने स्नायु-बन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः | अतोहं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि | तथा च्

यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् |

अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ||161||

किं च्

यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने |

तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ||162||

यातु, किम् इदानीम् अतिक्रान्तोपवर्णनेन | यतः

नाप्रायम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् |

आपत्स्व् अपि न मुह्यन्ति नराः पण्डित-बुद्धयः ||163||

तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः

शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा

यस्तु क्रियावान् पुरुषः स विद्वान् |

सुचिन्तितं चौषधम् आतुराणां

न नाम-मात्रेण करोत्य् अरोगम् ||164||

अन्यच्च

न स्वल्पम् अप्यध्यवसाय-भीरोः

करोति विज्ञान-विधिर्गुणं हि |

अन्धस्य किं हस्त-तल-स्थितोपि

प्रकाशयत्य् अर्थम् इह प्रदीपः ||165||

तद् अत्र सखे दशातिशेषेण शान्तिः करणीया | एतद् अप्यतिकष्टं त्वया न मन्तव्यम् |

सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा |

चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ||166||

अपरं च्

निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः |

सोद्योगं नरम् आयान्ति विवशाः सर्व-सम्पदः ||167||

अपि च्

उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् |

शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ||168||

विशेषतश्च्

विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नति-पदं

समायुक्तोप्यर्थैः परिभव-पदं याति कृपणः |

स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां

द्युतिं सैंहीं श्वा किं धृत-कनक-मालोपि लभते ||169||

किं च्

धनवान् इति हि मदस्ते किं गत-विभवो विषादम् उपयासि |

कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम् ||170||

अन्यच्च

वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता |

गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ||171||

अपि च सखे शृणु

येन शुक्ली-कृता हंसाः शुकाश्च हरितीकृताः |

मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ||172||

अपरं च सतां रहस्यं शृणु, मित्र !

जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु |

मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः ||173||

अपरं च्

धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता |

प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ||174||

यतः

यथाआमिषम् आकाशे पक्षिभिः श्वापदैर्भुवि |

भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ||175||

अन्यच्च

राजतः सलिलाद् अग्नेश्चोरतः स्वजनाद् अपि |

भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव ||176||

तथा हि

जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम् |

इच्छा-सम्पद् यतो नास्ति यच् चेच्छा न निवर्तते ||177||

अन्यच् च भ्रातः शृणु

धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते |

लब्ध-नाशो यथा मृत्युस्तस्माद् एतन् न चिन्तयेत् ||178||

सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः |

तस्याश्चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ||179||

अपरं च्

यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते |

प्राप्त एवार्थतः सोर्थो यतो वाञ्छा निवर्तते ||180||

किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् | यतः

आम्रणान्ताः प्रणयाः कोपाश्च क्षण-भङ्गुराः |

परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ||181||

इति श्रुत्वा लघुपतनको ब्रूतेधन्योसि मन्थर ! सर्वथा आश्रयणीयोसि | यतः

सन्त एव सतां नित्यम् आपद्-उद्धरण-क्षमाः |

गजानां पङ्क-मग्नानां गजा एव धुरन्धराः ||182||

अपरं च्

श्लाघ्यः स एको भुवि मानवानां

स उत्तमः सत्-पुरुषः स धन्यः |

यस्यार्थिनो वा शरणागता वा

नाशाविभङ्गा विमुखाः प्रयान्ति ||183||

तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म | अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः | तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः | मूषिकश्च विवरं गतः, काकोपि उड्डीय वृक्षाग्रम् आरूढः | ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर्न कोप्यवलम्बितः | पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः | मन्थरेणोक्तंभद्र मृग ! कुशलं ते स्वेच्छया उदकाद्याहारोनुभूयताम् | अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् |

चित्राङ्गो ब्रूतेलुब्धक-त्रासितोहं भवतां शरणम् आगतः | ततश्च, भवद्भिः सह मित्रत्वम् इच्छामि | भवन्तश्च अनुकम्पयन्तु मैत्र्येण | यतः

लोभाद् वाथ भयाद् वापि यस्त्यजेच् छरणागतम् |

ब्रह्म-हत्या-समं तस्य पापम् आहुर्मनीषिणः ||184||

हिरण्यकोप्यवदत्मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः | यतः

औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् |

रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्-विधम् ||185||

तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् | तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः |

अथ मन्थरो ब्रूतेसखे मृग ! केन त्रासितोसि अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति

मृगेणोक्तम्स्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः | स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते | तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् |

तच् छ्रुत्वा कूर्मः स-भयम् आह्मित्र ! जलाशयान्तरं गच्छामि |

काक-मृगावपि उक्तवन्तौमित्र ! एवम् अस्तु !

हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् | स्थले गच्छतोस्य का विधा

अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् |

स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ||186||

उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः |

काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ||187||

तद् यथा

कथा 6

अस्ति ब्रह्मारण्ये कर्प्ूरतिलको नाम हस्ती | तम् अवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म | यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् | ततस्तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता | मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् | अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टाङ्ग-पातं प्रणम्योवाच्देव ! दृष्टि-प्रसादं कुरु |

हस्ती ब्रूतेकस्त्वम् कुतः समायातः

सोऽवदत्जम्बुकोहं सर्वैर्वन-वासिभिः पशुभिर्मिलित्वा भवत्-सकाशं प्रस्थापितः | यद् विना राज्ञा स्थातुं न युक्तम् | तद् अत्राटवी-राज्येभिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः | यतः

कुलाचार-जनाचारैरतिशुद्धः प्रतापवान् |

धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि ||188||

अपरं च पश्य्

राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् |

राजन्य् असति लोकेस्मिन् कुतो भार्या कुतो धनम् ||189||

अन्यच्च

पर्जन्य इव भूतानाम् आधारः पृथिवी-पतिः |

विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ ||190||

किं च्

नियत-विषय-वर्ती प्रायशो दण्ड-योगाज्

जगति पर-वशेस्मिन् दुर्लभः साधु-वृत्तेः |

कृशम् अपि विकलं वा व्याधितं वाधनं वा

पतिम् अपि कुल-नारी दण्ड-भीत्याभ्युपैति ||191||

तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन | इत्य् उक्त्वा उत्थाय चलितः | ततोसौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन्महा-पङ्के निमग्नः | हस्तिनोक्तम्सखे शृगाल ! किम् अधुना विधेयम् महा-पङ्के पतितोहं म्रिये | परावृत्य पश्य !

शृगालेन विहस्योक्तम्देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ | यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् | तद् अनुभूयताम् अशरणं दुःखम् | तथा चोक्तम्

यदासत्-सङ्ग-रहितो भविष्यसि भविष्यसि |

यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि ||192||

ततो महा-पङ्के निमग्नो हस्ती शृगालैर्भक्षितः | अतोहं ब्रवीमिुपायेन हि यच् छक्यम् इत्य् आदि |

-----------------------------------------

ततस्तद्-धित-वचनम् अवधीर्य महता भयेन विमुग्ध इव मन्थरस्स् तज्-जलाशयम् उत्सृज्य प्रचलितः | तेपि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास्तम् अनुजग्मुः | ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः | स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योस्मीत्य् अभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः | अथ ते मृग-वायस-मूषिकाः परं विषादम् उपगताः तम् अनुगच्छन्ति स्म | ततो हिरण्यको विलपति

एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य |

तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति ||193||

स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते |

तद्-अकृत्रिम-सौहार्दम् आपत्स्व् अपि न मुञ्चति ||194||

अपि च्

न मातरि न दारेषु न सोदर्ये न चात्मजे |

विश्वासस्तादृशः पुंसां यादृङ् मित्रे स्वभावजे ||195||

इति मुहुः विचिन्त्य प्राहहो मे दुर्दैवम् | यतः

स्व-कर्म-सन्तान-विचेष्टितानि

कालान्तरावर्ति-शुभाशुभानि |

इहैव दृष्टानि मयैव तानि

जन्मान्तराणीव दशान्तराणि ||196||

अथवा इत्थम् एवैतत् |

कायः संनिहितापायः सम्पदः पदम् आपदाम् |

समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ||197||

पुनर्विमृश्याह्

शोकाराति-भय-त्राणं प्रीति-विश्रम्भ-भाजनम् |

केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ||198||

किं च्

मित्रं प्रीति-रसायनं नयनयोरानन्दनं चेतसः

पात्रं यत् सुख-दुःखयोः समम् इदं पुण्यात्मना लभ्यते |

ये चान्ये सुहृदः समृद्धि-समये द्रव्याभिलाषाकुलास्

ते सर्वत्र मिलन्ति तत्त्व-निकष-ग्रावा तु तेषां विपत् ||199||

इति बहु विलप्य हिरण्यकश्चित्राङ्ग-लघुपतनकाव् आह्यावद् अयं व्याधो वनान् न निःसरति, तावन्मन्थरं मोचयितुं यत्नः क्रियताम् |

ताव् ऊचतुःसत्वरं यथा-कार्यम् उपदिश |

हिरण्यको ब्रूतेचित्राङ्गो जल-समीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु | काकश्च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु | नूनम् अनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् | ततोहं मन्थरस्य बन्धनं छेत्स्यामि | सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् |

ततश्चित्राङ्ग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् | ततः कच्छपं जल-समीपे निधाय कर्तरिकाम् आदाय प्रहृष्ट-मना मृगान्तिकं चलितः | अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् | छिन्न-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः | स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः | प्रत्यावृत्त्य लुब्धको यावत् तरु-तलम् आयाति तावत् कूर्मम् अपश्यन्न् अचिन्तयत्ुचितम् एवैतत् ममासमीक्ष्य-कारिणः | यतः

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते |

ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव हि ||200||

ततोसौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः | मन्थरादयश्च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखम् आस्थिताः |

अथ राज-पुत्रैः सानन्दम् उक्तम्सर्वे श्रुतवन्तः सुखिनो वयम् | सिद्धं नः समीहितम् |

विष्णु-शर्मोवाचेतद् भवताम् अभिलषितम् अपि सम्पन्नम् | अपरम् अपीदम् अस्तु

मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां

भूपालाः परिपालयन्तु वसुधां शश्वत् स्व-धर्मे स्थिताः |

आस्तां मानस-तुष्टये सुकृतिनां नीतिर्नवोढेव वः

कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्ध-चूडामणिः ||201||

--ओ)0(ओ--

ई.

सुहृद्-भेदः

अथ राज-पुत्रा ऊचुःार्य ! मित्रलाभः श्रुतस्तावद् अस्माभिः | इदानीं सुहृद्-भेदं श्रोतुम् इच्छामः |

विष्णुशर्मोवाच्सुहृद्-भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः

वर्धमानो महान् स्नेहो मृगेन्द्र-वृषयोर्वने |

पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ||1||

राज-पुत्रैरुक्तम्कथम् एतत्

विष्णुशर्मा कथयतिस्ति दक्षिणा-पथे सुवर्णवती नाम नगरी | तत्र वर्धमानो नाम वणिग् निवसति | तस्य प्रचुरेपि वित्ते परान् बन्धून् अतिसमृद्धान् समीक्ष्य पुनरर्थ-वृद्धिः करणीयेति मतिर्बभूव | यतः,

अधोधः पश्यतः कस्य महिमा नोपचीयते |

उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ||2||

अपरं च्

ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् |

शशिनस्तुल्य-वंशोपि निर्धनः परिभूयते ||3||

अन्यच्च

अव्यवसायिनम् अलसं दैव-परं सहसाच् च परिहीणम् |

प्रमदेव हि वृद्ध-पतिं नेच्छत्य् अवगूहितुं लक्ष्मीः ||4||

किं च्

आलस्यं स्त्री-सेवा स-रोगता जन्म-भूमि-वात्सल्यम् |

सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ||5||

यतः

सम्पदा सुस्थिरं-मन्यो भवति स्वल्पयापि यः |

कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ||6||

अपरं च्

निरुत्साहं निरानन्दं निर्वीर्यम् अरि-नन्दनम् |

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ||7||

तथा चोक्तम्

अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः |

रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ||8||

यतोलब्धम् इच्छतोर्थ-योगाद् अर्थस्य प्राप्तिरेव | लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः | अपि च, अवर्धमानश्चार्थः काले स्वल्प-व्ययोप्यञ्जनवत् क्षयम् एति | नौपभुज्यमानश्च निष्प्रयोजन एव सः | तथा चोक्तम्

धनेन किं यो न ददाति नाश्नुते

बलेन किं यश्च रिपून् न बाधते |

श्रुतेन किं यो न च धर्मम् आचरेत्

किम् आत्मना यो न जितेन्द्रियो भवेत् ||9||

यतः,

जल-बिन्दु-निपातेन क्रमशः पूर्यते घटः |

स हेतुः सर्व-विद्यानां धर्मस्य च धनस्य च ||10||

दानोपभोग-रहिता दिवसा यस्य यान्ति वै |

स कर्म-कार-भस्त्रेव श्वसन्न् अपि न जीवति ||11||

इति संचिन्त्य नन्दक-सजीवक-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध-द्रव्य-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति | अन्यच्च

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् |

अवन्ध्यं दिवसं कुर्याद् दानाध्ययन-कर्मभिः ||12||

यतः

कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् |

को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ||13||

अथ गच्छतस्तस्य सुदुर्ग-नाम्नि महारण्ये सञ्जीवको भग्न-जानुर्निपतितः | तम् आलोक्य वर्धमानोचिन्तयत्

करोतु नाम नीति-ज्ञो व्यवसायम् इतस्ततः |

फलं पुनस्तद् एव स्याद् यद् विधेर्मनसि स्थितम् ||14||

किन्तु

विस्मयः सर्वथा हेयः प्रत्यूहः सर्व-कर्मणाम् |

तस्माद् विस्मयम् उत्सृज्य साध्ये सिद्धिर्विधीयताम् ||15||

इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अन्यं वृषभम् एकं समानीय धुरि नियोज्य चलितः | ततः संजीवकोपि कथं कथम् अपि खुर-त्रये भरं कृत्वोत्थितः | यतः

निमग्नस्य पयो-राशौ पर्वतात् पतितस्य च |

तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ||16||

नाकाले मिर्यते जन्तुर्विद्धः शर-शतैरपि |

कुशाग्रेणैव संस्पृष्टः प्राप्त-कालो न जीवति ||17||

अरक्षितं तिष्ठति दैव-रक्षितं

सुरक्षितं दैव-हतं विनश्यति |

जीवत्य् अनाथोपि वने विसर्जितः

कृत-प्रयत्नोपि गृहे न जीवति ||18||

ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहार-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट-पुष्टाङ्गो बलवन् ननाद | तस्मिन् वने पिङ्गलक-नामा सिंहः स्व-भुजोपार्जित-राज्य-सुखम् अनुभवन् निवसति | तथा चोक्तम्

नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः |

विक्रमार्जित-राज्यस्य स्वयम् एव मृगेन्द्रता ||19||

स चैकदा पिपासाकुलितः पानीयं पातुं यमुना-कच्छम् अगच्छत् | तेन च तत्र सिंहेनाननुभूत-पूर्वकम् अकाल-घन-गर्जितम् इव संजीवक-नर्दितम् अश्रावि | तच् छ्रुत्वा पानीयम् अपीत्वा स-चकितः परिवृत्य स्व-स्थानम् आगत्य किम् इदम् इत्य् आलोचयंस्तूष्णीं स्थितः | स च तथाविधः करट-कदमनकाभ्याम् अस्य मन्त्रि-पुत्राभ्यां दृष्टः | तं तथाविधं दृष्ट्वा दमनकः करटकम् आह्सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मन्दं मन्दम् अवतिष्ठते |

करटको ब्रूतेमित्र दमनक ! अस्मन्-मतेनास्य सेवैव न क्रियते | यदि तथा भवति तर्हि किम् अनेन स्वामि-चेष्टानिरूपेणास्माकम् | यतोनेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्-दुःखम् अनुभूतम् |

सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् |

स्वातन्त्र्यं यच् छरीरस्य मूढैस्तद् अपि हारितम् ||20||

अपरं च्

शीत-वातातप-क्लेशान् सहन्ते यान् पराश्रिताः |

तद्-अंशेनापि मेधावी तपस्तप्त्वा मुखी भवेत् ||21||

अन्यच्च

एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु |

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ||22||

अपरं च्

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर |

इति वित्रस्त-सारङ्ग-नेत्रया को न वञ्चितः ||23||

किं च्

अबुधैरर्थ-लाभाय पण्य-स्त्रीभिरिव स्वयम् |

आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः ||24||

किं च्

या प्रकृत्यैव चपला निपतत्य् अशुचावपि |

स्वामिनो बहु मन्यन्ते दृष्टिं ताम् अपि सेवकाः ||25||

अपरं च्

मौनान् मूर्खः प्रवचन-पटुर्बातुलो जल्पको वा

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः |

धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः

सेवा-धर्मः परम-गहनो योगिनाम् अप्यगम्यः ||26||

विशेषतश्च्

प्रणमत्य् उन्नति-हेतोर्जीवित-हेतोर्विमुञ्चति प्राणान् |

दुःखीयति सुख-हेतोः को मूढः सेवकाद् अन्यः ||27||

दमनको ब्रूतेमित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः

कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः |

अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ||28||

अन्यच्च

कुतः सेवा-विहीनानां चामरोद्धूत-सम्पदः |

उद्दण्ड-धवल-च्छत्रं वाजि-वारण-वाहिनी ||29||

करटको ब्रूतेतथापि किम् अनेनास्माकं व्यापारेण | यतोव्यापारेषु व्यापारः सर्वथा परिहरणीयः | पश्य्

अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति |

स एव निधनं याति कीलोत्पटीव वानरः ||30||

दमनकः पृच्छति--कथम् एतत्

करकटः कथयति

कथा 1

अस्ति मगध-देशे धर्मारण्य-संनिहित-वसुधायां शुभदत्त-नाम्ना कायस्थेन विहारः कर्तुम् आरब्धः | तत्र करपत्रदार्य-माणैक-स्तम्भस्य कियद् दूरस्फाटितस्य काष्ठ-खण्ड-द्वय-मध्ये कीलकः सूत्र-धारेण निहितः | तत्र बलवान् वानर-यूथः क्रीडन्न् आगतः | एको वानरः काल-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् | अनन्तरं स च सहज-चपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् | आकृष्टे च कीलके चूर्णिताण्ड-द्वयः पञ्चत्वं गतः | अतोहं ब्रवीमिव्यापरेषु व्यापारम् इत्य् आदि |

दमनको ब्रूतेतथापि स्वामि-चेष्टा-निरूपणं सेवकेनावश्यं करणीयम् |

करटको ब्रूतेसर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधान-मन्त्री स करोतु | यतोनुजीविना पराधिकार-चर्चा सर्वथा न कर्तव्या | पश्य्

पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया |

स विषीदति चीत्काराद् गर्दभस्ताडितो यथा ||31||

दमनकः पृच्छति--कथम् एतत्

करटको ब्रूते

कथा 2

अस्ति वाराणस्यां कर्पूर-पटको नाम रजकः | स रात्रौ गाढ-निद्रायां प्रसुप्तः | तद्-अनन्तरं तद्-गृह-द्रव्याणि हर्तुं चौरः प्रविष्टः | तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति | कुक्कुरश्चोपविष्टोस्ति | अथ गर्दभः श्वानम् आह्सखे ! भवतस्तावद् अयं व्यापारः | तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि |

कुक्कुरो ब्रूतेभद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या | त्वम् एव किं न जानासि यथा तस्याहर्निशं गृह-रक्षां करोमि | यतोयं चिरान् निर्वृतो ममोपयोगं न जानाति | तेनाधुनापि ममाहार-दाने मन्दादरः | यतो विना विधुर-दर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति |

गर्दभो ब्रूतेशृणु रे बर्बर !

याचते कार्य-काले यः स किं-भृत्यः स किं-सुहृत् |

कुक्कुरो ब्रूते

भृत्यान् सम्भाषयेद् यस्तु कार्य-काले स किं-प्रभुः ||32||

यतः

आश्रितानां भृतौ स्वामि-सेवायां धर्म-सेवने |

पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ||33||

ततो गर्दभः स-कोपम् आहरे दुष्ट-मते ! पापीयांस्त्वं यद् विपत्तौ स्वामि-कार्ये उपेक्षां करोषि | भवतु तावत् | यथा स्वामी जागरिष्यति, तन्मया कर्तव्यम् | यतः

पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् |

स्वामिनं सर्व-भावेन परलोकम् अमायया ||34||

इत्य् उक्त्वातीव चीत्कार-शब्दं कृतवान् | ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्रा-भङ्ग-कोपाद् उत्थाय गर्दभं लगुडेन तादयामास | तेनासौ पञ्चत्वम् अगमत् | अतोहं ब्रवीमिपराधिकार-चर्चाम् इत्य् आदि | पश्य, पशूनाम् अन्वेषणम् एवास्मन्-नियोगः | स्व-नियोग-चर्चा क्रियताम् | किन्त्व् अद्य तया चर्चया न प्रयोजनम् | यत आवयोर्भक्षित-शेषाहारः प्रचुरोस्ति |

दमनकः सरोषम् आह्कथम् आहारार्थी भवान् केवलं राजानं सेवते एतद् अयुक्तम् उक्तं त्वया | यतः

सुहृदाम् उपकार-कारणाद्

द्विषताम् अप्यपकार-कारणात् |

नृप-संश्रय इष्यते बुधैर्

जठरं को न बिभर्ति केवलम् ||35||

जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः |

सफलं जीवितं तस्य आत्मार्थे को न जीवति ||36||

अपि च्

यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु |

काकोपि किं न कुरुते चञ्च्वा स्वोदर-पूरणम् ||37||

पश्य्

पञ्चभिर्याति दासत्वं पुराणैः कोपि मानवः |

कोपि लक्षैः कृती कोपि लक्षैरपि न लभ्यते ||38||

अन्यच्च

मनुष्य-जातौ तुल्यायां भृत्यत्वम् अति-गर्हितम् |

प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते ||39||

तथा चोक्तं

वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् |

नारी-पुरुष-तोयानाम् अन्तरं हद-हन्तरम् ||40||

तथा हि स्वल्पम् अप्यतिरिच्यते

स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्यस्थिकं

श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शान्तये |

सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं

सर्वः कृच्छ्र-गतोपि वाञ्छति जनः सत्त्वानुरूपं फलम् ||41||

अपरं च, सेव्य-सेवकयोरन्तरं पश्य्

लाङ्गूल-चालनम् अधश्चरणावपातं

भूमौ निपत्य वदनोदर-दर्शनं च |

श्वा पिण्डदस्य कुरुते गज-पुङ्गवस्तु

धीरं विलोकयति चाटु-शतैश्च भुङ्क्ते ||42||

किं च्

यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर्

विज्ञान-विक्रम-यशोभिरभज्यमानम् |

तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः

काकोपि जीवति चिराय बलिं च भुङ्क्ते ||43||

अपरं च्

यो नात्मजे न च गुरौ न च भृत्य-वर्गे

दीने दयां न कुरुते न च बन्धु-वर्गे |

किं तस्य जीवित-फलेन मनुष्य-लोके

काकोपि जीवति चिराय बलिं च भुङ्क्ते ||44||

अपरम् अपि

अहित-हित-विचार-शून्य-बुद्धेः

श्रुति-समयैर्बहुभिर्बहिष्कृतस्य |

उदर-भरण-मात्र-केवलेच्छोः

पुरुष-पशोश्च पशोश्च को विशेषः ||45||

करटको ब्रूतेावां तावद् अप्रधानौ | तदाप्यावयोः किम् अनया विचारणया |

दमनको ब्रूतेकियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभन्ते, यतः

न कस्यचित् कश्चिद् इह स्वभावाद्

भवत्य् उदारोभिमतः खलो वा |

लोके गुरुत्वं विपरीततां वा

स्व-चेष्टितान्य् एव नरं नयन्ति ||46||

किं च्

आरोप्यते शिला शैले यत्नेन महता यथा |

निपात्यते क्षणेनाधस्तथात्मा गुण-दोषयोः ||47||

यात्य् अधोधः व्रजत्य् उच्चैर्नरः स्वैरेव कर्मभिः |

कूपस्य खनिता यद्वत् प्राकारस्येव कारकः ||48||

तद् भद्रम् | स्वयत्नायत्तो ह्य् आत्मा सर्वस्य |

करटको ब्रूतेथ भवान् किं ब्रवीति

स आहयं तावत् स्वामी पिङ्गलकः कुतोपि कारणात् स-चकितः परिवृत्योपविष्टः |

करटको ब्रूते

उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः |

अनुक्तम् अप्य् ऊहति पण्डितो जनः परेङ्गित-ज्ञान-फला हि बुद्धयः ||49||

आकार-रिङ्गतैर्गत्या चेष्टया भाषणेन च |

नेत्र-वक्त्र-विकारेण लक्ष्यतेन्तर्गतं मनः ||50||

अत्र भय-प्रस्तावे प्रज्ञा-बलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि | यतः

प्रस्ताव-सदृशं वाक्यं सद्-भाव-सदृशं प्रियम् |

आत्म-शक्ति-समं कोपं यो जानाति स पण्डितः ||51||

करटको ब्रूतेसखे त्वं सेवानभिज्ञः | पश्य्

अनाहूतो विशेद् यस्तु अपृष्टो बहु भाषते |

आत्मानं मन्यते प्रीतं भू-पालस्य स दुर्मतिः ||52||

दमनको ब्रूतेभद्र ! कथम् अहं सेवानभिज्ञः पश्य्

किम् अप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् |

यद् एव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ||53||

यतः

यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् |

अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत् ||54||

अन्यच्च

कोत्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च |

आज्ञाम् अवितथां कुर्याद् यथा-शक्ति महीपतेः ||55||

अपरं च्

अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा |

आदिष्टो न विकल्पेत स राज-वसतिं वसेत् ||56||

करटको ब्रूतेकदाचित् त्वाम् अनवसर-प्रवेशाद् अवगम्यते स्वामी |

स चाहस्त्व् एवम् | तथाप्यनुजीविना स्वामि-सांनिध्यम् अवश्यं करणीयम् | यतः

दोष-भीतेरनारम्भस्तत् कापुरुष-लक्षणम् |

कैरजीर्ण-भयाद् भ्रातर्भोजनं परिहीयते ||57||

पश्य्

आसन्नम् एव नृपतिर्भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्तुतं वा |

प्रायेण भूमि-पतयः प्रमदा-लताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ||58||

करटको ब्रूतेथ तत्र गत्वा किं वक्ष्यति भवान् |

स आह्शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि |

करटको ब्रूतेकिं तज् ज्ञान-लक्षणम् |

दमनको ब्रूतेशृणु

दूराद् अवेक्षणं हासः सम्प्रश्नेष्व् आदरो भृशम् |

परोक्षेपि गुण-श्लाघा स्मरणं प्रिय-वस्तुषु ||59||

असेवके चानुरक्तिर्दानं स-प्रिय-भाषणम् |

अनुरक्तस्य चिह्नानि दोषेपि गुण-सङ्ग्रहः ||60||

अन्यच् च--

काल-यापनम् आशानां वर्धनं फल-खण्डनम् |

विरक्तेश्वर-चिह्नानि जानीयान्मतिमान् नरः ||61||

एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति | तथा वदिष्यामि |

अपायसं दर्शनजां विपत्तिम्

उपाय-सन्दर्शन-जां च सिद्धिम् |

मेधाविनो नीति-विधि-प्रयुक्तां

पुरः स्फुरन्तीम् इव दर्शयन्ति ||62||

करटको ब्रूतेतथाप्यप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः

अप्राप्त-कालं वचनं बृहस्पतिरपि ब्रुवन् |

लभते बुद्ध्य्-अवज्ञानम् अवमानं च भारत ||63||

दमनको ब्रूतेमित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि | यतः

आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च |

अपृष्टोपि हितान्वेषी ब्रूयात् कल्याण-भाषितम् ||64||

यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वम् एव ममानुपपन्नम् | यतः

कल्पयति येन वृत्तिं येन च लोके प्रशस्यते |

स गुणस्तेन गुणिना रक्ष्यः संवर्धनीयश्च ||65||

तद् भद्र ! अनुजानीहि माम् | गच्छामि |

करटको ब्रूतेशुभम् अस्तु | शिवास्ते पन्थानः | यथाभिलषितम् अनुष्ठीयताम् इति |

ततो दमनको विस्मित इव पिङ्गलक-समीपं गतः | अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टाङ्ग-प्रणिपातं प्रणिपत्योपविष्टः | राजाह्चिराद् दृष्टोसि |

दमनको ब्रूतेयद्यपि मया सेवकेन श्रीमद्-देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्त-कालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतोस्मि | किं च्

दन्तस्य निर्घर्षणकेन राजन्

कर्णस्य कण्डूयनकेन वापि |

तृणेन कार्यं भवतीश्वराणां

किम् अङ्ग-वाक्-पाणि-मता नरेण ||66||

यद्यपि चिरेणावधीरितस्य देव-पादैर्मे बुद्धि-नाशः शक्यते, तद् अपि न शङ्कनीयम् | यतः

कदर्थितस्यापि च धैर्य-वृत्तेर्

बुद्धेर्विनाशो नहि शङ्कनीयः |

अधः-कृतस्यापि तनूनपातो

नाधः शिखा याति कदाचिद् एव ||67||

देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् | यतः

मणिर्लुठति पादेषु काचः शिरसि धार्यते |

यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ||68||

अन्यच्च

निर्विशेषो यदा राजा समं सर्वेषु वर्तते |

तदोद्यम-समर्थानाम् उत्साहः परिहीयते ||69||

किं च्

त्रिविधाः पुरुषा राजन्न् उत्तमाधम-मध्यमाः |

नियोजयेत् तथैवैतांस्त्रिविधेष्व् एव कर्मसु ||70||

यतः

स्थान एव निज्योज्यन्ते भृत्याश्चाभरणानि च |

नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ||71||

अपि च्

कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते |

न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ||72||

अन्यच्च

मुकुटे रोपिता काचश्चरणाभरणे मणिः |

नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता ||73||

पश्य्

बुद्धिमान् अनुरक्तोयम् अयं शूर इतो भयम् |

इति भृत्य-विचारज्ञो भृत्यैरापूर्यते नृपः ||74||

तथा हि

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च |

पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश्च योग्याश्च ||75||

अन्यच्च

किं भक्तेनासमर्थेन किं शक्तेनापकारिणा |

भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ||76||

यतः

अवज्ञानाद् राज्ञो भवति मति-हीनः परिजनस्

ततस्तत्-प्रामाण्याद् भवति न समीपे बुध-जनः |

बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती

विपन्नायां नीतौ सकलम् अवशं सीदति जगत् ||77||

अपरं च्

जनं जनपदा नित्यम् अर्चयन्ति नृपार्चितम् |

नृपेणावमतो यस्तु स सर्वैरवमन्यते ||78||

किं च्

बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः |

रवेरविषये किं न प्रदीपस्य प्रकाशनम् ||79||

पिङ्गलकोवदत्भद्र दमनक ! किम् एतत् त्वम् अस्मदीय-प्रधानामात्य-पुत्र इयन्तं कालं यावत् कुतोपि खल-वाक्यान् नागतोसि | इदानीं यथाभिमतं ब्रूहि |

दमनको ब्रूतेदेव ! पृच्छामि किंचित् | उच्यताम् | उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति |

पिङ्गलकोवदत्भद्रम् उक्तं त्वया | किन्त्व् एतद् रहस्यं वक्तुं काचिद् विश्वास-भूमिर्नास्ति | तथापि निभृतं कृत्वा कथयामि | शृणु, सम्प्रति वनम् इदम् अपूर्व-सत्त्वाधिष्ठितम् अतोस्माकं त्याज्यम् | अनेन हेतुना विस्मितोस्मि | तथा च श्रुतो मयापि महान् अपूर्व-शब्दः | शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् |

दमनको ब्रूतेदेव ! अस्ति तावद् अयं महान् भय-हेतुः | स शब्दोस्याभिरप्याकर्णितः | किन्तु स किं मन्त्री यः प्रथमं भूमि-त्यागं पश्चाद् युद्धं चोपविशति अस्मिन् कार्य-सन्देहे भृत्यानाम् उपयोग एव ज्ञातव्यः | यतः

बन्धु-स्त्री-भृत्य-वर्गस्य बुद्धेः सत्त्वस्य चात्मनः |

आपन्-निकष-पाषाणे नरो जानाति सारताम् ||80||

सिंहो ब्रूतेभद्र ! महती शङ्का मां बाधते |

दमनकः पुनराह स्वगतम्न्यथा राज्य-सुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे प्रकाशं ब्रूतेदेव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् | किन्तु करटकादयोप्याश्वास्यन्तां यस्माद् आपत्-प्रतीकार-काले दुर्लभह् पुरुष-समवायः |

ततस्तौ दमनक-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय-प्रतीकारं प्रतिज्ञाय चलितौ | करटको गच्छन् दमनकम् आह्सखे ! किं शक्त्य-प्रतीकारो भय-हेतुरशक्य-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महा-प्रसादो गृहीतः यतोनुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः | पश्य्

यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे |

मृत्युश्च वसति क्रोधे सर्व-तेजोमयो हि सः ||81||

तथा हि

बालोपि नावमन्तव्यो मनुष्य इति भूमिपः |

महती देवता ह्य् एषा नर-रूपेण तिष्ठति ||82||

दमनको विहस्याह्मित्र ! तूष्णीम् आस्यताम् | ज्ञातं मया भय-कारणम् | बलीवर्द-नर्दितं तत् | वृषभाश्चास्माकम् अपि भक्ष्याः | किं पुनः सिंहस्य |

करटको ब्रूतेयद्य् एवं तदा किम् पुनः स्वामि-त्रासस्तत्रैव किम् इति नापनीतः |

दमनको ब्रूतेयदि स्वामि-त्रासस्तत्रैव मुच्यते तदा कथम् अयं महा-प्रसाद-लाभः स्यात् | अपरं च्

निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन |

निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत् ||83||

करटकः पृच्छति--कथम् एतत्

दमनकः कथयति

कथा 3

अस्त्य् उत्तर-पथेर्बुदशिखर-नाम्नि पर्वते दुर्दान्तो नाम महा-विक्रमः सिंहः | तस्य पर्वत-कन्दरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति | ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकम् अलभमानोचिन्तयत्

क्षुद्र-शत्रुर्भवेद् यस्तु विक्रमान् नैव लभ्यते |

तम् आहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ||84||

इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व-कन्दरे स्थापितः | अनन्तरं तद्-भयान् मूषिकोपि विलान् न निःसरति | तेनासौ सिंहोक्षत-केशरः सुखं स्वपिति | मूषिक-शब्दं यदा यदा शृणोति, तदा तदा मांसाहार-दानेन तं बिडालं संवर्धयति |

आज्ञा-भङ्गो नरेन्द्राणां ब्राह्मणानाम् अनादरः |

पृथक् शय्या च नारीणाम् अशस्त्र-विहितो वधः ||85||

ततो देश-व्यवहारानभिज्ञः संजीवकः सभयम् उपसृत्य साष्टाङ्ग-पातं करटकं प्रणतवान् | तथा चोक्तम्

मतिरेव बलाद् गरीयसी यद्-अभावे करिणाम् इयं दशा |

इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ||86||

अथ संजीवकः साशङ्कम् आह्सेनापते ! किं मया कर्तव्यम् | तद् अभिधीयताम् |

करटको ब्रूतेवृषभ ! अत्र कानने तिष्ठसि | अस्मद्-देव-पादारविन्दं प्रणय |

संजीवको ब्रूतेतद्-अभय-वाचं मे यच्छ | गच्छामि |

करटको ब्रूतेशृणु रे बलीवर्द ! अलम् अनया शङ्कया | यतः

प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभुजे |

अनुहुङ्कुरुते घन-ध्वनिं न हि गोमायु-रुतानि केसरी ||87||

अन्यच्च

तृणानि नोन्मूलयति प्रभञ्जनो

मृदूनि नीचैः प्रणलानि सर्वतः |

समुच्छ्रितान् एव तरून् प्रबाधते

महान्महत्य् एव करोति विक्रमम् ||88||

ततस्तौ संजीवकं कियद् दूरे संस्थाप्य पिङ्गलक-समीपं गतौ | ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ | राजाह्त्वया स दृष्टः

दमनको ब्रूतेदेव ! दृष्टः | किन्तु यद् देवेन ज्ञातं तत् तथा | महान् एवासौ देवं द्रष्टुम् इच्छति | किन्तु महाबलोसौ ततः सज्जीभूयोपविश्य दृश्यताम् | शब्द-मात्राद् एव न भेतव्यम् | तथा चोक्तम्

शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम् |

शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता ||89||

राजाह्कथम् एतत्

दमनकः कथयति---

कथा 4

अस्ति श्री-पर्वत-मध्ये ब्रह्मपुराख्यं नगरम् | तच्-छिखर-प्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जन-प्रवादः श्रूयते | एकदा घण्टाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः | तत्-पाणि-पतिता घण्टा वानरैः प्राप्ता | वानरास्तां घण्टाम् अनुक्षणं वादयन्ति | ततो नगर-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टा-रवश्च श्रूयते | अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः | ततः करालया नाम कुट्टन्या विमृश्यानवरोयं घण्टा-नादः | तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितःदेव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घण्टाकर्णं साधयामि |

ततो राजा तस्यै धनं दत्तम् | कुट्टन्या मण्डलं कृत्वा तत्र गणेशादि-पूजा-गौरवं दर्शयित्वा स्वयं वानर-प्रिय-फलान्य् आदाय वनं प्रविश्य फलान्य् आकीर्णानि | ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः | कुट्टनी च घण्टां गृहीत्वा नगरम् आगता सर्व-जन-पूज्याभवत् | अतोहं ब्रवीमिशब्द-मात्रान् न भेतव्यम् इत्य् आदि | ततः संजीवकम् आनीय दर्शनं कारितवन्तौ | पश्चात् तत्रैव परम-प्रीत्या निवसति |

--ओ)0(ओ--

अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध-कर्ण-नामा सिंहः समागतः | तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिङ्गलकस्तद्-आहाराय पशुं हन्तुं चलितः | अत्रान्तरे संजीवको वदतिदेव ! अद्य हत-मृगाणां मांसानि क्व

राजाह्दमनक-करटकौ जानीतः |

संजीवको ब्रूतेज्ञायतां किम् अस्ति नास्ति वा

सिंहो विमृश्याह्नास्त्य् एव तत् |

संजीवको ब्रूतेकथम् एतावन् मांसं ताभ्यां खादितम्

राजाह्खादितं व्ययितम् अवधीरितं च | प्रत्यहम् एष क्रमः |

संजीवको ब्रूतेकथं श्रीमद्-देव-पादानां अगोचरेणैव क्रियते

राजाह्मदीयागोचरेणैव क्रियते |

अथ संजीवको ब्रूतेनैतद् उचितम् | तथा चोक्तम्

नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम् |

कार्यम् आपत्-प्रतीकाराद् अन्यत्र जगती-पते ||90||

अन्यच्च

कमण्डलूपमोमात्यस्तनु-त्यागी बहु-ग्रहः |

नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ||91||

स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् |

कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ||92||

किं चार्थैर्न कुलाचारैः सेवताम् एति पूरुषः |

धन-हीनः स्व-पत्न्यापि त्यज्यते किं पुनः परैः ||93||

एतच् च राज्ञः प्रधानं दूषणम्

अतिव्ययोनपेक्षा च तथार्जनम् अधर्मतः |

मोषणं दूर-संस्थानां कोष-व्यसनम् उच्यते ||94||

यतः

क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्व-वाञ्छया |

परिक्षीयत एवासौ धनी वैश्रवणोपमः ||95||

स्तब्धकर्णो ब्रूतेशृणु भ्रातः चिराश्रिताद् एतौ दमनक-करटकौ सन्धि-विग्रह-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ | अपरं च नियोग-प्रस्तावे यन्मया श्रुतं तत् कथ्यते |

ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते |

ब्राह्मणः सिद्धम् अप्यर्थं कृच्छ्रेणापि न यच्छति ||96||

नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् |

सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञाति-भावतः ||97||

अपराधेपि निःशङ्को नियोगी चिर-सेवकः |

स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः ||98||

उपकर्ताधिकार-स्थः स्वापराधं न मन्यते |

उपकारं ध्वजी-कृत्य सर्वम् एव विलुम्पति ||99||

उपंशु-क्रीडितोमात्यः स्वयं राजायते यतः |

अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ||100||

अन्तर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल |

शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ||101||

सदामत्यो न साध्यः स्यात् समृद्धः सर्व एव हि |

सिद्धानाम् अयम् आदेशः ऋद्धिश्चित्त-विकारिणी ||102||

प्राप्तार्थ-ग्रहणं द्रव्य-परीवर्तोनुरोधनम् |

उपेक्षा बुद्धि-हीनत्वं भोगोमात्यस्य दूषणम् ||103||

नियोग्य् अर्थ-ग्रहोपायो राज्ञा नित्य-परीक्षणम् |

प्रतिपत्ति-प्रदानं च तथा कर्म-विपर्ययः ||104||

निपीडिता वमन्त्य् उच्चैरन्तः-सारं महीपतेः |

दुष्ट-व्रणा इव प्रायो भवन्ति हि नियोगिनः ||105||

मुहुर्नियोगिनी बाध्या वसुधारा महीपते |

सकृत् किं पीडितं स्नान-वस्त्रं मुञ्चेद् धृतं पयः ||106||

एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् |

सिंहो ब्रूतेस्ति तावद् एवम् | किन्त्व् एतौ सर्वथा न मम वचन-कारिणौ |

स्तब्धकर्णो ब्रूते एतत् सर्वम् अनुचितं सर्वथा | यतः

आज्ञा-भङ्ग-करान् राजा न क्षमेत सुतान् अपि |

विशेषः को नु राज्ञश्च राज्ञश्चित्र-गतस्य च ||107||

स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री

नष्टेन्द्रियस्य कुलम् अर्थ-परस्य धर्मः |

विद्या-फलं व्यसनिनः कृपणस्य सौख्यं

राज्यं प्रमत्त-सचिवस्य नराधिपस्य ||108||

अपरं च्

तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप-वल्लभात् |

नृपतिर्निज-लोभाच् च प्रजा रक्षेत् पितेव हि ||109||

भ्रातः ! सर्वथास्मद्-वचनं क्रियताम् | व्यवहारोप्यस्माभिः कृत एव | अयं संजीवकः सस्य-भक्षकोर्थाधिकारे नियुज्यताम् |

एतद्-वचनात् तथानुष्ठिते सति तद् आरभ्य पिङ्गलक-संजीवकयोः सर्व-बन्धु-परित्यागेन महता स्नेहेन कालोतिवर्तते | ततोनुजीविनाम् अप्याहार-दाने शैथिल्य-दर्शनाद् दमनक-करटकावन्योन्यं चिन्तयतः | तद् आह दमनकः करटकम्मित्र ! किं कर्तव्यम् आत्म-कृतोयं दोषः | स्वयं कृतेपि दोषे परिदेवनम् अप्यनुचितम् | तथा चोक्तम्

स्वर्ण-रेखाम् अहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका |

आदित्सुश्च मणिं साधुः स्व-दोषाद् दुःखिता इमे ||110||

करटको ब्रूते--कथम् एतत्

दमनकः कथयति

कथा 5

अस्ति काञ्चनपुर-नाम्नि नगरे वीरविक्रमो राजा | तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य-भूमिं नीयमानः कन्दर्पकेतु-नाम्ना परिव्राजकेन साधु-द्वितीयकेन नायं हन्तव्यः इत्य् उक्त्वा वस्त्राञ्चलेन धृतः | राज-पुरुषा ऊचुःकिम् इति नायं वध्यः |

स आह्श्रूयताम् | स्वर्ण-रेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति |

त आहुः--कथम् एतत्

परिव्राजकः कथयतिहं सिंहल-द्वीपस्य भूपतेर्जीमूतकेतः पुत्रः दन्दर्पकेतुर्नाम | मध्ये चतुर्दश्याम् आविर्भूत-कल्पतरु-तले रत्नावली-किरण-कबूतर-पर्यङ्क-स्थिता सर्वालङ्कार-भूषिता लक्ष्मीरिव वीनां वादयन्ती कन्या काचिद् दृश्यते इति | ततोहं पोत-व्णिजम् आदाय पोतम् आरुह्य तत्र गतः | अनन्तरं तत्र गत्वा पर्यङ्केधमग्रा तथैव सावलोकिता | ततस्तल्-लावण्य-गुणाकृष्टेन मयापि तत्-पश्चाज् झम्पो दत्तः | तद्-अनन्तरं कनकपत्तनं प्राप्य सुवर्ण-प्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता | तथाप्यहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः | तत्-सख्या च मया पृष्टया समाख्यातमेषा कन्दर्पकेलि-नाम्नो विद्याधर-चक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते | यः कनकवर्तनं स्व-चक्षुषागत्य पश्यति, स एव पितुरगोचरोपि मां परिणेष्यतीति मनसः सङ्कल्पः | तद् एनां गान्धर्व-विवाहेन परिणयतु भवान् |

अथ तत्र वृत्ते गन्धर्व-विवाहे तथा सह रममाणस्तत्राहं तिष्ठामि | तत एकदा रहसि तयोक्तम्स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम् | एषा चित्र-गता स्वर्ण-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या | पश्चाद् उपजात-कौतुकेन मया स्वर्णरेखा स्व-हस्तेन स्पृष्टा | तथा चित्रतयाप्यहं चरण-पद्मेन ताडित आगत्य स्व-राष्ट्रे पतितः |

अथ दुःखितोहं परिव्रजितः पृथिवीं परिभ्राम्यन्न् इमां न्गरीम् अनुप्राप्तः | अत्र चातिकान्ते दिवसे गोप-गृहे सुप्तः सन्न् अपश्यम् | प्रदोष-समये पशूनां पालनं कृत्वा स्व-गेहम् आगतो गोपः स्व-वधूं दूत्या सह किम् अपि मन्त्रयन्तीम् अपश्यत् | ततस्तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः | ततोर्ध-रात्रे एतस्य नापितस्य वधूर्दूती पुनस्तां गोपीम् उपेत्यावदत्तव विरहानल-दग्धोसौ स्मर-शर-जर्जरितो मुमूर्षुरिव वर्तते | तथा चोक्तम्

रजनी-चर-नाथेन खण्डिते तिमिरे निशि |

यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ||111||

तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्ट-मनास्त्वाम् अनुवर्तितुम् आगता | तद् अहम् अत्रात्मानं बद्ध्वा तिष्ठामि | त्वं तत्र गत्वा तं सन्तोष्य सत्वरम् आगमिष्यसि | तथानुष्ठिते सति स गोपः प्रबुद्धोवदत्िदानीं त्वां पापिष्ठां जारान्तिकं नयामि |

ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुद्धो गोपःदर्पान्मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना | तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः | अथागत्य गोपी दूतीम् अपृच्छत्का वार्ता

दूत्योक्तम्पश्य माम् | मुखम् एव वार्तां कथयति |

अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता | इयं च दूती तां छिन्न-नासिकां गृहीत्वा स्व-गृहं प्रविश्य स्थिता | ततः प्रातरेवानेन नापितेन स्व-वधूः क्षुर-भाण्डं याचिता सती क्षुरम् एकं प्रादात् | ततोसमग्र-भाण्डे प्राप्ते समुपजात-कोपोयं नापितस्तं क्षुरं दूराद् एव गृहे क्षिप्तवान् | अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्य् उक्त्वा धर्माधिकारि-समीपम् एतम् आनीतवती | सा च गोपी तेन गोपेन पुनः पृष्टोवाचरे पाप ! को मां महासती विरूपयितुं समर्थः | मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानन्ति, यतः

आदित्य-चन्द्रावनिलानलश्च

द्यौर्भूमिरापो हृदयं यमश्च |

अहश्च रात्रिश्च उभे च सन्ध्ये

धर्मश्च जानाति नरस्य वृत्तम् ||112||

अतथ्यान्य् अपि तथ्यानि दर्शयन्ति हि पेशलाः |

समे निम्नोन्नतानीव चित्र-कर्म-विदो जनाः ||113||

उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते |

स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा ||114||

करटकः पृच्छतिकथम् एतत्

कथा 6

दमनकः कथयतिस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर्बन्धकी | सा ग्रामस्य दण्ड-नायकेन तत्-पुत्रेण च समं रमते | तथा चोक्तम्

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः |

नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ||115||

न दानेन न मानेन नार्जवेन न सेवया |

न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ||116||

यतः

गुणाश्रयं कीर्ति-युतं च कान्तं

पतिं रतिज्ञं सधनं युवानम् |

विहाय शीघ्रं वनिता व्रजन्ति

नरान्तरं शील-गुणादि-हीनम् ||117||

अपरं च्

न तादृशीं प्रीतिम् उपैति नारी

विचित्र-शय्या शयितापि कामम् |

यथा हि दूर्वादि-विकीर्ण-भूमौ

प्रयाति सौख्यं पर-कान्ति-सङ्गात् ||118||

अथ कदाचित् सा दण्ड-नायक-पुत्रेण सह रममाणा तिष्ठति | अथ दण्ड-नायकोपि रन्तुं तत्रागतः | तम् आयान्तं दृष्ट्वा तत्-पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति | अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः | तम् अवलोक्य गोप्योक्तम्दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ | तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठाकेन कार्येण दण्डनायकः समागत्यात्र स्थितः

सा ब्रूतेन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः | स च मार्यमाणोप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः | तत्-पित्रा चान्विष्यात्र न दृष्टः | अत एवायं दण्डनायकः क्रुद्ध एव गच्छति |

ततः सा तत्-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती | तथा चोक्तम्

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्-गुणा |

षड्-गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ||119||

अतोहं ब्रवीमिुतपन्नेष्व् अपि कार्येषु इत्य् आदि |

करटको ब्रूतेस्त्व् एवम् | किन्त्व् अनयोर्महानन्योग्न्य-निसर्गोपजात-स्नेह कथं भेदयितुं शक्यः

दमनको ब्रूतेुपायः क्रियताम् | तथा चोक्तम्

उपायेन जयो यादृग् रिपोस्तादृङ् न हेतिभिः |

उपाय-ज्ञोल्प-कायोपि न शूरैः परिभूयते ||120||

करटकः पृच्छतिकथम् एतत्

दमनकः कथयति--

कथा 7

कस्मिंश्चित् तरौ वायस-दम्पती निवसतः | तयोश्चापृत्यानि तत्-कोटरावस्थितेन कृष्ण-सर्पेण खादितानि | ततः पुनर्गर्भवती वायसी वायस्म् आह्नाथ ! त्यज्यताम् अयं वृक्षः | अत्रावस्थित-कृष्ण-सर्पेणावयोः सन्ततिः सततं भक्ष्यते | यतः

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तर-दायकः |

-सर्पे च गृहे वासो मृत्युरेव न संशयः ||121||

वायसो ब्रूतेप्रिये ! न भेतव्यम् | वारं वारं मवैतस्य सोढः | इदानीं पुनर्न क्षन्तव्यः |

वायस्य् आह्कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः |

वायसो ब्रूतेलम् अनया शङ्कया | यतः

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् |

पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ||122||

वायसी विहस्याह--कथम् एतत्

वायसः कथयति

कथा 8

अस्ति मन्दर-नाम्नि पर्वते दुर्दान्तो नाम सिंहः | स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते | ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तःमृगेन्द्र ! किम् अर्थम् एकदा बहु-पशु-घातः क्रियते | यदि प्रसादो भवति तदा वयम् एव भवद्-आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः |

ततः सिंहेनोक्तम्यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् |

ततः-प्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते | अथ कदाचिद् वृद्ध-शशकस्य वारः समायातः | सोचिन्तयत्

त्रास-हेतोर्विनीतिस्तु क्रियते जीविताशया |

पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ||123||

तन्मन्दं मन्दं गच्छामि | ततः सिंहोपि क्षुधा-पीडितः कोपात् तम् उवाच्कुतस्त्वं विलम्ब्य समागतोसि |

शशकोब्रवीत्देव ! नाहम् अपराधी | आगच्छन् पथि सिंहान्तरेण बलाद् धृतः | तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतोसिम् |

सिंहः सकोपम् आह्सत्वरं गत्वा दुरात्मानं दर्शय | क्व स दुरात्मा तिष्ठति |

ततः शशकस्तं गृहीत्वा गभीर-कूपं दर्शयितुं गतः | तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूप-जले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् | ततोसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः | अतोहं ब्रवीमि बुद्धिर्यस्य इत्य् आदि |

वायस्य् आह्श्रुतं मया सर्वम् | सम्प्रति यथा कर्तव्यं ब्रूहि |

वायसोऽवदत्त्रासन्ने सरसि राज-पुत्रः प्रत्यहम् आगत्य स्नाति | स्नान-समये मद्-अङ्गाद् अवतारितं तीर्थ-शिला-निहितं कनक-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि |

अथ कदाचित् स्नातुं जलं प्रविष्टे राज-पुत्रे वायस्या तद्-अनुष्ठितम् | अथ कनक-सूत्रानुसरण-प्रवृत्तै राज-पुरुषैस्तत्र तरु-कोटरे कृष्ण-सर्पो दृष्टो व्यापादितश्च | अतोहं ब्रवीमिुपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि |

करटको ब्रूतेयद्य् एवं तर्हि गच्छ | शिवास्ते सन्तु पन्थानः |

ततो दमनकः पिङ्गलक-समीपं गत्वा प्रणम्योवाच्देव ! आत्यन्तिकं किम् अपि महा-भय-कारि कार्यं मन्यमानः समागतोस्मि | यतः

आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च |

कल्याण-वचनं ब्रूयाद् अपृष्टोपि हितो नरः ||124||

अन्यच्च

भोगस्य भाजनं राजा न राजा कार्य-भाजनम् |

राज-कार्य-परिध्वंसी मन्त्री दोषेण लिप्यते ||125||

तथा हि पश्य | अमात्यानाम् एष क्रमः |

वरं प्राण-परित्यागः शिरसा वापि कर्तनम् |

न तु स्वामि-पदावाप्ति-पातकेच्छोरुपेक्षणम् ||126||

पिङ्गलकः सादरम् आहथ भवान् किं वक्तुम् इच्छति |

दमनको ब्रूतेदेव ! संजीवकस्तवोपय-सदृश-व्यवहारीव लक्ष्यते | तथा चास्मत् सन्निधाने श्रीमद्-देव-पादानां शक्ति-त्रय-निन्दां कृत्वा राज्यम् एवाभिलषति |

एतच् छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः | दमनकः पुनराह्देव ! सर्वामात्य-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः | स एव दोषः | यतः

अत्युच्छ्रिते मन्त्रिणि पार्थिवे च

विष्टभ्य पादाव् उपतिष्ठते श्रीः |

सा स्त्री-स्वभावाद् असहा भरस्य

तयोर्द्वयोरेकतरं जहाति ||127||

अपरं च्

एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते |

निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ||128||

अन्यच्च

विष-दग्धस्य भक्तस्य दन्तस्य चलितस्य च |

अमात्यस्य च दुष्टस्य मूलाद् उद्धरणं सुखम् ||129||

किं च्

यः कुर्यात् सचिवायत्तां श्रियं तद्-व्यसने सति |

सोन्धवज् जगती-पालः सीदेत् सञ्चारकैर्विना ||130||

सर्व-कार्येषु स्वेच्छातः प्रवर्तते | तद् अत्र प्रमाणं स्वामी | एतं च जानाति |

न सोस्ति पुरुषो लोके यो न कामयते श्रियम् |

परस्य युवतिं रम्यां सादरं नेक्षतेत्र कः ||131||

सिंहो विमृश्याह्भद्र ! यद्यप्य् एवं तथापि संजीवकेन सह मम महान् स्नेहः | पश्य्

कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः |

अशेष-दोष-दुष्टोपि कायः कस्य न वल्लभः ||132||

अन्यच्च

अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः |

दग्ध-मन्दिर-सारेपि कस्य वह्नावनादरः ||133||

दमनकः पुनरे एवाह्देव ! स एवातिदोषः, यतः

यस्मिन्न् एवाधिकं चक्षुरारोहयति पार्थिवः |

सुतेमात्येप्य् उदासीने स लक्ष्म्याश्रीयते जनः ||134||

शृणु देव !

अप्रियस्यापि पथ्यस्य परिणामः सुखावहः |

वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ||135||

त्वया च मूल-भृत्यानपास्यायम् आगन्तुकः पुरस्कृतः | एतच् चानुचितं कृतम् | यतः

मूल-भृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् |

नातः परतरो दोषो राज्य-भेद-करो यतः ||136||

सिंहो ब्रूतेकिम् आश्चर्यम् | मया यद् अभय-वाचं दत्त्वानीतः संवर्धितश्च तत् कथं मह्यं द्रुह्यति |

दमनको ब्रूतेदेव !

दुर्जनो नार्जवं याति सेव्यमानोपि नित्यशः |

स्वेद-नाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम् ||137||

अपरं च्

स्वेदितो मर्दितश्चैव रञ्जुभिः परिवेष्टितः |

मुक्तो द्वादशभिर्वर्षैः श्व-पुच्छः प्रकृतिं गतः ||138||

अन्यच्च

वर्धनं वा सम्मानं खलानां प्रीतये कुतः |

फलन्त्य् अमृत-सेकेपि न पथ्यानि विष-द्रुमाः ||139||

अतोहं ब्रवीमि

अपृष्टस्तस्य न ब्रूयाद् यश्च नेच्छेत् पराभवम् |

एष एव सतां धर्मो विपरीतोसतां मतः ||140||

तथा चोक्तम्

स्निग्धोकुशलान् निवारयति यस्तत् कर्म यन् निर्मलं

सा स्त्री यातु-विधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते |

सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते

तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ||141||

यदि सञ्जीवक-व्यसनादितोविज्ञापितोपि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः | तथा च्

नृपः कामासक्तो गणयति न कार्ये न च हितं

यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव |

ततो मान-ध्मातः स पतति यदा शोक-गहने

तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम् ||142||

पिङ्गलकः स्वगतम्

न परस्यापराधेन परेषां दण्डम् आचरेत् |

आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा ||143||

तथा चोक्तम्

गुण-दोषावनिश्चित्य विधिनं ग्रह-निग्रहे |

स्व-नाशाय यथा न्यस्तो दर्पात् सर्प-मुखे करः ||144||

प्रकाशं ब्रूतेतदा संजीवकः किं प्रत्यादिश्यताम् |

दमनकः स-सम्भ्रमम् आह्देव ! मा मैवम् | एतावता मन्त्र-भेदो जायते | तथा ह्युक्तम्

मन्त्र-बीजम् इदं गुप्तं रक्षणीयं यथा तथा |

मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति ||145||

किं च्

आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः |

क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ||146||

तद् अवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् | किं च्

मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैरपि |

चिरं न सहते स्थातुं परेभ्यो भेद-शङ्कया ||147||

यद्य् असौ दृष्ट-दोषोपि दोषान् निवत्यं सन्धातव्यस्तद् अतीवानुचितम् | यतः

सकृद् दुष्टं तु यो मित्रं पुनः सन्धातुम् इच्छति |

स मृत्युरेव गृह्णाति गर्भम् अश्वतरी यथा ||148||

अङ्गाङ्गि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः |

पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः ||149||

सिंहः पृच्छति--कथम् एतत्

दमनकः कथयति

कथा 9

दक्षिण-समुद्र-तीरे टिट्टिभ-दम्पती निवसतः | तत्र चासन्न-प्रसदा टिट्टिभी भर्तारम् आह्नाथ ! प्रसव-योग्य-स्थानं निभृतम् अनुसन्धीयताम् |

टिट्टिभोवदत्भार्ये, नन्व् इदम् एव स्थानं प्रसूति-योग्यम् |

सा ब्रूतेसमुद्र-वेलया व्याप्यते स्थानम् एतम् |

टिट्टिभोवदत्किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः |

टिट्टिभी विहस्याह्स्वामिन् ! त्वया समुद्रेण च महद् अन्तरम् | अथवा

पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः |

अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ||150||

अपि च्

अनुचित-कार्यारम्भः स्वजन-विरोधो बलीयसा स्पर्धा |

प्रमदा-जन-विश्वासो मृत्योर्द्वाराणि चत्वारि ||151||

ततः कृच्छ्रेण स्वामि-वचनात्मा तत्रैव प्रसूता | एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्ति-ज्ञानार्थं तद्-अण्डान्य् अवहृतानि | ततष् टिट्टिभी शोकार्ता भर्तारम् आह्नाथ ! कष्टम् आपतितम् | तान्य् अण्डानि मे नष्टानि |

टिट्टिभोवदत्प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षि-स्वामिनो गरुडस्य समीपं गतः | तत्र गत्वा सकल-वृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्देव, समुद्रेणाहं स्व-गृहावस्थितो विनापराधनेनैव निगृहीतः |

ततस्तद्-वचनम् आकर्ण्य गरुत्मना प्रभुर्भगवान् नारायणः सृष्टि-स्थिति-प्रलय-हेतुर्विज्ञप्तः | स समुद्रम् अण्ड-दानायादिदेश | ततो भगवद्-आज्ञां मौलौ निधाय

समुद्रेण तान्य् अण्डानि टिट्टिभाय समर्पितानि | अतोहं ब्रवीमिङ्गाङ्गि-भावम् अज्ञात्वा इत्य् आदि |

राजाह्कथम् असौ ज्ञातव्यो द्रोह-बुद्धिरिति |

दमनको ब्रूतेयदासौ स-दर्पः शृङ्गाग्र-प्रहरणाभिमुखश्चकितम् इवागच्छति तदा ज्ञास्यति स्वामी | एवम् उक्त्वा संजीवक-समीपं गतः | तत्र गतश्च मन्दं मन्दम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् | संजीवकेन सादरम् उक्तम्भद्र ! कुशलं ते |

दमनको ब्रूतेनुजीविनां कुतः कुशलम् | यतः

सम्पत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम् |

स्व-जीइवितेप्यविश्वासस्तेषां ये राज-सेवकाः ||152||

अन्यच्च

कोर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोस्तं गताः

स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया |

कः कालस्य भुजान्तरं न च गतः कोर्थी गतो गौरवं

को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ||153||

संजीवकेनोक्तम्सखे ! ब्रूहि किम् एतत्

दमनक आह्किं ब्रवीमि मन्द-भाग्यः | पश्य्

मज्जन्न् अपि पयोराशौ लब्ध्वा सर्पावलम्बनम् |

न मुञ्चति न चादत्ते तथा मुग्धोस्मि सम्प्रति ||154||

यतः

एकत्र राज-विश्वासो नश्यत्य् अन्यत्र बान्धवः |

किं करोमि क्व गच्छामि पतित् ओ दुःख-सागरे ||155||

इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः | संजीवको ब्रूतेमित्र ! तथापि स-विस्तरं मनोगतम् उच्यताम् |

दमनकः सुनिभृतम् आह्यद्यपि राज-विश्वासो न कथनीयस्तथापि भवान् अस्मदीय-प्रत्ययाद् आगतः | मया परलोकार्थिनावश्यं तव हितम् आख्येयम् | शृणु, अयं स्वामी तवोपरि विकृत-बुद्धी रहस्य् उक्तवान् संजीवकम् एव हत्वा स्व-परिवारं तर्पयामि |

एतच् छ्रुत्वा संजीवकः परं विषादम् अगमत् | दमनकः पुनराहलं विषादेन | प्राप्त-कालकायम् अनुष्ठीयताम् | संजीवकः क्षणं विमृश्याह स्व-गतम्सुष्ठु खल्व् इदम् उच्यते | किं वा दुर्जन-चेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते | यतः

दुर्जन-गम्या नार्यः प्रायेणापात्र-भृद् भवति राजा |

कृपणानुसारि च धनं देवो गिरि-जलधि-वर्षी च ||156||

कश्चिद् आश्रय-सौन्दर्याद् धत्ते शोभाम् असज्जनः |

प्रमदालोचन-न्यस्तं मलीमसम् इवाञ्जनम् ||157||

आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम् |

अयं त्व् अपूर्व-प्रतिमा-विशेषो यः सेव्यमानो रिपुताम् उपैति ||158||

तद् अयम् अशक्यर्थः प्रमेयः, यतः

निमित्तम् उद्दिश्य हि यः प्रकुप्यति

ध्रुवं स तस्यापगमे प्रसीदति |

अकारण-द्वेषि मनस्तु यस्य वै

कथं जनस्तं परितोषयिष्यति ||159||

किं मयापकृतं राज्ञः | अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः |

दमनको ब्रूते एवम् एतत् | शृणु

विज्ञैः स्निग्धैरुपकृतम् अपि द्वेष्यताम् एति कैश्चित्

साक्षाद् अन्यैरपकृतम् अपि प्रीतिम् एवोपयाति |

चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां

सेवा-धर्मः परम-गहनो योगिनाम् अप्यगम्यः ||160||

अन्यच्च

कृत-शतम् असत्सु नष्टं सुभाषित-शतं च नष्टम् अबुधेषु |

वचन-शतम् अवचन-करे बुद्धि-शतम् अचेतने नष्टम् ||161||

किं च्

चन्दन-तरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः |

गुण-घातिनश्च भोगे खला न च सुखान्य् अविघ्नानि ||162||

मूलं भुजङ्गैः कुसुमानि भृङ्गैः

शाखाः प्लवङ्गैः शिखराणि भल्लैः |

नास्त्य् एव तच्-चन्दन-पादपस्य

यन् नाश्रितं दुष्टतरैश्च हिंस्रैः ||163||

अयं तावत् स्वामी वाचि मधुरो विष-हृदयो ज्ञातः | यतः

दूराद् उच्छ्रित-पाणिराद्र-नयनः प्रोत्सारितार्धासनो

गाढालिङ्गन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तादरः |

अन्तर्भूत-विषो बहिर्मधुमयश्चातीव माया-पटुः

को नामायम् अपूर्व-नाटक-विधिर्यः शिक्षितो दुर्जनैः ||164||

तथा हि

पोतो दुस्तर-वारि-राशितरणे दीपोन्धकारागमे

निर्वाते व्यजनं मदान्ध-करिणां दर्पोपशान्त्यै सृणिः |

इत्थं तद् भुवि नास्ति यस्य विधिना नोपाय-चिन्ता कृता

मन्ये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः ||165||

संजीवकः पुनर्निःश्वस्य्कष्टं भोः ! कथम् अहं सस्य-भक्षकः सिंहेन निपातयितव्यः यतः

ययोरेव समं वित्तं ययोरेव समं बलम् |

तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ||166||

अयुद्धे हि यदा पश्येन् न काञ्चिद् हितम् आत्मनः |

युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ||170||

+

अपरं च्

भूम्य्-एक-देशस्य गुणान्वितस्य

भृत्यस्य वा बुद्धिमतः प्रणाशः |

भृत्य-प्रणाशो मरणं नृपाणां

नष्टापि भूमिः सुलभा न भृत्याः ||177||

दमनको ब्रूतेस्वामिन् ! कोयं नूतनो न्यायो यद् अरातिं हत्वा सन्तापः क्रियते तथा चोक्तम्

पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् |

प्राण-च्छेद-करा राज्ञा हन्तव्या भूतिम् इच्छता ||178||

अपि च्

धर्मार्थ-काम-तत्त्वज्ञो नैकान्त-करुणो भवेत् |

नहि हस्तस्थम् अप्यन्नं क्षमावान् भक्षितुं क्षमः ||179||

किं च्

क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम् |

अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ||180||

अपरं च्

राज्य-लोभाद् अहङ्काराद् इच्छतः स्वामिनः पदम् |

प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ||181||

अन्यच्च

राजा घृणी ब्राह्मणः सर्व-भक्षी

स्त्री चावज्ञा दुष्प्रकृतिः सहायः |

प्रेष्यः प्रतीपोधिकृतः प्रमादी

त्याज्या इमे यश्च कृतं न वेत्ति ||182||

विशेषतश्च्

सत्यानृता च परुषा प्रिय-वादिनी च

हिंस्रा दयालुरपि चार्थ-परा वदान्या |

नित्य-व्यया प्रचुर-रत्न-धनागमा च

वाराङ्गनेव नृप-नीतिरनेक-रूपा ||183||

इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः | दमनकः प्रहृष्ट-मनाः विजयतां महाराजः शुभम् अस्तु सर्व-जगताम् इत्य् उक्त्वा यथा-सुखम् अवस्थितः |

विष्णु-शर्मोवाच्सुहृद्-भेदः श्रुतस्तावद् भवद्भिः |

राज-पुत्रा ऊचुःभवत्-प्रसादाच् छ्रुतः | सुखिनो भूता वयम् |

विष्णुशर्माब्रवीत्परम् अपीदम् अस्तु

सुहृद्-भेदस्तावद् भवतु भवतां शत्रु-निलये

खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्-अहः |

जनो नित्यं भूयात् सकल-सुख-सम्पत्ति-वसतिः

कथारम्भे रम्भ्ये सततम् इह बालोपि रमताम् ||184||

इति हितोपदेशे सुहृद्-भेदो नाम द्वितीयः

कथा-सङ्ग्रहः समाप्तः

--ओ)0(ओ--

ईइ.

विग्रहः

अथ पुनः कथारम्भ-काले राज-पुत्रा ऊचुःार्य ! राजपुत्रा वयम् | तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति | विष्णुशर्मणोक्तम्यद् एवं भवद्भ्यो रोचते तत् कथयामि | विग्रहः श्रूयतां, यस्यायम् आद्यः श्लोकः

हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे |

विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मन्दिरे ||1||

राज-पुत्रा ऊचुःकथम् एतत् विष्णुशर्मा कथयति

अस्ति कर्पूरद्वीपे पद्मकेलि-नामधेयं सरः | तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति | स च सर्वैर्जलचरैः पक्षिभिर्मिलित्वा पक्षि-राज्येभिषिक्तः | यतः

यदि न स्यान् नरपतिः सम्यङ्-नेता ततः प्रजा |

अकर्ण-धारा जलधौ विप्लवेतेह नौरिव ||2||

अपरं च्

प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् |

वर्धनाद् रक्षणं श्रेयस्तद्-अभावे सद् अप्यसत् ||3||

एकदासौ राजहंसैः सुविस्तीर्ण-कमल-पर्यङ्के सुखासीनः परिवार-परिवृतस्तिष्ठति | ततः कुतश्चिद् देशाद् आगत्य दीर्घ-मुखो नाम बकः प्रणम्योपविष्टः | राजोवाच्दीर्घमुख ! दशान्तराद् आगतोसि | वार्तां कथय |

स ब्रूतेदेव ! अस्ति महती वार्ता | ताम् आख्यातुकाम एव सत्वरम् आगतोहम् | श्रूयताम्

अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः | तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति | तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्य-मध्ये चरन्न् अवलोकितः | पृष्टश्च्कस्त्वम् कुतः समागतोसि

तदा मयोक्तम्कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरोहं, कौतुकाद् देशान्तरं द्रष्टुम् आगतोस्मि | एतच् छ्रुत्वा पक्षिभिरुक्तम्नयोर्देशयोः को देशो भद्रतरो राजा च

ततो मयोक्तम् किम् एवम् उच्यते महद् अन्तरम् | यतः कर्पूरद्वीपः स्वर्ग एव | राजहंसश्च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते | अत्र मरुस्थले पतिता यूयं किं कुरुथ | अस्मद्-देशे गम्यताम् |

ततोस्मद्-वचनम् आकर्ण्य सर्व-पक्षिणः सकोपा बभूवुः | तथा चोक्तम्

पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् |

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ||4||

अन्यच्च

विद्वान् एवोपदेष्टव्यो नाविद्वांस्तु कदाचन |

वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः ||5||

राजोवाच्कथम् एतत्

दीर्घमुखः कथयति

कथा 1

अस्ति नर्मदा-तीरे पर्वतोपत्यकायां विशालः शाल्मली-तरुः | तत्र निर्मित-नीड-कोडे पक्षिणः सुखेन निवसन्ति | अथैकदा वर्षासु नीलपटैरिव जलधर-पटलैरावृते नभस्-तले | धारा-सारैर्महती वृष्टिर्बभूव | ततो वानरांश्च तरु-तलेवस्थितान् शीताकुलान् कम्पमानान् अवलोक्य, कृपया पक्षिभिरुक्तम्भो भो वानराः ! शृणुत--

अस्माभिर्निर्मिता नीडाश्चञ्चु-मात्राहृतैस्तृणैः |

हस्त-पादादि-संयुक्ता यूयं किम् अवसीदथ ||6||

तच् छ्रुत्वा वानरैर्जातामर्षैरालोचितम्हो ! निर्वात-नीड-गर्भावस्थिताः सुखिनः पक्षिणोस्मान् निन्दन्ति | तद् भवतु तावद् वृष्टेरुपशमः |

अनन्तरं शान्ते पानीय-वर्षे तैर्वानरैर्वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अण्डानि चाधः पातितानि | अतोहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि |

राजोवाच्ततस्तैः पक्षिभिः किं कृतम्

बकः कथयतिततस्तैः पक्षिभिः कोपाद् उक्तम्केनासौ राजहंसो राजा कृतः

ततो मयोपजात-कोपेनोक्तम्यं युष्मदीयो मयूरः केन राजा कृतः

एतच् छ्रुत्वा ते पक्षिणो मां हन्तुम् उद्यताः | ततो मयापि स्व-विक्रमो दर्शितः | यतः

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः |

पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव ||7||

राजा विहस्याह्

आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् |

अन्तरं नैव जानाति स तिरस्क्रियतेरिभिः ||8||

सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुद्धिमान् |

द्वीपि-चर्म-परिच्छन्नो वाग्-दोषाद् गर्दभो हतः ||9||

बकः पृच्छतिकथम् एतत्

राजा कथयति

कथा 2

अस्ति हस्तिनापुरे विलासो नाम रजकः | तस्य गर्दभोतिभार-वहनाद् दुर्बलो मुमूर्षुरिवाभवत् | ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक-समीपे सस्य-क्षेत्रे विमुक्तः | ततो दूरात् तम् अवलोक्य व्याघ्र-बुद्ध्या क्षेत्र-पतयः सत्वरं पलायन्ते |

अथैकदा केनापि सस्य-रक्षकेण धूसर-कम्बल-कृत-तनु-त्राणेन धनुष्काण्डं सज्जीकृत्यानत-कायेनैकान्ते स्थितम् | तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्ट-सस्य-भक्षण-जात-बलो गर्दभोयम् इति मत्वोच्चैः शब्दं कुर्वाणस्तद्-अभिमुखं धावितः | ततस्तेन सस्य-रक्षकेण चीत्कार-शब्दाद् गर्दभोयम् इति निश्चित्य, लीलयैव व्यापादितः | अतोहं ब्रवीमिसुचिरं हि चरन् नित्यम् इत्य् आदि |

दीर्घमुखो ब्रूतेततः पश्चात् तैः पक्षिभिरुक्तम्रे पापा दुष्ट-बक ! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनम् अधिक्षिपसि | तन् न क्षन्तव्यम् इदानीम् | इत्य् उक्त्वा सर्वे मां चञ्चुभिर्हत्वा, -कोपा ऊचुःपश्य रे मूर्ख ! स हंसस्तव राजा सर्वथा मृदुः | तस्य राज्याधिकारो नास्ति | यत एकान्त-मृदुः करतलस्थम् अप्यर्थं रक्षितुम् अक्षमः |

स कथं पृथिवीं शास्ति राज्यं वा तस्य किम् त्वं च कूप-मण्डूकः | तेन तद्-आश्रयम् उपदिशसि | शृणु

सेवितव्यो महा-वृक्षः फल-च्छाया-समन्वितः |

यदि दैवात् फलं नास्ति च्छाया केन निवार्यते ||10||

अन्यच्च

हीन-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः |

पयोपि शौण्डिकी-हस्ते वारुणीत्य् अभिधीयते ||11||

अन्यच्च

महान् अप्यल्पतां याति निर्गुणे गुण-विस्तरः |

आधाराधेय-भावेन गजेन्द्र इव दर्पणे ||12||

किन्तु

अजा सिंह-प्रसादेन वने चरति निर्भयम् |

रामम् आसाद्य लङ्कायां लेभे राज्यं विभीषणः ||13||

विशेषतश्च्

व्यपदेशेपि सिद्धिः स्याद् अतिशक्ते नराधिपे |

शशिनो व्यपदेशेन शशकाः सुखम् आसते ||14||

मयोक्तम्कथम् एतत्

पक्षिणः कथयन्ति

कथा 3

कदाचिद् वर्षास्व् अपि वृष्टेरभावात् तृषार्तो गज-यूथो यूथपतिम् आह्नाथ ! कोभ्युपायोस्माकं जीवनाय नास्ति क्षुद्र-जन्तूनां अपि निमज्जन-स्थानम् | वयं च निमज्जन-स्थानाभावान् मृताः | अन्धा इव किं कुर्मः क्व यामः

ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् | ततो दिनेषु गच्छत्सु तत्-तीरावस्थिताः क्षुद्र-शशका गज-पादाहतिभिश्चूर्णिताः | अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामासनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागन्तव्यम् | ततो विनष्टम् अस्मत्-कुलम् |

ततो विजयो नाम वृद्ध-शशकोवदत्मा विषीदत | मयात्र प्रतीकारः कर्तव्यः | ततोसौ प्रतिज्ञाय चलितः | गच्छता च तेनालोचितम्कथं मया गज-यूथ-नाथ-समीपे स्थित्वा वक्तव्यम् | यतः

स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः |

पालयन्न् अपि भूपालः प्रहसन्न् अपि दुर्जनः ||15||

अतोहं पर्वत-शिखरम् आरुह्य यूथनाथं संवादयामि | तथानुष्ठिते सति यूथनाथ उवाच्कस्त्वम् कुतः समायातः

स ब्रूतेशशकोहम् | भगवता चन्द्रेण भवद्-अन्तिकं प्रेषितः |

यूथपतिराह्कार्यम् उच्यताम् |

विजयो ब्रूते

उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा |

सदैवावध्य-भावेन यथार्थस्य हि वाचकः ||16||

तद् अहं तद्-आज्ञया ब्रवीमि, शृणु | यद् एते चन्द्रसरो-रक्षकाः शशकास्त्वया निःसारितास्तद् अनुचितं कृतम् | ते शशकाश्चिरम् अस्माकं रक्षिताः | अत एव मे शशाङ्क इति प्रसिद्धिः |

एवम् उक्तवति दूते यूथपतिर्भयाद् इदम् आह्प्रणिधे ! इदम् अज्ञानतः कृतम् | पुनर्न तत्र गमिष्यामि |

दूत उवाच्यद्य् एवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ |

ततस्तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्र-बिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः | उक्तं च तेन्देव ! अज्ञानाद् अनेनापराधः कृतः | ततः क्षम्यताम् | नैवं वारान्तरं विधास्यते | इत्य् उक्त्वा प्रस्थापितः | अतो वयं ब्रूमःव्यपदेशेपि सिद्धिः स्यात् इति |

--ओ)0(ओ--

ततो मयोक्तम्स एवास्मत्-प्रभू राजहंसो महा-प्रतापोतिस्मर्थः | त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति | तदाहं तैः पक्षिभिःदुष्ट ! कथम् अस्मद्-भूमौ चरसि इत्य् अभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः | ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्देव ! अवधीयताम् | एष दुष्टोस्मद्-देशे चरन्न् अपि देव-पादान् अधिक्षिपति |

राजाह्कोयम् कुतः समायातः

ते ऊचुःहिरण्यगर्भ-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः |

अथाहं गृध्रेण मन्त्रिणा पृष्टःकस्तत्र मुख्यो मन्त्री इति |

मयोक्तम्सर्व-शास्त्रार्थ-पारगः शर्वज्ञो नाम चक्रवाकः |

गृध्रो ब्रूतेयुज्यते | स्व-देशजोसौ | यतः

स्वदेशजं कुलाचार-विशुद्धम् उपधाशुचिम् |

मन्त्रज्ञम् अवसनिनं व्यभिचार-विवर्जितम् ||17||

अधीत-व्यवहारार्थं मौलं ख्यातं विपश्चितम् |

अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ||18||

अत्रान्तरे शुकेनोक्तम्देव ! कर्पूर-द्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव | तत्रापि देव-पादानाम् एवाधिपत्यम् | ततो राज्ञाप्य् उक्तमेवम् एव | यतः

राजा मत्तः शिशुश्चैव प्रमदा धन-गर्वितः |

अप्राप्यम् अपि वाञ्छन्ति किं पुनर्लभ्यतेपि यत् ||19||

ततो मयोक्तम्यदि वचनम्-मात्रेणैवाधिपत्यं सिद्ध्यति | तदा जम्बूद्वीपेप्यस्मत्-प्रभोर्हिरण्यगर्भस्य स्वाम्यम् अस्ति |

शुको ब्रूतेकथम् अत्र निर्णयः

मयोक्तंसङ्ग्राम एव |

राज्ञा विहस्योक्तम्स्व-स्वामिनं गत्वा सज्जीकुरु |

तदा मयोक्तम्स्व-दूतोपि प्रस्थाप्यताम् |

राजोवाच्कः प्रयास्यति दौत्येन यत एवम्भूतो दूतः कार्यः

भक्तो गुणी शुचिर्दक्षः प्रगल्भोव्यसनी क्षमी |

ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान् ||20||

गृध्रो वदतिसन्त्य् एव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः | यतः,

प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति |

कालिमा कालकूटस्य नापैतीश्वर-सङ्गमात् ||21||

राजाह्ततः शुक एव व्रजतु | शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्-अभिलषितं ब्रूहि |

शुको ब्रूतेयथाज्ञापयति देवः | किन्त्व् अयं दुर्जनो बकः | तद् अनेन सह न गच्छामि | तथा चोक्तम्

खलः करोति दुर्वृत्तं नूनं फलति साधुषु |

दशाननोहरत् सीतां बन्धनं स्यान्महोदधेः ||22||

अपरं च्

न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् |

काक-सङ्गाद् धतो हंसस्तिष्ठन् गछंश्च वर्तकः ||23||

राजोवाच्कथम् एतत्

शुकः कथयति

कथा 4

अस्त्य् उज्जयिनी-वर्त्म-प्रान्तरे प्लक्ष-तरुः | तत्र हंस-काकौ निवसतः | कदाचित् ग्रीष्म-समये परिश्रान्तः कश्चित् पथिकस्तत्र तरु-तले धनुष्काण्डं संनिधाय सुप्तः | तत्र क्षणान्तरे तन्-मुखाद् वृक्ष-च्छायापगता | ततः सूर्य-तेजसा तन्-मुखं व्याप्तम् अवलोक्य, तद्-वृक्ष-स्थितेन पुण्य-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस्तन्-मुखे छाया कृता | ततो निर्भर-निद्रा-शुखिना पथि-भ्रमण-परिश्रान्तेन पान्थेन मुख-व्यादानं कृतम् |

अथ पर-सुखम् असहिष्णुः स्वभाव-दौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः | ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः | अतोहं ब्रवीमिन स्थातव्यम् इति |

--ओ)0(ओ--

देव ! वर्तक-कथाम् अपि कथयामि | श्रूयताम्

कथा 5

एकत्र वृक्षे काक-वर्तुकौ सुखं निवसतः | एकदा भगवतो गरुडस्य यात्रा-प्रसङ्गेन सर्वे पक्षिणः समुद्र-तीरं गताः | ततः काकेन सह वर्तकश्चलितः | अथ गच्छतो गोपालस्य मस्तकावस्थित-दधि-भाण्डाद् वारं वारं तेन काकेन दधि खाद्यते | ततो यावद् असौ दधि-भाण्डं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काक-वर्तकौ दृष्टौ | ततस्तेन दृष्टः काकः पलायितः | वर्तकः स्वभाव-निरपराधो मन्द-गतिस्तेन प्राप्तो व्यापादितः | अतोहं ब्रवीमिन गन्तव्यम् इत्य् आदि |

--ओ)0(ओ--

ततो मयोक्तम्भ्रातः शुक ! किम् एवं ब्रवीषि मां प्रति यथा श्रीमद्-देव-पादास्तथा भवान् अपि | शुकेनोक्तम्स्त्व् एवम् | किन्तु,

दुर्जनैरुच्यमानानि संमतानि प्रियाण्य् अपि |

अकाल-कुसुमानीव भयं संजनयन्ति हि ||24||

दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् | यद् अनयोर्भूपालयोर्विग्रहे भवद्-वचनम् एव निदानम् | पश्य्

प्रत्यक्षेपि कृते दोषे मूर्खः सान्त्वेन तुष्यति |

रथ-कारो निजां भार्यां सजारां शिरसाकरोत् ||25||

राज्ञोक्तम्--कथम् एतत्

शुकः कथयति

कथा 6

अस्ति यौवन-श्री-नगरे मन्द-मतिर्नाम रथकारः | स च स्व-भार्यां बन्धकीं जानाति | किन्तु जारेण समं स्व-चक्षुषा नैक-स्थाने पश्यति | ततोसौ रथकारः अहम् अन्यं ग्रामं गच्छामीत्य् उक्त्वा चलितः | स कियद् दूरं गत्वा पुनरागत्य पर्यङ्क-तले स्व-गृहे निभृतं स्थितः | अथ रथकारो ग्रामान्तरं गत इत्य् उपजात-विश्वासः स जारः सन्ध्या-काल एवागतः | पज्चात् तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्क-तल-स्थितस्य भर्तुः किञ्चिद् अङ्ग-स्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् |

ततो जारेणोक्तम्किम् इति त्वम् अद्य मया सह निर्भरं न रमसे विस्मितेव प्रतिभासि मे त्वम् |

अथ तयोक्तम्नभिज्ञोसि | योसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सोद्य ग्रामान्तरं गतः | तेन विना सकल-जन-पूर्णोपि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति | किं भावि तत्र पर-स्थाने किं खादितवान् कथं वा प्रसुप्तः इत्य् अस्मद्-धृदयं विदीर्यते |

जारो ब्रूतेतव किम् एवंविधा स्नेह-भूमी रथकारः

बन्धक्य् अवदत्रे बर्बर ! किं वदसि शृणु

परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोध-चक्षुषा |

सुप्रसन्न-मुखी भर्तुः सा नारी धर्म-भाजनम् ||26||

अपरं च्

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ||27||

अन्यच्च

भर्ता हि परमं नार्या भूषणं भूषणैर्विना |

एषा विरहिता तेन शोभनापि न शोभते ||28||

त्वं च जारः पाप-मतिः, मनो-लौल्यात् पुष्प-ताम्बूल-सदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च | स च पुनर्मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः | किं बहुना तस्मिन् जीवति जीवामि | तन्-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते | यतः

तिस्रः कोट्योर्ध-कोटी च यानि लोमानि मानवे |

तावत् कालं वसेत् स्वर्गे भर्तारं योनुगच्छति ||29||

अन्यच्च

व्याल-ग्राही यथा व्यालं बलाद् उद्धरते बिलात् |

तद्वद् भर्तारम् आदाय स्वर्ग-लोके महीयते ||30||

अपरं च्

चितौ परिष्वज्य विचेतनं पतिं

प्रिया हि या मुञ्चति देहम् आत्मनः |

कृत्वापि पापं शत-लक्षम् अप्यसौ

पतिं गृहीत्वा सुर-लोकम् आप्नुयात् ||31||

यतः नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः |

यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः |

तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ||32||

एतत् सर्वं श्रुत्वा मन्द-मतिः स रथकारःधन्योहं यस्येदृशी प्रिय-वादिनी, स्वामि-वत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्री-पुरुष-सहितां मूर्ध्नि कृत्वा सानन्दं ननर्त | अतोहं ब्रवीमि प्रयक्षेपि कृते दोषे इत्य् आदि |

--ओ)0(ओ--

अतोहं तेन राज्ञा यथा-व्यवहारं सम्पूज्य प्रस्थापितः | शुकोपि मम पश्चाद् आगच्छन्न् आस्ते | एतत् सर्वं परिज्ञाय यथा-कर्तव्यम् अनुसन्धीयताम् |

चक्रवाको विहस्याह्देव ! बकेन तावद् देशान्तरम् अपि गत्वा यथा-शक्ति राज-कार्यम् अनुष्ठितम् | किन्तु देव स्वभाव एष मूर्खानाम् | यतः,

शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम् |

विना हेतुम् अपि द्वन्द्वम् एतन् मूर्खस्य लक्षणम् ||33||

राजाहलम् अनेनातीतोपालम्भनेन | प्रस्तुतम् अनुसन्धीयताम् |

चक्रवाको ब्रूतेदेव ! विजने ब्रवीमि | यतः,

वर्णाकार-प्रतिध्वानैर्नेत्र-वक्त्र-विकारतः |

अप्य् ऊहन्ति मनो धीरास्तस्माद् रहसि मन्त्रयेत् ||34||

ततो राजा मन्त्री च तत्र स्थितौ अन्येन्यत्र गताः | चक्रवाको ब्रूतेदेव ! अहम् एवं जानाम्कस्याप्यस्मन्-नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम् | यतः,

वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम् |

विदुषां जीवनं मूर्खः सद्-वर्णो जीवनं सताम् ||35||

राजाब्रवीत्भवतु, कारणम् अत्र पश्चान् निरूपणीयम् | सम्प्रति यत् कर्तव्यं तन् निरूप्यताम् |

चक्रवाको ब्रूतेदेव ! प्रणिधिस्तावत् तत्र प्रहीयताम् | ततस्तद्-अनुष्ठानं बलाबलं च जानीमः | तथा हि

भवेत् स्व-पर-राष्ट्राणां कार्याकार्यावलोकने |

चारश्चक्षुर्महीभर्तुर्यस्य नास्त्य् अन्ध एव सः ||36||

स च द्वितीयं विश्वास-पात्रं गृहीत्वा यातु | तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्य-मन्त्र-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति | तथा चोक्तं

तीर्थाश्रम-सुर-स्थाने शास्तर-विज्ञान-हेतुना |

तपस्वि-व्यञ्जनोपेतैः स्व-चरैः सह संवसेत् ||37||

गूढ-चारश्च्यो जले स्थले च चरति | ततोसाव् एव बको नियुज्यताम् | एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु | तद्-गृह-लोकाश्च राज-द्वारे तिष्ठन्तु | किन्तु एतद् अपि सुगुप्तम् अनुष्ठातव्यम् | यतः

षट्-कर्णो भिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया |

इत्य् आत्मना द्वितीयेन मन्त्रः कार्यो मही-भृता ||38||

पश्य्

मन्त्र-भेदे हि ये दोषा भवन्ति पृथिवी-पतेः |

न शक्यास्ते समाधातुम् इति नीति-विदां मतम् ||39||

राजा विमृश्योवाच्प्राप्तस्तावन्मयोत्तमः प्रतिनिधिः |

मन्त्री ब्रूतेदेव ! सङ्ग्रामे विजयोपि प्राप्तः |

अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच्देव ! जम्बूद्वीपाद् आगतो द्वारि शुकस्तिष्ठति |

राजा चक्रवाकम् आलोकते | चक्रवाकेनोक्तम्कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः |

यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवास-स्थानं गतः | राजाह्विग्रहस्तावत् समुपस्थितः |

चक्रवाको ब्रूतेदेव ! तथापि प्राग् एव विग्रहो न विधिः | यतः

स किं भृत्यः स किं मन्त्री य आदाव् एव भूपतिम् |

युद्धोद्योगं स्व-भू-त्यागं निर्दिशत्य् अविचारितम् ||40||

अपरं च्

विजेतुं प्रयतेतारीन् न युद्धेन कदाचन |

अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ||41|

अन्यच्च

साम्ना दानेन भेदेन समस्तैरथवा पृथक् |

साधितुं प्रयतेतारीन् न युद्धेन कदाचन ||42||

अपरं च्

सर्व एव जनः शूरो ह्य् अनासादित-विग्रहः |

अदृष्ट-पर-सामर्थ्यः स-दर्पः को भवेन् न हि ||43||

किं च्

न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा |

अल्पोपायान्महा-सिद्धिरेतन्-मन्त्र-फलं महत् ||44||

किन्तु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः

यथा काल-कृतोद्योगात् कृषिः फलवती भवेत् |

तद्वन् नीतिरियं देव चिरात् फलति न क्षणात् ||45||

अपरं च्

दूरे भीरुत्वम् आसन्ने शूरता महतो गुणः |

विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति ||46||

अन्यच्च

प्रत्यूहः सर्व-सिद्धीनाम् उत्तापः प्रथमः किल |

अतिशीतलम् अप्यम्भः किं भिनत्ति न भूभृतः ||47||

बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् |

तद् युद्धं हस्तिना सार्धं नराणां मृत्युम् आवहेत् ||48||

अन्यच्च

स मूर्खः कालम् अप्राप्य योपकर्तरि वर्तते |

कलिर्बलवता सार्धं कीट-पक्षोद्गमो यथा ||49||

किं च्

कौर्मं सङ्कोचम् आस्थाय प्रहारम् अपि मर्षयेत् |

प्राप्त-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर-सर्पवत् ||50||

महत्य् अल्पेप्य् उपायज्ञः समम् एव भवेत् क्षमः |

समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ||51||

अतो दूतोयं शुकोत्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः

एकः शतं योधयति प्राकार-स्थो धनुर्धरः |

शतं शत-सहस्राणि तस्माद् दुर्गं विशिष्यते ||52||

किं च्

अदुर्ग-विषयः कस्य नारेः परिभवास्पदम् |

अदुर्गोनाश्रयो राजा पोत-च्युत-मनुष्यवत् ||53||

दुर्गं कुर्यान्महाखातम् उच्च-प्राकार-संयुतम् |

-यन्त्रं स-जलं शैल-सरिन्-मरु-वनाश्रयम् ||54||

विस्तीर्णताति-वैषम्यं रस-धान्येध्म-सङ्ग्रहः |

प्रवेशश्चाप-सारश्च सप्तैता दुर्ग-सम्पदः ||55||

राजाह्दुर्गानुसन्धाने को नियुज्यताम्

चक्रवाको ब्रूते

यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् |

कर्मस्व् अदृष्ट-कर्मा यः शास्त्रज्ञोपि विमुह्यति ||56||

तदाहूयतां सारसः | तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच्भोः सारस ! त्वं सत्वरं दुर्गम् अनुसन्धेहि |

सारसः प्रणम्योवाच्देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः | किन्त्व् एतन्-मध्य-द्वीपे द्रव्य-सङ्ग्रहः क्रियताम् | यतः

धान्यानां सङ्ग्रहो राजन्न् उत्तमः सर्व-सङ्ग्रहात् |

निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण-धारणम् ||57||

किं च्

ख्यातः सर्व-रसानां हि लवणो रस उत्तमः |

गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते ||58||

राजाह्सत्वरं गत्वा सर्वम् अनुष्ठीयताम् |

पुनः प्रविश्य प्रतीहारो ब्रूतेदेव ! सिंहल-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते | स च देव-पादान् द्रष्टुम् इच्छति |

राजाह्काकः प्राज्ञो बहुदृश्वा च तद् भवति स सङ्ग्राह्यः |

चक्रवाको ब्रूतेदेव ! अस्त्य् एवं | किन्तु अस्मद्-विपक्षः काकः स्थलचरः | तेनास्मद्-विपक्ष-पक्षे नियुक्तः कथं सङ्गृह्यते तथा चोक्तम्

आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः |

स परैर्हन्यते मूढो नील-वर्ण-शृगालवत् ||59||

राजोवाच--कथम् एतत्

मन्त्री कथयति

कथा 7

अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः | पश्चात् तत उत्थातुम् असमर्थः, प्रातरात्मानं मृतवत् सन्दर्श्य स्थितः | अथ नीली-भाण्ड-स्वामिना मृति इति ज्ञात्वा, तस्मात् समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः | तस्मात् पलायितः |

ततोसौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिन्तयत्हम् इदानीम् उत्तम-वर्णः | तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तंहं भगवत्या वन-देवतया स्व-हस्तेनारण्य-राज्ये सर्वौषधि-रसेनाभिषिक्तः | पश्यन्तु मम वर्णम् | तद् अद्यारभ्यास्मद्-आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः |

शृगालाश्च तं विशिष्ट-वर्णम् अवलोक्य, साष्टाङ्ग-पातं प्रणम्योचुःयथाज्ञापयति देवः इति | अनेनैव क्रमेण सर्वेष्व् अरण्य-वासिष्व् आधिपत्यं तस्य बभूव | ततस्तेन स्वज्ञातिभिरावृतेनाधिक्यं साधितम् | ततस्तेन व्याघ्र-सिंहादीन् उत्तम-परिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः | ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्ध-शृगालेनैतत् प्रतिज्ञातंमा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः | स्व-समीपात् परिभूतास्तद् यथायं नश्यति तथा विधेयम् | यतोमी व्याघ्रादयो वर्ण-मात्र-विप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मन्यन्ते | तद् यथायं परिचीयते तथा कुरुत | तत्र चैवम् अनुष्ठेयम्, यथा वदामिसर्वे सन्ध्या-समये तत्-सन्निधाने महारावम् एकदैव करिष्यथ | ततस्तं शब्दम् आकर्ण्य जाति-स्वभावात् तेनापि शब्दः कर्तव्यः | यतः

यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः |

श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम् ||60||

ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः | ततस्तथानुष्ठिते सति तद् वृत्तम् | तथा चोक्तम्

छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः |

दहत्य् अन्तर्गतश्चैव शुष्कं वृक्षम् इवानलः ||61||

अतोहं ब्रवीमिात्म-पक्षं परित्यज्येत्य् आदि |

--ओ)0(ओ--

राजाह्यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः | तत्-सङ्ग्रहे विचारः कार्यः |

चक्रो ब्रूतेदेव ! प्रणिधिस्तावत् प्रहितो, दुर्गं च सज्जीकृतम् | अतः शुकोप्यानीय प्रस्थाप्यताम् | किन्तु योध-बल-समन्वितो भूत्वा, दूराद् एव तम् अवलोकय | यतः

नन्दं जघान चाणक्यस्तीक्ष्ण-दूत-प्रयोगतः |

तद् दूरान्तरितं दूतं पश्येद् वीर-समन्वितः ||62||

ततः सभां कृत्वाहूतः शुकः काकश्च | शुकः किंचिद् उन्नत-शिरा दत्तासने उपविश्य ब्रूतेभो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्-चित्रवर्णः समाज्ञापयतियदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्-चरणौ प्रणम | नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय |

राजा स-कोपम् आहाः, सभायाम् अस्माकं न कोपि विद्यते य एनं गलहस्तयति तत उत्थाय मेघवर्णो ब्रूतेदेव ! आज्ञापय, हमि चैनं दुष्ट-शुकम् |

सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूतेभद्र ! मा मैवम् | शृणु तावत्

न सा सभा यत्र न सन्ति वृद्धा

वृद्धा न ते ये न वदन्ति धर्मम् |

धर्मः स नो यत्र न सत्यम् अस्ति

सत्यं न तद् यच् छलम् अभ्युपैति ||63||

यतो राजधर्मश्चैषः

दूतो म्लेच्छोप्यवध्यः स्याद् राजा दूत-मुखो यतः |

उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ||64||

अन्यच्च

स्वापकर्षं परोत्कर्षं दूतोक्तैर्मन्यते तु कः |

सदैवावध्य-भावेन दूतः सर्वं हि जल्पति ||65||

ततो राजा काकश्च स्वां प्रकृतिम् आपन्नौ | शुकोप्य् उत्थाय चलितः | पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ | शुकोपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् |

तं विलोक्य राजोवाच्शुक ! का वार्ता कीदृशोसौ देशः

शुको ब्रूतेदेव ! संक्षेपाद् इयं वार्ता | सम्प्रति युद्धोद्योगः क्रियताम् | देशश्चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते | ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः | आह च तान्सम्प्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत | विग्रहः पुनरवश्यं कर्तव्यः | तथा चोक्तम्

असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः |

सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ||66||

दूरदर्शी नाम गृध्रो मन्त्री ब्रूतेदेव ! व्यसनितया विग्रहो न विधिः | यतः

मित्रामात्य-सुहृद्-वर्गा यदा स्युर्दृढ-भक्तयः |

शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा ||67||

अन्यच्च

भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् |

यदैतन् निश्चितं भावि कर्तव्यो विग्रहस्तदा ||68||

राजाह्मद्-बलं तावद् अवलोकयतु मन्त्री | तदैतेषाम् उपयोगो ज्ञायताम् | एवम् आहूयतां मौहूर्तिकः | स यात्रार्थं शुभ-लग्नं निर्णीय ददातु |

मन्त्री ब्रूतेदेव ! तथापि सहसा यात्रा-करणम् अनुचितम् | यतः

विशन्ति सहसा मूढा येविचार्य द्विषद्-बलम् |

खड्ग-धारा-परिष्वङ्गं लभन्ते ते सुनिश्चितम् ||69||

राजाह्मन्त्रिन् ! ममोत्साह-भङ्गं सर्वथा मा कृथाः | विजिगीषुर्यथा पर-भूमिम् आक्रमति तथा कथय |

गृध्रो ब्रूतेदेव ! तत् कथयामि | किन्तु तद्-अनुष्ठितम् एव फल-प्रदम् | तथा चोक्तम्

किं मन्त्रेणाननुष्ठाने शास्त्रवित् पृथिवी-पतेः |

न ह्य् औषध-परिज्ञानाद् व्याधेः शान्तिः क्वचिद् भवेत् ||70||

राजादेशश्चानतिक्रमणीय इति यथा-श्रुतं निवेदयामि शृणुदेव !

नद्य्-अद्रि-वन-दुर्गेषु यत्र यत्र भयं नृप |

तत्र तत्र च सेनानीर्यायाद् व्यूहीकृतैर्बलैः ||71||

बलाध्यक्षः पुरो यायात् प्रवीर-पुरुषान्वितः |

मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ||72||

पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः |

रथानां पार्श्वतो नागा नागानां च पदातयः ||73||

पश्चात् सेनापतिर्यायात् खिन्नानाश्वासयन् छनैः |

मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः ||74||

समेयाद् विषमं नागैर्जलाढ्यं समहीधरम् |

समम् अश्वैर्जलं नीमिः सर्वत्रैव पदातिभिः ||75||

हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे |

तद् अन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ||76||

शैलेषु दुर्ग-मार्गेषु विधेयं नृप-रक्षणम् |

स्व-योधै रक्षितस्यापि शयनं योग-निद्रया ||77||

नाशयेत् कर्षयेच् छत्रून् दुर्ग-कण्टक-मर्दनैः |

पर-देश-प्रवेशे च कुर्याद् आटविकान् पुरः ||78||

यत्र राजा तत्र कोशो विना कोशं न राजता |

सुभटेभ्यस्ततो दद्यात् को हि दातुर्न युध्यते ||79||

यतः

न नरस्य नरो दासो दासस्त्व् अर्थस्य भूपते |

गौरवं लाघवं वापि धनाधन-निबन्धनम् ||80||

अभेदेन च युध्येत रक्षेच् चैव परस्परम् |

फल्गु सैन्यं च यत् किंचिन्मध्ये व्यूहस्य कारयेत् ||81||

पदातींश्च महीपालः पुरोनीकस्य योजयेत् |

उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ||82||

स्यन्दनाश्वैः समे युध्येद् अनूपे नौ-द्विपैस्तथा |

वृक्ष-गुल्मावृते चापैरसि-चर्मायुधैः स्थले ||83||

दूषयेच् चास्य सततं यवसान् नोदकेन्धनम् |

भिन्द्याच् चैव तडागानि प्रकारारान् परिखास्तथा ||84||

बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः |

निजैरवयवैरेव मातङ्गोष्टायुधः स्मृतः ||85||

बलम् अश्वश्च सैन्यानां प्राकारो जङ्गमो यतः |

तस्माद् अश्वाधिको राजा विजयी स्थल-विग्रहे ||86||

तथा चोक्तम्

युध्यमाना हयारूढा देवानाम् अपि दुर्जयाः |

अपि दूरस्थितास्तेषां वैरिणो हस्तवत्तिनः ||87||

प्रथमं युद्ध-कारित्वं समस्त-बल-पालनम् |

दिङ्-मार्गाणां विशोधित्वं पत्ति-कर्म प्रचक्षते ||88||

स्वभाव-शूरम् अस्त्रज्ञम् अविरक्तं जित-श्रमम् |

प्रसिद्ध-क्षत्रिय-प्रायं बलं श्रेष्ठतमं विदुः ||89||

यथा प्रभु-कृतान् मानाद् युध्यन्ते भुवि मानवाः |

न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते ||90||

वरम् अल्प-बलं सारं न कुर्यान् मुण्ड-मण्डलीम् |

कुर्याद् असार-भङ्गो हि सार-भङ्गम् अपि स्फुटम् ||91||

अप्रसादोनधिष्ठानं देयांश-हरणं च यत् |

काल-यापोप्रतीकारस्तद् वैराग्यस्य कारणम् ||92||

अपीडयन् बलं शत्रूञ् जिगीषुरभिषेणयेत् |

सुख-साध्यं द्विषां सैन्यं दीर्घ-प्रयाण-पीडितम् ||93||

दायादाद् अपरो यस्मान् नास्ति भेद-करो द्विषाम् |

तस्माद् उत्थापयेद् यत्नाद् दायादं तस्य विद्विषः ||94||

सन्धाय युवराजेन यदि वा मुख्य-मन्त्रिणा |

अन्तः-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः ||95||

क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् |

अथवा गो-ग्रहाकृष्ट्या तन्-मुख्याश्रित-बन्धनात् ||96||

स्वराज्यं वासयेद् राजा पर-देशापहरणात् |

अथवा दान-मानाभ्यां वासितं धनदं हि तत् ||97||

अथवा बहुनोदितेन्

आत्मोदयः पर-ग्लानिर्द्वयं नीतिरितीयती |

तद् ऊरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ||98||

राज्ञा विहस्योक्तम्सर्वम् एतद् विशेषतश्चोच्यते | किन्तु,

अन्यद् उच्छृङ्खलं सत्त्वम् अन्यच् छास्त्र-नियन्त्रितम् |

सामानाधिकरण्यं हि तेजस्-तिमिरयोः कुतः ||99||

तत उत्थाय राजा मौहूर्तिकावेदित-लग्ने प्रस्थितः | अथ प्रहित-प्रणिधिश्चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच्देव ! समागत-प्रायो राजा चित्रवर्णः | सम्प्रति मलय-पर्वताधित्यकायां समावासित-कटको वर्तते | दुर्ग-शोधनं प्रतिक्षणम् अनुसन्धातव्यम् | यतोसौ गृध्रो महामन्त्री | किं च केनचित् सह तस्य विश्वास-कथा-प्रसङ्गेनेतद् इङ्गितम् अवगतं मया | यत्नेन कोप्यस्मद्-दुर्गे प्राग् एव नियुक्तः |

चक्रवाको ब्रूतेदेव ! काक एवासौ सम्भवति |

राजाह्न कदाचिद् एतत् | यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः | स च चिराद् अत्रास्ते |

मन्त्री ब्रूतेतथाप्यागन्तुकः शङ्कनीयः |

राजाहागन्तुका अपि कदाचिद् उपकारका दृश्यन्ते | शृणु

परोपि हितवान् बन्धुर्बन्धुरप्यहितः परः |

अहितो देहजो व्याधिर्हितम् आरण्यम् औषधम् ||100||

अपरं च्

आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः |

सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः ||101||

चक्रवाकः पृच्छति--कथम् एतत्

राजा कथयति

कथा 8

अहं पुरा शूद्रकस्य राज्ञः क्रीडा-सरसि कर्पूरकेलि-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् | वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज-द्वारम् उपगम्य प्रतीहारम् उवाचहं तावद् वर्तनार्थी राजपुत्रः | मां रज-दर्शनं कारय | ततस्तेनासौ राज-दर्शनं कारितो ब्रूतेदेव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्-वर्तनं क्रियताम् |

शूद्रक उवाच्किं ते वर्तनम्

वीरवरो ब्रूतेप्रत्यहं सुवर्ण-पञ्च-शतानि देहि |

राजाह्का ते सामग्री

वीरवरो ब्रूतेद्वौ बाहू | तृतीयश्च खड्गः |

राजाह्नैतच् छक्यम् |

तच् छ्रुत्वा वीरवरः प्रणम्य चलितः | अथ मन्त्रिभिरुक्तम्देव ! दिन-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् | किम् उपयुक्तोयम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति |

ततो मन्त्रि-वचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्च-शतानि सुवर्णानि दत्तानि | वर्तन-विनियोगश्च राज्ञा सुनिभृतं निरूपितः | तद्-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् | स्थितस्यार्धं दुःखितेभ्यः | तद् अवशिष्टं भोज्य-विलास-व्ययेन | एतत् सर्वं नित्य-कृत्यं कृत्वा, राज-द्वारम् अहर्निशं खड्ग-पाणिः सेवते | यदा च राजा स्वयं समादिशति तदा स्व-गृहम् अपि याति |

अथैकदा कृष्ण-चतुर्दश्यां रात्रौ स राजा स-करुण-क्रन्दन-ध्वनिं शुश्राव | तत् श्रुत्वा राजा ब्रूतेकः कोत्र द्वारि तिष्ठति

तदा तेनोक्तंदेव ! अहं वीरवरः |

राजोवाच्क्रन्दनानुसरणं क्रियताम् |

वीरवरोपियथाज्ञापयति देवः, इत्य् उक्त्वा चलितः |

राज्ञा च चिन्तितम्यम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः | नैतद् उचितम् | तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि |

ततो राजापि खड्गम् आदाय तद्-अनुसरण-क्रमेण नगराद् बहिर्निर्जगाम | गत्वा च वीरवरेण रुदती रुप-यौवन-सम्पन्ना सर्वालङ्कार-भूषिता काचित् स्त्री दृष्टा, पृष्टा च्का त्वम् किम् अर्थं रोदिषि इति |

स्त्रियोक्तम्हम् एतस्य शूद्रकस्य राज-लक्ष्मीः | चिराद् एतस्य भुज-च्छायायां महता सुखेन विश्रान्ता | इदानीम् अन्यत्र गमिष्यामि |

वीरवरो ब्रूतेयतापायः सम्भवति, तत्रोपायोप्यस्ति | तत् कथं स्यात् पुनरिहावासो भवत्याः

लक्ष्मीरुवाच्यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्-लक्षणोपेतं भगवत्याः सर्व-मङ्गलाया उपहारीकरोषि, तदाहं पुनरत्र सुचिरं निवसामि | इत्य् उक्त्वादृश्याभवत् |

ततो वीरवरेण स्व-गृहं गत्वा निद्रायमाणा स्व-वधूः प्रबोधिता पुत्रश्च | तौ निद्रां परित्यज्योत्थायोपविष्टौ | वीरवरस्तत् सर्वं लक्ष्मी-वचनम् उक्तवान् | तच् छ्रुत्वा सानन्दः शक्तिधरो ब्रूतेधन्योहम् एवम्भूतः | स्वामि-राज्य-रक्षार्थं यस्योपयोगः | तात ! तत् कोधुना विलम्बस्य हेतुः एवं-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः | यतः

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् |

तन्-निमित्तो वरं त्यागो विनाशे नियते सति ||102||

शक्तिधर-मातोवाच्यद्य् एतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति | इत्य् आलोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः | तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूतेदेवि ! प्रसीद | विजयतां शूद्रको महाराजः | गृह्यताम् अयम् उपहारः | इत्य् उक्त्वा पुत्रस्य शिरश्चिच्छेद | ततो वीरवरश्चिन्तयामास्गृहीत-राज-वर्तनस्य निस्तारः कृतः | अधुना निष्पुत्रस्य मे जीवनेनालम् | इत्य् आलोच्यात्मनः शिरश्चिच्छेद |

ततः स्त्रियापि स्वामि-पुत्र-शोकार्तया तद् अनुष्ठितम् | तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास--

जायन्ते च म्रियन्ते च मद्-विधाः क्षुद्र-जन्तवः |

अनेन सदृशो लोके न भूतो न भविष्यति ||103||

तद् एतत्-परित्यक्तेन मम राज्येनापि किं प्रयोजनम् | ततः शूद्रकेणापि स्व-शिरश्छेत्तुं खड्गः समुत्थापितः | अथ भगवत्या सर्वमङ्गलया प्रत्यक्ष-भूतया राजा हस्ते

धृतः | उक्तं च्पुत्र ! प्रसन्नोस्मि ते, एतावता साहसेनालम् | जीवनान्तेपि तव राज-भङ्गो नास्ति |

राजा च साष्टाङ्ग-पातं प्रणम्योवाच्देवि ! किं मे राज्येन जीवितेन वा मम किं प्रयोजनम् यद्य् अहम् अनुकम्पनीयस्तदा ममायुः-शेषेणाप्ययं स-दार-पुत्रो वीरवरो जीवतु | अन्यथाहं यथा-प्राप्तां गतिं गच्छामि |

भगवत्य् उवाच्पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्य-वात्सल्येन च सर्वथा सन्तुष्टास्मि | गच्छ विजयी भव | अयम् अपि स-परिवारो राज-पुत्रो जीवतु | इत्य् उक्त्वा देव्य् अदृश्याभवत् | ततो वीरवरः स-पुत्र-दारः प्राप्त-जीवनः स्व-गृहं गतः | राजापि तैरलक्षितः सत्वरम् अन्तः-पुरं प्रविष्टः |

अथ प्रभाते वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्न् आह्देव ! सा रुदती माम् अवलोक्यादृश्याभवत् | न काप्यन्या वार्ता विद्यते |

तद् वचनम् आकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास्कथम् अयं श्लाघ्यो महा-सत्त्वः यतः

प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः |

दाता नापात्र-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः ||104||

एतन्महापुरुष-लक्षणम् एतस्मिन् सर्वम् अस्ति | ततः स राजा प्रातः शिष्ट-सभां कृत्वा, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक-राज्यं ददौ | तत् किम् आगन्तुको जाति-मात्राद् दुष्टः तत्राप्य् उत्तमाधम-मध्यमाः सन्ति |

चक्रवाको ब्रूते

योकार्यं कार्यवच् छास्ति स किं मन्त्री नृपेच्छया |

वरं स्वामि-मनो-दुःखं तन्-नाशो न त्व् अकार्यतः ||105||

वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदाः |

शरीर-धर्म-कोशेभ्यः क्षिप्रं स परिहीयते ||106||

शृणु देव !

पुण्याल् लब्धं यद् एकेन तन्ममापि भविष्यति |

हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः ||107||

राजा पृच्छति--कथम् एतत्

मन्त्री कथयति

कथा 9

अस्त्य् अयोध्यायां पुरि चूडामणिर्नाम क्षत्रियः | तेन धनार्थिना महता क्लेशेन भगवांश्चन्द्रार्ध-चूडामणिश्चिरम् आराधितः | ततः क्षीण-पापोसौ स्वप्ने दर्शनं दत्त्वा, भगवद्-आदेशाद्य्-अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड-

हस्तः सन् स्व-गृह-द्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुड-प्रहारेण हनिष्यसि | ततोसौ भिक्षुकस्तत्-क्षणात् सुवर्ण-कलसो भविष्यति | तेन त्वया यावज्-जीवं सुखिना भवितव्यम् | ततस्तथानुष्ठिते तद् वृत्तम् |

तत्र क्षौर-करणायानीतेन नापितेन तत् सर्वम् आलोक्य चिन्तितम्ये निधि-प्राप्तेरयम् उपायः | तद् अहम् अप्य् एवं किं न करोमि ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड-हस्तः सुनिभृतं भिक्षोरागमनं प्रतीक्षते | एकदा तेन प्राप्तो भिक्षुर्लगुडेन व्यापादितः | तस्माद् अपराधात् सोपि नापितो राज-पुरुषैर्व्यापादितः | अतोहं ब्रवीमिपुण्याल् लब्धं यद् एकेन इत्य् आदि |

--ओ)0(ओ--

राजाह्

पुरावृत्त-कथोद्गारैः कथं निर्णीयते परः |

स्यान् निष्कारण-बन्धुर्वा किं वा विश्वास-घातकः ||108||

यातु, प्रस्तुतम् अनुसन्धीयताम् | मलयाधित्यकायां चेच् चित्रवर्णस्तद् अधुना किं विधेयम् मन्त्री वदतिदेव ! आगत-प्रणिधि-मुखान्मया श्रुतं, यत् महा-मन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततोसौ मूढो जेतुं शक्यः | तथा चोक्तम्

लुब्धः क्रूरोलसोसत्यः प्रमादी भीरुरस्थिरः |

मूढो योधावमन्ता च सुख-च्छेद्यो रिपुः स्मृतः ||109||

ततोसौ यावद् अस्मद् दुर्ग-द्वार-रोधं न करोति, तावन् नद्य्-अद्रि-वन-वर्त्मसु तद्-बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् | तथा चोक्तम्

दीर्घ-वर्त्म-परिश्रान्तं नद्य्-अद्रि-वन-सङ्कुलम् |

घोराग्नि-भय-सन्त्रस्तं क्षुत्-पिपासार्दितं तथा ||110||

प्रमत्तं भोजन-व्यग्रं व्याधि-दुर्भिक्ष-पीडितम् |

असंस्थितम् अभूयिष्ठं वृष्टि-वात-समाकुलम् ||111||

पङ्क-पांशु-जलाच्छन्नं सुव्यस्तं दस्यु-विद्रुतम् |

एवम्भूतं महीपालः पर-सैन्यं विघातयेत् ||112||

अन्यच्च

अवस्कन्द-भयाद् राजा प्रजागर-कृत-श्रमम् |

दिवा-सुप्तं सदा हन्यान् निद्रा-व्याकुल-सैनिकम् ||113||

अतस्तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा-निशं घ्नन्त्व् अस्मत्-सेनापतयः | तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश्च बहवो निहताः | ततश्चित्रवर्णो विषण्णः स्व-मन्त्रिणं दूर-दर्शिनम् आह्तात ! किम् इत्य् अस्मद्-उपेक्षा क्रियते किं क्वाप्यविनयो ममास्ति तथा चोक्तम्

न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असाम्प्रतम् |

श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम् ||114||

अपि च्

दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी |

उद्युक्तो वियान्तं धर्मार्थ-यशांसि च विनीतः ||115||

गृध्रोवदत्देव ! शृणु

अविद्वान् अपि भू-पालो विद्या-वृद्धोपसेवया |

परां श्रियम् अवाप्नोति जलासन्न-तरुर्यथा ||116||

अन्यच्च

पापं स्त्री मृगया द्यूतम् अर्थ-दूषणम् एव च |

वाग्-दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ||117||

किं च्

न साहसैकान्त-रसानुवर्तिना

न चाप्य् उपायोपहतान्तरात्मना |

विभूतयः शक्यम् अवाप्तुम् ऊर्जिता

नये च शौर्ये च वसन्ति सम्पदः ||118||

त्वया स्व-बलोत्साहम् अवलोक्य, साहसैक-रसिकेन मयोपन्थस्तेष्व् अपि मन्त्रेष्व् अनवधानं, वाक्-पारुष्यं च कृतम् | अतो दुर्नीतेः फलम् इदम् अनुभूयते | तथा चोक्तम्

दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः

सन्तापयन्ति कम् अपथ्य-भुजं न रोगाः

कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः

कं स्त्री-कृता न विषयाः परितापयन्ति ||119||

अपरं च्

मुदं विषादः शरदं हिमागमस्

तमो विवस्वान् सुकृतं कृतघ्नता |

प्रियोपपत्तिः शुचम् आपदं नयः

श्रियः समृद्धा अपि हन्ति दुर्नयः ||120||

ततो मयाप्यालोचितम्प्रज्ञा-हीनोयं राजा | न चेत् कथं नीति-शास्त्र-कथा-कौमुदीं वाग्-उल्काभिस्तिमिरयति | यतः

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्

लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ||121||

इत्य् आलोच्याहम् अपि तूष्णीं स्थितः | अथ राजा बद्धाञ्जलिराह्तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्ट-बल-सहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश |

गृध्रः स्वगतं चिन्तयतिक्रियताम् अत्र प्रतीकारः | यतः,

देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च |

नियन्तव्यः सदा कोपो बाल-वृद्धातुरेषु च ||122||

मन्त्री प्रहस्य ब्रूतेदेव मा भैषीः | समाश्वसिहि | शृणु देव्

मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके |

कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ||123||

अपरं च्

आरम्भन्तेल्पम् एवाज्ञाः कामं व्यग्रा भवन्ति च |

महारम्भाः कृत-धियस्तिष्ठन्ति च निराकुलाः ||124||

तद् अत्र भवत्-प्रतापाद् एव दुर्गं भङ्क्त्वा, कीर्ति-प्रताप-सहितं त्वाम् अचिरेण कालेन विन्ध्याचलं नेष्यामि |

राजाह्कथम् अधुना स्वल्प-बलेन तत् सम्पद्यते

गृध्रो वदतिदेव ! सर्वं भविष्यति | यतो विजिगीषोरदीर्घ-सूत्रता विजय-सिद्धेरवश्यम्भावि लक्षणम् | तत् सहसैव दुर्ग-द्वारावरोधः क्रियताम् |

अथ प्रहित-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्देव ! स्वल्प-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्ग-द्वारावरोधं करिष्यति |

राजहंसो ब्रूतेस्व-बले सारासार-विचारः क्रियताम् | तज् ज्ञात्वा सुवर्ण-वस्त्रादिकं यथार्हं प्रसाद-प्रदानं च क्रियताम् | यतः

यः काकिणीम् अप्यपथ-प्रपन्नां

समुद्धरेन् निष्क-सहस्र-तुल्याम् |

कालेषु कोटिष्व् अपि मुक्त-हस्तस्

तं राज-सिंहं न जहाति लक्ष्मीः ||125||

अन्यच्च

क्रतौ विवाहे व्यसने रिपु-क्षये

यशस्करे कर्मणि मित्र-सङ्ग्रहे |

प्रियासु नारीष्व् अधनेषु बान्धवेष्व्

अतिव्ययो नास्ति नराधिपाष्टसु ||126||

यतः

मूर्खः स्वल्प-व्यय-त्रासात् सर्वनाशं करोति हि |

कः सुधीः सन्त्यजेद् भाण्डं शुक्लस्यैवातिसाध्वसात् ||127||

राजाह्कथम् इह समयेतिव्ययो युज्यते उक्तं चापद्-अर्थे धनं रक्षेद् इति |

मन्त्री ब्रूतेश्रीमतां कथम् आपदः

राजाह्कदाचिच् चलिता लक्ष्मीः |

मन्त्री ब्रूतेसञ्चितापि विनश्यति | तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियन्ताम् | तथा चोक्तम्

परस्परज्ञाः संहृष्टास्त्यक्तुं प्राणान् सुनिश्चिताः |

कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्-बलम् ||128||

अपरं च्

सुभटाः शील-सम्पन्नाः संहताः कृत-निश्चयाः |

अपि पञ्च-शतं शूरा निघ्नन्ति रिपु-वाहिनीम् ||129||

किं च्

शिष्टैरप्यवशेषज्ञ उग्रश्च कृत-नाशकः |

त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मम्भरिर्नरः ||130||

यतः

सत्यं शौर्यं दया त्यागो नृपस्यैते महा-गुणाः |

एतैस्त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ||131||

ईदृशि प्रस्तावेमात्यास्तावद् अवश्यम् एव पुरस्कर्तव्याः | तथा चोक्तम्

यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी |

स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ||132||

यतः

धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः |

अनीति-पवन-क्षिप्तोकार्याब्धौ स निमज्जति ||133||

शृणु देव! 

हर्ष-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस्तथा |

नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा ||134||

येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम् |

अमात्या इति तान् राजा नावमन्येत् कदाचन ||135||

महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः |

स्खलतो हि करालम्बः सुशिष्टैरेव कीयते ||136||

अथागत्य प्रणम्य मेघवर्णो ब्रूतेदेव ! दृष्टि-प्रसादं कुरु | इदानीं विपक्षो दुर्ग-द्वारि वर्तते | तद् देव-पादादेशाद् बहिर्निःसृत्य स्व-विक्रमं दर्शयामि | तेन देव-पादानाम् आनृण्यम् उपगच्छामि |

चक्रवाको ब्रूतेमैवम् | यदि बहिर्निःसृत्य योद्धव्यम् | तदा दुर्गाश्रयणम् एव निष्प्रयोजनम् | अपरं च्

विषमोपि यथा नक्रः सलिलान् निसृतो वशः |

वनाद् विनिर्गतः शूरः सिंहोपि स्याच् छगालवत् ||137||

अथ ते सर्वे दुर्ग-द्वारं गत्वा महाहवं कृतवन्तः | अपरेद्युश्चित्रवर्णो राजा गृध्रम् उवाच्तात ! स्व-प्रतिज्ञातम् अधुना निर्वाहय |

वायसो ब्रूतेदेव ! स्वयं गत्वा दृश्यतां युद्धम् | यतः

पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् |

स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ||138||

गृध्रो ब्रूतेदेव ! शृणु तावत्

अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् |

अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते ||139||

तत् तावद् अत्र नास्ति

उपजापश्चिरारोधोवस्कन्दस्तीव्र-पौरुषम् |

दुर्गस्य लङ्घनोपायाश्चत्वारः कथिता इमे ||140||

अत्र यथाशक्ति क्रियते यत्नः | कर्णे कथयति एवम् एवम् | ततोनुदित एव भास्करे चतुर्ष्व् अपि दुर्ग-द्वारेषु प्रवृत्ते युद्धे, दुर्गाभ्यन्तर-गृहेष्व् एकदा काकैरग्नि-निक्षिप्तः | ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राज-हंस-सैनिका बहवो दुर्ग-वासिनश्च सत्वरं ह्रदं प्रविष्टाः, यतः

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् |

कार्य-काले यथा-शक्ति कुर्यान् न तु विचारयेत् ||141||

राजा हंसश्च स्वभावान्मन्द-गतिः | सारस-द्वितीयश्चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः | हिरण्यगर्भः सारसम् आह्सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि | अधुनाहं गन्तुम् असमर्थः | त्वं गन्तुम् अधुनापि समर्थः | तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष | अस्मत्-पुत्रं चूडामणि-नामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि |

सारसो ब्रूतेदेव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चन्द्रार्कौ दिवि तिष्ठतस्तावद् विजयतां देवः | अहं देव दुर्गाधिकारी | तन्मम मांसासृग् विलिप्तेन द्वार-वर्त्मना तावत् प्रविशतु शत्रुः | अपरं च, देव--

दाता क्षमी गुण-ग्राही स्वामी दुःखेन लभ्यते |

राजाह्सत्यम् एवैतत् | किन्तु

शुचिर्दक्षोनुरक्तश्च जाने भृत्योपि दुर्लभः ||142||

सारसो ब्रूतेशृणु देव!

यदि समरम् अपास्य नास्ति मृत्योर्

भयम् इति युक्तम् इतोन्यतः प्रयातुम् |

अथ मरणम् अवश्यम् एव जन्तोः

किम् इति मुधा मलिनं यशः क्रियते ||143||

अन्यच्च

भवेस्मिन् पवनोद्भ्रान्त-वीचि-विभ्रम-भङ्गुरे |

जायते पुणय्-योगेन परार्थे जीवित-व्ययः ||144||

स्वाम्य्-अमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् |

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोपि च ||145||

देव ! त्वं च स्वामी सर्वथा रक्षणीयः | यतः

प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति |

अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि |146||

अपरं च्

नरेशे जीव-लोकोयं निमीलति निमीलति |

उदेत्य् उदीयमाने च रवाव् इव सरोरुहम् ||147||

अत्रापि प्रधानाङ्गं राजा |

अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर-नखाघातः कृतः | तदा सत्वरम् उपसृत्य सारसेन स्व-देहान्तरितो राजा जले क्षिप्तः |

अथ कुक्कुट-नख-प्रहार-जर्जरीकृतेनापि सारसेन कुक्कुट-सेना बहुशो हता | पश्चात् सारसोपि बहुभिः पक्षिभिः समेत्य चञ्चु-प्रहारेण विभिद्य व्यापादितः | अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर्जय-शब्दैरानन्दितः स्व-स्कन्धावारं जगाम |

अथ राज-पुत्रैरुक्तंतस्मिन् राजहंस-पक्षे पुण्यवान् स सारस एव, येन स्व-देह-त्यागेन स्वामी रक्षितः | यतः

जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् |

विषाणोल्लिखित-स्कन्धं काचिद् एव गवां पतिम् ||148||

विष्णुशर्मोवाच्स तावत् सत्त्व-क्रीतान् अक्षय-लोकान् विद्याधरी-परिवृत्तोनुभवतु महा-सत्त्वः | तथा चोक्तम्

आहवेषु च ये शूराः स्वाम्य्-अर्थे त्यक्त-जीविताः |

भर्तृ-भक्ताः कृतज्ञाश्च ते नराः स्वर्ग-गामिनः ||149||

यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः |

अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ||150||

अथ विष्णुशर्मा प्राह्विग्रहः श्रुतो भवद्भिः |

राजपुत्रैरुक्तम्श्रुत्वा सुखिनो भूता वयम् |

विष्णुशर्माब्रवीत्परम् अप्य् एवम् अस्तु

विग्रहः करि-तुरङ्ग-पत्तिभिर्

नो कदापि भवतान्महीभुजाम् |

नीति-मन्त्र-पवनैः समाहताः

संश्रयन्तु गिरि-गह्वरं द्विषः ||151||

इति श्री-नारायण-पण्डित-कृते हितोपदेशे नीति-शास्त्रे

विग्रहो नाम तृतीयः कथा-सङ्ग्रहः |

--ओ)0(ओ--

इव्.

सन्धिः

पुनः कथारम्भ-काले राज-पुत्रैरुक्तमार्य ! विग्रहः श्रुतोस्माभिः | सन्धिरधुनाभिधीयताम् |

विष्णुशर्मेणोक्तम्श्रूयताम् | सन्धिम् अपि कथयामि | यस्यायम् आद्यः श्लोकः

वृत्ते महति सङ्ग्रामे राज्ञोर्निहत-सेनयोः |

स्थेयाभ्यां गृध्र-चक्राभ्यां वाचा सन्धिः कृतं क्षणत् ||1||

राजपुत्रा ऊचुःकथम् एतत्

विष्णुशर्मा कथयतिततस्तेन राजहंसेन उक्तम्केनास्मद्-दुर्गे निक्षिप्तोग्निः किं पारक्येण किं वास्मद्-दुर्ग-वासिना केनापि विपक्ष-प्रयुक्तेन

चक्रवाको ब्रूतेदेव ! भवतो निष्कारण-बन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते | तन्मन्ये तस्यैव विचेष्टितम् इदम् |

राजा क्षणं विचिन्त्याहस्ति तावद् एवम् | मम दुर्दैवम् एतत् | तथा चोक्तम्

अपराधः स दैवस्य न पुनर्मन्त्रिणाम् अयम् |

कार्यं सुचरितं क्वापि दैव-योगाद् विनश्यति ||2||

विषमां हि दशां प्राप्य दैवं गर्हयते नरः |

आत्मनः कर्म-दोषांश्च नैव जानात्य् अपण्डितः ||3||

अपरं च्

सुहृदां हित-कामानां यो वाक्यं नाभिनन्दति |

स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ||4||

अन्यच्च

रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् |

हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ||5||

राहाह्कथम् एतत्

मन्त्री कथयति

कथा 1

अस्ति मगध-देशे फुल्लोत्पलाभिधानं सरः | तत्र चिरं सङ्कट-विकट-नामानौ हंसौ निवसतः | तयोर्मित्रं कम्बुग्रीव-नामा कूर्मश्च प्रतिवसति | अथैकदा धीवरैरागत्य तथोक्तं यत्त्रास्माभिरद्योषित्वा प्रातर्मत्स्य-कूर्मादयो व्यापादयितव्याः |

तद् आकर्ण्य कूर्मो हंसाव् आह्सुहृदौ ! श्रुतोयं धीवरालापः | अधुना किं मया कर्तव्यम्

हंसाव् आहतुःज्ञायतां तावत् | पुनस्तावत् प्रातर्यद् उचितं तत् कर्तव्यम् |

कूर्मो ब्रूतेमैवम् | यतो दृष्ट-व्यतिकरोहम् अत्र | यथा चोक्तम्

अनागत-विधाता च प्रत्युत्पन्न-मतिस्तथा |

द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति ||6||

ताव् ऊचतुःकथम् एतत्

कूर्मः कथयति

कथा 2

पुरास्मिन्न् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्य-त्रयेणालोचितम् | तत्रानागत-विधाता नामैको मत्स्यः | तेनोक्तंहं तावज्-जलाशयान्तरं गच्छामि | इत्य् उक्त्वा स ह्रदान्तरं गतः | अपरेण प्रत्युत्पन्नमति-नाम्ना मस्त्येनाभिहितम्भविष्यद्-अर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् तद् उत्पन्ने यथा-कार्यं तद् अनुष्ठेयम् | तथा चोक्तम्

उत्पन्नाम् आपदं यस्तु समाधत्ते स बुद्धिमान् |

वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ||7||

यद्भविष्यः पृच्छतिकथम् एतत्

प्रत्युत्पन्नमतिः कथयति

कथा 3

पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति | तस्य रत्नप्रभा नाम गृहिणी स्व-सेवकेन सह सदा रमते | यतः

न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते |

गावस्तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ||8||

अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता | ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह्नाथ ! एतस्य सेवकस्य महती निकृतिः | यतोयं चौरिकां कृत्वा कर्पूरं खादतीति | मयास्य मुखम् आघ्राय ज्ञातम् | तथा चोक्तम्

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्-गुणा |

षड्-गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ||9||

तच् छ्रुत्वा सेवकेनापि प्रकुप्योक्तंनाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति | ततोसाव् उत्थाय चलितः | साधुना च यत्नात् प्रबोध्य धृतः | अतोहं ब्रवीमिुत्पन्नाम् आपदम् इत्य् आदि |

--ओ)0(ओ--

ततो यद्भविष्येणोक्तम्

यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा |

इति चिन्ता-विष-घ्नोयम् अगदः किं न पीयते ||10||

ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्मृतवद् आत्मानं सन्दर्श्य स्थितः | ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः | यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः | अतोहं ब्रवीमिनागत-विधाता च इत्य् आदि | तद् यथाहम् अन्यं ह्रदं प्राप्नोमि तथा क्रियताम् |

हंसाव् आहतुःजलाशयान्तरे प्राप्ते तव कुशलम् | स्थले गच्छतस्ते को विधिः

कूर्म आह्यथाहं भवद्भ्यां सहाकाश-वर्त्मना यामि, तथा विधीयताम् |

हंसाव् ब्रूतःकथम् उपायः सम्भवति

कच्छपो वदतियुवाभ्यां चञ्चु-धृतं काष्ठ-खण्डम् एकं मया मुखेनावलम्बितव्यम् | ततश्च युवयोः पक्ष-बलेन मयापि सुखेन गन्तव्यम् |

हंसौ ब्रूतःसम्भवत्य् एष उपायः | किन्तु

उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् |

पश्यतो बक-मूर्खस्य नकुलैर्भक्षिताः सुताः ||11||

कूर्मः पृच्छति--कथम् एतत्

तौ कथयतः

कथा 4

अस्त्य् उत्तरा-पथे गृध्रकूट-नाम्नि पर्वते महान् पिप्पल-वृक्षः | तत्रानेके बका निवसन्ति | तस्य वृक्षस्याधस्ताद् विवरे सर्पस्तिष्ठति | स च बकानां बालापत्यानि खादति | अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्ध-बकेनाभिहितंभो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुल-विवराद् आरभ्य सर्प-विवरं यावत्-पङ्क्ति-क्रमेण एकैकशो विकिरत | ततस्तद्-आहार-लुब्धैर्नकुलैरागत्य सर्पो द्रष्टव्यः | स्वभाव-द्वेषाद् व्यापदयितव्यश्च | तथानुष्ठिते सति तद् वृत्तम् |

अथ नकुलैर्वृक्षोपरि बक-शावकानां रावः श्रुतः | पश्चात् तद्-वृक्षम् आरुह्य बक-शावकाः खादिताः | अत आवां ब्रूवःुपायं चिन्तयन् इत्य् आदि |

आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव | यदि त्वम् उत्तरं दास्यसि, तदा त्वन्-मरणम् | तत् सर्वथैव स्थीयताम् |

कूर्मो वदतिकिम् अहम् अप्राज्ञः नाहम् उत्तरं दास्यामि | न किम् अपि मया वक्तव्यम् | तथानुष्ठिते तथा-विधं कूर्मम् आलोक्य सर्वे गो-रक्षकाः पश्चाद् धावन्ति, वदन्ति चहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते |

कश्चिद् वदतियद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः |

कश्चिद् वदतिसरसस्तीरे दग्ध्वा खादितव्योयम् |

कश्चिद् वदतिगृहं नीत्वा भक्षणीयः | इति |

तद्-वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृत-पूर्व-संस्कारः प्राह्युष्माभिर्भस्म भक्षितव्यम् इति वदन्न् एव पतितस्तैर्व्यापादितश्च | अतोहं ब्रवीमिसुहृदां हित-कामानाम् इत्य् आदि |

अथ प्रणिधिर्बकस्तत्रागत्योवाच्देव ! प्राग् एव मया निगदितं दुर्ग-शोध हि प्रतिक्षणं कर्तव्यम् इति | तच् च युष्माभिर्न कृतं, तद्-अनवधानस्य फलम् इदम् अनुभूतम् | दुर्ग-दाहो मेघवर्णेन वायसेन गृध्र-प्रत्युक्तेन कृतः | राजा निःश्वस्याह्

प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु |

स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ||12||

अथ प्रणिधिरुवाचितो दुर्गदाहं विधाय, यदा यतो मेघवर्णस्तदा चित्रवर्णेन प्रसादितेनोक्तम्यं मेघवर्णोत्र कर्पूर-द्वीप-राज्येभिषिच्यताम् | तथा चोक्तम्

कृत-कृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् |

फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ||13||

चक्रवाको ब्रूतेदेव ! श्रुतं यत् प्रणिधिः कथयति

राजा प्राह--ततस्ततः

प्रणिधिरुवाच्ततः प्रधान-मन्त्रिणा गृध्रेणाभिहितम्देव ! नेदम् उचितम् | प्रसादान्तरं किम् अपि क्रियताम् | यतः

अविचारयतो युक्ति-कथनं तुष-खण्डनम् |

नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ||14||

महताम् आस्पदे नीचः कदापि न कर्तव्यः | तथा चोक्तम्

नीचः श्लाघ्य-पदं प्राप्य स्वामिनं हन्तुम् इच्छति |

मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ||15||

चित्रवर्णः पृच्छति--कथम् एतत्

मन्त्री कथयति

कथा 5

अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः | तत्र तेन आश्रम-संनिधाने मूषिक-शावकः काक-मुखाद् भ्रष्टो दृष्टः | ततो दया-युक्तेन तेन मुनिआ नीवार-कणैः संवर्धितः | ततो बिडालस्तं मूषिकं खादितुम् उपधावति | तम् अवलोक्य मूषिकस्तस्य मुनेः क्रोडे प्रविवेश | ततो मुनिनोक्तम्मूषिक ! त्वं मार्जारो भव | ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते | ततो मुनिनोक्तंकुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव | स च कुक्कुरो व्याघ्राद् बिभेति ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः |

अथ तं व्याघ्रं मुनिर्मूषिकोयम् इति पश्यति | अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्तिनेन मुनिना मूषिको व्याघ्रतां नीतः | एतच् छ्रुत्वा स-व्यथो व्याघ्रोचिन्तयत्यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस्तं मुनिं हन्तुं गतः | ततो मुनिना तज् ज्ञात्वापुनर्मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः | अतोहं ब्रवीमिनीचः श्लाघ्य-पदं प्राप्येत्य् आदि ||

--ओ)0(ओ--

अपरं च, देव ! सुकरम् इदम् इति न मन्तव्यम् | शृणु

भक्षयित्वा बहून्मत्स्यान् उत्तमाधम-मध्यमान् |

अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात् ||16||

चित्रवर्णः पृच्छति--कथम् एतत्

मन्त्री कथयति

कथा 6

अस्ति मालव-विषये पद्मगर्भाभिधानं सरः | तत्रैको वृद्धो बकः सामर्थ्य-हीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः | स च केनचित् कुलीरणे दूराद् एव दृष्टः | पृष्टश्च्किम् इति भवान् अत्राहार-त्यागेन तिष्ठति

बकेनोक्तम्मत्स्या मम जीवन-हेतवः | ते कैवर्तैरागत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता | अतो वर्तनाभावाद् एवास्मन्मरणम् उपस्थितम् इति ज्ञात्वाहारेप्यनादरः कृतः | ततो मत्स्यैरालोचितमिह समये तावद् उपकारक एवायं लक्ष्यते | तद् अयम् एव यथा-कर्तव्यं पृच्छ्यताम् | तथा चोक्तम्

उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा |

उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ||17||

मत्स्या ऊचुःभो बक ! कोत्र अस्माकं रक्षनोपायः

बको ब्रूतेस्ति रक्षणोपायो जलाशयान्तराश्रयणम् | तत्राहम् एकैकशो युष्मान् नयामि |

मत्स्या आहुः एवम् अस्तु | ततोसौ दुष्ट-बकस्तान्मत्स्यान् एकैकशो नीत्वा खादति | अनन्तरं कुलीरस्तम् उवाच्भो बक ! माम् अपि तत्र नय | ततो बकोप्यपूर्व-कुलीर-मांसार्थी सादरं तं नीत्वा स्थले धृतवान् | कुलीरोपि मस्त्य-कण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयत्हा हतोस्मि मन्द-भाग्यः | भवतु इदानीं समयोचितं व्यवहरिष्यामि | यतः

तावद् भयेन भेतव्यं यावद् भयम् अनागतम् |

आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ||18||

किं च्

अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः |

युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ||19||

इत्य् आलोच्य स कुलीरकस्तस्य बकस्य ग्रीवां चिच्छेद | अथ स बकः पञ्चत्वं गतः | अतोहं ब्रवीमिभक्षयित्वा बहून्मत्स्यान् इत्य् आदि |

--ओ)0(ओ--

ततश्चित्रवर्णोवदत्शृणु तावन्मन्त्रिन् ! मयैतद् आलोचितम् | अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूर-द्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि | तेनास्माभिर्महा-सुखेन विन्ध्याचले स्थातव्यम् | दूरदर्शी विहस्याह्देव !

अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति |

स तिरस्कारम् आप्नोति भग्न-भाण्डो द्विजो यथा ||20||

राजाह--कथम् एतत्

मन्त्री कथयति---

कथा 7

अस्ति देवी-कोट-नाम्नि नगरे देवशर्मा नाम ब्राह्मणः | तेन महाविषुवत्-सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः | ततस्तम् आदायासौ कुम्भकारस्य भाण्डपूर्ण-मण्डपैक-देशे रौद्रेणाकुलितः सुप्तः | ततः सक्तु-रक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयत्द्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर्घटशरावादिकम् उपक्रीयानेकधा वृद्धैस्तद्-धनैः पुनः पुनः पूर्ग-वस्त्रादिम् उपक्रीय, विक्रीय लक्ष-सङ्ख्यानि धनानि कृत्वा, विवाह-चतुष्टयं करिष्यामि | अनन्तरं तासु स्व-पत्नीषु या रूप-यौवनवती तस्याम् अधिकानुरागं करिष्यामि | सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलोहं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः | तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि | ततस्तेन शब्देनागतेन कुम्भकारेण तथा-विधानि भाण्डान्य् अवलोक्य, ब्राह्मणस्तिरस्कृतो मण्डपाद् बहिष्कृतश्च | अतोहं ब्रवीमि  अनागतवतीं चिन्ताम् इत्य् आदि |

--ओ)0(ओ--

ततो राजा रहसि गृध्रम् उवाच्तात ! यथा कर्तव्यं तथोपदिश |

गृध्रो ब्रूते

मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः |

गच्छन्त्य् उन्मार्ग-यातस्य नेतारः खलु वाच्यताम् ||21||

शृणु देव ! किम् अस्माभिर्बल-दर्पाद् दुर्गं भग्नम् उत तव प्रतापाधिष्ठितेनोपायेन

राजाह्भवताम् उपायेन |

गृध्रो ब्रूतेयद्य् अस्मद्-वचनं क्रियते, तदा स्व-देशे गम्यताम् | अन्यथा वर्षा-काले प्राप्ते पुनस्तुल्य-बलेन विग्रहे सत्य् अस्माकं पर-भूमिष्ठानां स्व-देश-गमनम् अपि दुर्लभं भविष्यति | तत्-सुख-शोभार्थं सन्धाय गम्यताम् | दुर्गं भग्नं, कीर्तिश्च लब्धेव | मम संमतं तावद् एतत् | यतः

यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये |

अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ||22||

अन्यच्च

सुहृद्-बलं तथा राज्यम् आत्मानं कीर्तिम् एव च |

युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ||23||

अपरं च्

सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि |

नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ||24||

अपि च्

युद्धे विनाशो भवति कदाचिद् उभयोरपि |

सुन्दोप-सुन्दावन्योन्यं नष्टौ तुल्य-बलौ न किम् ||25||

राजोवाच--कथम् एतत्

मन्त्री कथयति

कथा 8

पुरा दैत्यौ सहोदरौ सुन्दोपसुन्द-नामानौ महता काय-क्लेशेन त्रैलोक्य-राज्य-कामनया चिराच् चन्द्र-शेखरम् आराधितवन्तौ | ततस्तयोर्भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच | अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् तावन्यद् वक्तु-कामावन्यद्-अभिहितवन्तौयद्य् आवयोर्भवान् परितुष्टस्तदा स्व-प्रियां पार्वतीं परमेश्वरो ददातु |

अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचार-मूढयोः पार्वती प्रदत्ता | ततस्तस्या रूप-लावण्य-लुब्धाभ्यां, जगद्-घातिभ्यां मससोत्सुकाभ्यां, पाप-तिमिराभ्याम्, ममेत्य् अन्योन्यं कलहायमानाभ्यां, प्रमाण-पुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृद्ध-द्विज-रूपः समागत्य तत्रोपस्थितः | अनन्तरंावाभ्याम् इयं स्व-बल-लब्धा, कस्येयम् आवयोर्भवति इति ब्राह्मणम् अपृच्छताम् | ब्राह्मणो ब्रूते

ज्ञान-श्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि |

धन-धान्याधिको वैश्यः शूद्रस्तु द्विज-सेवया ||26||

तद् युवां क्षात्र-धर्मानुगौ | युद्द एव युवयोर्नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्य-तुल्य-वीर्यौ, सम-कालम् अन्योन्य-घातेन विनाशम् उपागतौ | अतोहं ब्रवीमिसन्धिम् इच्छेत् समेनापि इत्य् आदि |

--ओ)0(ओ--

राजाह्तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः

मन्त्री ब्रूतेतदा मद्-वचनं किम् अवसान-पर्यन्तं श्रुतं भवद्भिः तदापि मम संमत्या नायं विग्रहारम्भः | यतःसाधु-गुण-युक्तोयं हिरण्यगर्भो न विग्राह्यः | तथा चोक्तं

सत्यार्थौ धार्मिकोनार्यो भ्रातृ-सङ्हातवान् बली |

अनेक-युद्ध-विजयी सन्धेयाः सप्त कीर्तिताः ||27||

सत्योनुपालयन् सत्यं सन्धितो नैति विक्रियाम् |

प्राण-बाधेपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ||28||

धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते |

प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ||29||

सन्धिः कार्योप्यनार्येण विनाशे समुपस्थिते |

विना तस्याश्रयेणार्यो न कुर्यात् काल-यापनम् ||30||

संहतत्वाद् यथा वेणुर्निविडैः कण्टकैर्वृतः |

न शक्यते समुच्छेत्तुं भ्रातृ-सङ्घातवांस्तथा ||31||

बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् |

प्रतिवातं न हि घनः कदाचिद् उपसर्पति ||32||

जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा |

अनेक-युद्ध-जयिनः प्रतापाद् एव भज्यते ||33||

अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति |

तत्-प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ||34||

तत्र तावद् बहुभिर्गुणैरुपेतः सन्धेयोयं राजा | चक्रवाकोवदत्प्रणिधे ! सर्वम् अवगतम् | व्रज | पुनरागमिष्यसि |

अथ राजा हिरण्यगर्भश्चक्रवाकं पृष्ठवान्मन्त्रिन् ! असन्धेयाः कति तान् श्रोतुम् इच्छामि | मन्त्री ब्रूतेदेव ! कथयामि | शृणु

बालो वृद्धो दीर्घ-रोगी तथाज्ञाति-बहिष्कृतः |

भीरुको भीरुक-जनो लुब्धो लुब्ध-जनस्तथा ||35||

विरक्त-प्रकृतिश्चैव विषयेष्व् अतिसक्तिमान् |

अनेक-चित्त-मन्त्रस्तु देव-ब्राह्मण-निन्दकः ||36||

दैवोपहतकश्चैव तथा दैव-परायणः |

दुर्भिक्ष-व्यसनोपेतो बल-व्यसन-सङ्कुलः ||37||

अदेशस्थो बहु-रिपुर्युक्तः कालेन यश्च न |

सत्य-धर्म-व्यपेतश्च विंशतिः पुरुषा अमी ||38||

एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् |

एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ||39||

बालस्याल्प-प्रभावत्वान् न लोको योद्धुम् इच्छति |

युद्धायुद्ध-फलं यस्माज् ज्ञातुं शक्तो न बालिशः ||40||

उत्साह-शक्ति-हीनत्वाद् वृद्धो दीर्घामयस्तथा |

स्वैरेव परिभूयेते द्वावप्य् एतावसंशयम् ||41||

सुख-च्छेद्यो हि भवति सर्व-ज्ञाति-बहिष्कृतः |

त एवैनं विनिघ्नन्ति ज्ञातयस्त्व् आत्म-सात्कृताः ||42||

भीरुर्युद्ध-परित्यागात् स्वयम् एव प्रणश्यति |

तथैव भीरु-पुरुषः सङ्ग्रामे तैर्विमुच्यते ||43||

लुब्धस्यासंविभागित्वान् न युध्यन्तेनुजीविनः |

लुब्धानुजीवी तैरेव दान-भिन्नैर्निहन्यते ||44||

सन्त्य् अज्यते प्रकृतिभिर्विरक्त-प्रकृतिर्युधि |

सुखाभियोज्यो भवति विषयेवतिसक्तिमान् ||45||

अनेक-चित्त-मन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् |

अनवस्थित-चित्तत्वात् कर्यतः स उपेक्ष्यते ||46||

सदाधर्म-बलीयस्त्वाद् देव ब्राह्मण-निन्दकः |

विशीर्यते स्वयं ह्य् एष दैवोपहतकस्तथा ||47||

सम्पत्तेश्च विपत्तेश्च दैवम् एव हि कारणम् |

इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ||48||

दुर्भिक्ष-व्यसनी चैव स्वयम् एव विषीदति |

बल-व्यसन-सक्तस्य योद्धुं शक्तिर्न जायते ||49||

अदेश-स्थो हि रिपुणा स्वल्पकेनापि हन्यते |

ग्राहोल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ||50||

बहु-शत्रुस्तु सन्त्रस्तः श्येन-मध्ये कपोतवत् |

येनैव गच्छति पथा तेनैवाशु विपद्यते ||51||

अकाल-युक्त-सैन्यस्तु हन्यते काल-योधिना |

कौशिकेन हत-ज्योतिर्निशीथ इव वायसः ||52||

सत्य-धर्म-व्यपेतेन सन्दध्यान् न कदाचन |

स सन्धितोप्यसाधुत्वाद् अचिराद् याति विक्रियाम् ||53||

अपरम् अपि कथयामिसन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावाः षाड्गुण्यम् | कर्मणाम् आरम्भोपायः | पुरुष-द्रव्य-सम्पत् | देश-का-विभागः | विनिपात-प्रतीकारः | कार्य-सिद्धिश्चेति पञ्चाङ्गो मन्त्रः | साम-दान-भेद-दण्डाश्चत्वार उपायाः | उत्साह-शक्तिः, मन्त्र-शक्तिः, प्रभु- शक्तिश्चेति शक्ति-त्रयम् | एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवन्ति महान्तः | यतः

या हि प्राण-परित्याग-मूल्येनापि न लभ्यते |

सा श्रीर्नीतिविदं पश्य चञ्चलापि प्रधावति ||54||

यथा चोक्तं

वित्तं सदा यस्य समं विभक्तं

गूढश्चरः संनिभृतश्च मन्त्रः |

नचाप्रियं प्राणिषु यो ब्रवीति

स सागरान्तां पृथिवीं प्रशास्ति ||55||

किन्तु देव यद्यपि महा-मन्त्रिणा गृध्रेण सन्धानम् उपन्यस्तं, तथापि तेन राज्ञा सम्प्रति भूत-जय-दर्पान् न मन्तव्यम् | देव ! तद् एवं क्रियतां | सिंहल-द्वीपस्य महाबलो नाम सारसो राजास्मन्-मित्रं जम्बुद्वीपे कोपं जनयतु | यतः

सुगुप्तिम् आधाय सुसंहतेन

बलेन वीरो विचरन्न् अरातिम् |

सन्तापयेद् येन समं सुतप्तस्

तप्तेन सन्धानम् उपैति तप्तः ||56||

राज्ञा एवम् अस्त्व् इति निगद्य विचित्र-नामा बकः सुगुप्त-लेखं दत्त्वा सिंहल-द्वीपं प्रहितः |

अथ प्रणिधिः पुनरागत्योवाच्देव ! श्रूयतां तावत् तत्रत्य-प्रस्तावः |

एवं तत्र गृध्रेणोक्तम्देव ! मेघवर्णस्तत्र चिरम् उषितः | स वेत्ति किं सन्धेय-गुण-युक्तो हिरण्यगर्भो राजा, न वा इति |

ततोसौ मेघवर्णश्चित्रवर्णेन राज्ञा समाहूय पृष्टःवायस ! कीदृशो हिरण्यगर्भो राजा चक्रवाको मन्त्री वा कीदृशः

वायस उवाच्देव ! स हिरण्यगर्भो राजा युधिष्ठिर-समो महाशयः सत्य-वाक् | चक्रवाक-समो मन्त्री न क्वाप्यवलोक्यते |

राजाह्यद्य् एवं तदा कथम् असौ त्वया वञ्चितः

विहस्य मेघवर्णः प्राह्देव !

विश्वास-प्रतिपन्नानां वञ्चने का विदग्धता |

अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ||57||

शृणु देव ! तेन मन्त्रिणाहं प्रथम-दर्शने एवं विज्ञातः, किन्तु महाशयोसौ राजा, तेन मया विप्रलब्धः | तथा चोक्तम्

आत्मौपम्येन यो वेत्ति दुर्जनं सत्य-वादिनम् |

स तथा वञ्च्यते धूर्तैर्ब्राह्मणाश्छागतो यथा ||58||

राजोवाच्कथम् एतत्

मेघवर्णः कथयति

कथा 9

अस्ति गौतमस्यारण्ये प्रस्तुत-यज्ञः कश्चिद् ब्राह्मणः | स च यज्ञार्थं ग्रामान्तराच् छागम् उपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्त-त्रयेणावलोकितः | ततस्ते धूर्ताःयद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मति-प्रकर्षो भवतीति समालोच्य, वृक्ष-त्रय-तले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः |

तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणोभिहितःभो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते |

विप्रेणोक्तंनायं श्वा, किन्तु यज्ञ-च्छागः |

अथान्तर-स्थितेनान्येन धूर्तेन तथैवोक्तम् | तद् आकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमान-मतिश्चलितः | यतः

मतिर्दोलायते सत्यं सताम् अपि खलोक्तिभिः |

ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ||59||

राजाह--कथम् एतत्

स कथयति

कथा 10

अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः | तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च | अथ तैर्भ्रमद्भिः सार्थ-भ्रष्टः कश्चिद् उष्ट्रो दृष्टः | पृष्टश्च्कुतो भवान् आगतः सार्थाद् भ्रष्टः

स चात्म-वृत्तान्तम् अकथयत् | ततस्तैर्नीत्वा सिंहायासौ समर्पितः | तेन चाभय-वाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः |

अथ कदाचित् सिंहस्य शरीर-वैकल्याद् भूरि-वृष्टि-कारणाच् चाहारम् अलभमानास्ते व्यग्रा बभूवुः | ततस्तैरालोचितम् | चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् | किम् अनेन कण्टक-भुजास्माकम्

व्याघ्र उवाच्स्वामिनाभय-वाचं दत्त्वानुगृहीतोयं, तत् कथम् एवं सम्भवति

काको ब्रूतेिह समये परिक्षीणः स्वामी पापम् अपि करिष्यति | यतः

त्यजेत् क्षुधार्ता महिला स्वपुत्रं

खादेत् क्षुधार्ता भुजगी स्वमण्डम् |

बुभुक्षितः किं न करोति पापं

क्षीणा नरा निष्करुणा भवन्ति ||60||

अन्यच्च

मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः |

लुब्धो भीरुस्त्वरा-युक्तः कामुकश्च न धर्म-वित् ||61||

इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः | सिंहेनोक्तमाहारार्थं किञ्चित् प्राप्तम्

तैरुक्तम्देव ! यत्नाद् अपि प्राप्तं किञ्चित्

सिंहेनोक्तंकोधुना जीवनोपायः

काको वदतिदेव ! स्वाधीनाहार-परित्यागात् सर्व-नाशोयम् उपस्थितः

सिंहेनोक्तम्त्राहारः कः स्वाधीनः

काकः कर्णे कथयतिचित्रकर्ण इति | सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति | अब्रवीच् चभय-वाचं दत्त्वा धृतोयम् अस्माभिः | तत् कथम् एवं सम्भवति तथा हि

न भूत-दानं न सुवर्ण-दानं

न गो-प्रदानं न तथान्न-दानम् |

यथा वदन्तीह महा-प्रदानं

सर्वेषु दानेष्व् अभय-प्रदानम् ||62||

अन्यच्च

सर्व-काम-समृद्धस्य अश्वमेधस्य यत् फलम् |

तत्-फलं लभते सम्यग् रक्षिते शरणागते ||63||

काको ब्रूतेनासौ स्वामिना व्यापादयितव्यः | किन्त्व् अस्माभिरेव तथा कर्तव्यं, यथासौ स्व-देह-दानम् अङ्गीकरोति |

सिंहस्तच् छ्रुत्वा तूष्णीं स्थितः | ततोसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः | अथ काकेनोक्तंदेव ! यत्नाद् अप्याहारो न प्राप्तः | अनेकोपवास-क्लिष्टश्च स्वामी | तद् इदानीं मदीय-मांसम् उपभुज्यताम् | यतः

स्वामि-मूला भवन्त्य् एव सर्वाः प्रकृतयः खलु |

समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ||64||

सिंहेनोक्तंभद्र ! वरं प्राण-परित्यागो, न पुनरीदृशे कर्मणि प्रवृत्तिः |

जम्बुकेनापि तथोक्तम् | ततः सिंहेनोक्तंमैवम् |

अथ व्याघ्रेणोक्तंमद्-देहेन जीवतु स्वामी |

सिंहेनोक्तंन कदाचिद् एवम् उचितम् |

अथ चित्रकर्णोपि जात-विश्वासस्तथैवात्म-देह-दानम् आह्ततस्तद्-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः | सर्वैर्भक्षितश्च | अतोहं ब्रवीमिमतिर्दोलायते सत्यम् इत्य् आदि |

ततस्तृतीय-धूर्त-वचनं श्रुत्वा, स्व-मति-भ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ | छागश्च तैर्धूर्तैर्नीत्वा भक्षितः | अतोहं ब्रवीमिात्मौपम्येन यो वेत्तीत्य् आदि |

राजाह्मेघवर्ण ! कथं शत्रु-मध्ये त्वया सुचिरम् उषितम् कथं वा तेषाम् अनुनयः कृतः

मेघवर्ण उवाच्देव ! स्वामि-कार्यार्थितया स्व-प्रयोजन-वशाद् वा किं किं न क्रियते पश्य्

लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् |

क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदी-वेला निकृन्तति ||65||

तथा चोक्तम्

स्कन्धेनापि वहेच् छत्रून् कार्यम् आसाद्य बुद्धिमान् |

यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ||66||

राजाह्कथम् एतत्

मेघवर्णः कथयति

कथा 11

अस्ति जीर्णोद्याने मन्द-विषो नाम सर्पः | सोतिजीर्णतया स्वाहारम् अप्यन्वेष्टुम् अक्षमः सरस्-तीरे पतित्वा स्थितः | ततो दूराद् एव केनचिन्मण्डूकेन दृष्टः, पृष्टश्च्किम् इति त्वाम् आहारं नान्विष्यति

सर्पोवदत्गच्छ भद्र ! किं ते मम मन्द-भाग्यस्य वृत्तान्त-प्रश्नेन ततः सञ्जात-कौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह | सर्पोप्याह्भद्र ! पुर-वासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशति-वर्ष-देशीयः सर्व-गुण-सम्पन्नो दुर्दैवान्मया नृशंसेन दष्टः | ततस्तं सुशील-नामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ | अनन्तरं ब्रह्मपुर-वासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः | तथा चोक्तम्

उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्र-विप्लवे |

राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ||67||

तत्र कपिलो नाम स्नातकोवदत्रे कौण्डिन्य ! मूढोसि येनैवं विलपसि | शृणु

क्रोडीकरोति प्रथमं यदा जातम् अनित्यता |

धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ||68||

तथा च्

क्व गताः पृथिवी-पालाः स-सैन्य-बल-वाहनाः |

वियोग-साक्षिणी येषां भूमिरद्यापि तिष्ठति ||69||

तथा च्

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |

अद्य वाब्द-शतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ||70||

अपरं च्

कायः संनिहितापायः सम्पदः पदम् आपदाम् |

समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ||71||

प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते |

आमकुम्भ इवाम्भः-स्थो विशीर्णः सन् विभाष्यते ||72||

आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने |

आघातं नीयमानस्य वध्यस्येव पदे पदे ||73||

यतः

अनित्यं यौवनं रूपं जीवितं द्रव्य-सञ्चयः |

ऐश्वर्यं प्रिय-संवासो मुह्येत् तत्र न पण्डितः ||74||

यथा काष्ठं च काष्ठं च समेयातां महोदधौ |

समेत्य च व्यपेयातां तद्वद् भूत-समागमः ||75||

यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति |

विश्रम्य च पुनर्गच्छेद् तद्वद् भूत-समागमः ||76||

अन्यच्च

पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते |

स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ||77||

यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् |

तावन्तोस्य निखन्यन्ते हृदये शोक-शङ्कवः ||78||

नायम् अत्यन्त-संवासो लभ्यते येन केनचित् |

अपि स्वेन शरीरेण किम् उतान्येन केनचित् ||79||

अपि च्

संयोगो हि वियोगस्य संसूचयति सम्भवम् |

अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ||80||

आपात-रमणीयानां संयोगानां प्रियैः सह |

अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ||81||

अपरं च्

व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा |

आयुरादाय मर्त्यानां तथा रात्र्य्-अहनी सदा ||82||

सुखास्वाद-परो यस्तु संसारे सत्-समागमः |

स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ||83||

अत एव हि नेच्छन्ति साधवः सत्-समागमम् |

यद्-वियोगासि-लूनस्य मनसो नास्ति भेषजम् ||84||

सुकृतान्य् अपि कर्माणि राजभिः सगरादिभिः |

अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ||85||

संचिन्त्य संचिन्त्य तम् उग्र-दण्डं

मृत्युं मनुष्यस्य विचक्षणस्य |

वर्षाम्बु-सिक्ता इव चर्म-बन्धाः

सर्वे प्रयत्नाः शिथिलीभवन्ति ||86||

याम् एव रात्रिं प्रथमाम् उपैति

गर्भे निवासं नरवीर लोकः |

ततः प्रभृत्य् अस्खलित-प्रयाणः

स प्रत्यहं मृत्यु-समीपम् एति ||87||

अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् |

शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ||88||

तद् भद्र ! तद् आत्मानम् अनुसन्धेहि | शोक-चर्चां च परिहर, यतः

अकाण्ड-पात-जातानाम् अस्त्राणां मर्म-भेदिनाम् |

गाढ-शोक-प्रहाराणाम् अचिन्तैव महौषधम् ||89||

ततस्तद्-वचनं निशम्य, प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् | तद् अलम् इदानीं गृह-नरक-वासेन वनम् एव गच्छामि | कपिलः पुनराह्

वनेपि दोषाः प्रभवन्ति रागिणां

गृहेपि पञ्चेन्द्रिय-निग्रहस्तपः |

अकुत्सिते कर्मणि यः प्रवर्तते

त्रिवृत्त-रागस्य गृहं तपोवनम् ||90||

यतः

दुःखितोपि चरेद् धर्मं यत्र कुत्राश्रमे रतः |

समः सर्वेषु भूतेषु न लिङ्गं धर्म-कारणम् ||91||

उक्तं च्

वृत्त्य्-अर्थं भोजनं येषां सन्तानार्थं च मैथुनम् |

वाक् सत्य-वचनार्थाय दुर्गाण्य् अपि तरन्ति ते ||92||

तथा हि

आत्मा नदी संयम् अपुण्य-तीर्था

सत्योदका शील-तटा दयोर्मिः |

तत्राभिषेकं कुरु पाण्डु-पुत्र !

न वारिणा शुष्यति चान्तरात्मा ||93||

विशेषतश्च्

जन्म-मृत्यु-जरा-व्याधि-वेदनाभिरुपद्रुतम् |

संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ||94||

यतः

दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते |

दुःखार्तस्य प्रतीकारे सुख-संज्ञा विधीयते ||95||

कौण्डिन्यो ब्रूते एवम् एव | ततोहं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यद् अद्यारभ्य मण्डूकानां वाहनं भविष्यतीति |

कपिलो ब्रूतेसम्प्रत्य् उपदेशासहिष्णुर्भवान् | शोकाविष्टं ते हृदयम् | तथापि कार्यं शृणु

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते |

स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ||96||

अन्यच्च

कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते |

स्व-भार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ||97||

एतच् छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृत-प्रशान्त-शोकानलो यथाविधि दण्ड-ग्रहणं कृतवान् | अतो ब्राह्मण-शापान्मण्डूकान् वोढुम् अत्र तिष्ठामि | अनन्तरं तेन मण्डूकेन गत्वा मण्डूक-नाथस्य जालपाद-नाम्नोग्रे तत् कथितम् | ततोसाव् आगत्य मण्डूक-नाथस्तस्य सर्पस्य पृष्ठम् आरूढवान् | स च सर्पस्तं पृष्ठे कृत्वा चित्रपद-क्रमं बभ्राम |

परेद्युश्चलितुम् असमर्थं तं मण्डूक-नाथम् अवदत्किम् अद्य भवान्मन्द-गतिः

सर्पो ब्रूतेदेव ! आहार-विरहाद् असमर्थोस्मि |

मण्डूक-नाथोवदत्स्माद् आज्ञया मण्डूकान् भक्षय | ततः गृहीतोयं महा-प्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् | अथ निर्मण्डूकं सरो विलोक्य मण्डूक-नाथोपि तेन खादितः | अतोहं ब्रवीमिस्कन्धेनापि वहेच् छत्रून् इत्य् आदि | देव ! यात्व् इदानीं पुरावृत्ताख्यान-कथनं सर्वथा सन्धेयोयं हिरण्यगर्भ-राजा सन्धीयताम् इति मे मतिः |

राजोवाच्कोयं भवतो विचारः यतो जितस्तावद् अयम् अस्माभिः | ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् | नो चेद् विगृह्यताम् |

अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तंदेव ! सिंहल-द्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते |

राजा स-सम्भ्रमं ब्रूतेकिं किम्

शुकः पूर्वोक्तं कथयति | गृध्रः स्वगतम् उवाच्साधु रे चक्रवाक मन्त्रिन् ! साधु !

राजा स-कोपम् आहास्तां तावद् अयं गत्वा तम् एव स-मूलम् उन्मूलयामि |

दूरदर्शी विहस्याह्

न शरन्-मेघवत् कार्यं वृथैव घन-गर्जितम् |

परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ||98||

अपरं च्

एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः |

-दर्पोप्य् उरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ||99||

देव ! किम् इतो विना सन्धानं गमनम् अस्ति यतस्तदास्माकं पश्चात् प्रकोपोनेन कर्तव्यः | अपरं च्

योर्थ-तत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः |

स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ||100||

राजाह--कथम् एतत्

दूरदर्शी कथयति

कथा 11

अस्त्य् उज्जयिन्यां माधवो नाम विप्रः | तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता | अथ ब्राह्मणाय राज्ञः पार्वण-श्राद्धं दातुम् आह्वानम् आगतम् | तच् छ्रुत्वा ब्राह्मणोपि सहज-दारिद्र्याद् अचिन्तयत्यदि सत्वरं न गच्छामि, तदान्या कश्चिच् छ्रुत्वा श्राद्धं ग्रहीष्यति | यतः

आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः |

क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ||101||

किन्तु बालाकस्यात्र रक्षको नास्ति | तत् किं करोमि यातु, चिर-काल-पालितम् इमं नकुलं पुत्र-निर्विशेषं बालक-रक्षायां व्यवस्थाप्य गच्छामि | तथा कृत्वा गतः | ततस्तेन नकुलेन बालक-समीपम् आगच्छन् कृष्ण-सर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश्च | ततोसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्त-विलिप्त-मुख-पदः सत्वरम् उपगम्य तच्-चरणयोर्लुलोठ | ततः स विप्रस्तथा-विधं दृष्ट्वा मम बालकोनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् | अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस्तावद् बालकः सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति | ततस्तम् उपकारकं नकुलं निरीक्ष्य, भावित-चेताः स ब्राह्मणः परं विषादम् अगमत् | अतोहं ब्रवीमियोर्थ-तत्त्वम् अविज्ञाय इत्य् आदि | अपरं च्

कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा |

षड्-वर्गम् उत्सृजेद् एनं तस्मिंस्त्यक्ते सुखी नृपः ||102||

राजाह्मन्त्रिन् ! एष ते निश्चयः

मन्त्री ब्रूते एवम् एव | यतः

स्मृतिस्तत्-परतार्थेषु वितर्को ज्ञान-निश्चयः |

दृढता मन्त्र-गुप्तिश्च मन्त्रिणः परमो गुणः ||103||

तथा च्

सहसा विदधीत न क्रियाम्

अविवेकः परमापदां पदम् |

वृणुते हि विमृश्य कारिणं

गुण-लुब्धाः स्वयम् एव सम्पदः ||104||

तद् देव ! यदीदानीम् अस्मद्-वचनं क्रियते, तदा सन्धाय गम्यताम् | यतः

यद्यप्य् उपायाश्चत्वारो निर्दिष्टाः सध्य-साधने |

सङ्ख्या-मात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ||105||

राजाह्कथम् एवं सत्वरं सम्भाव्यते

मन्त्री ब्रूतेदेव ! सत्वरं भविष्यति | यतः

मृद्-घटवत् सुख-भेद्यो

दुःसन्धानश्च दुर्जनो भवति |

सुजनस्तु कनक-घटवद्

दुर्भेद्यश्चाशु सन्धेयः ||106||

अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः |

ज्ञान-लव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ||107||

कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः |

तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ||108||

राजाहलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् | एतन्मन्त्रयित्वा गृध्रो महामन्त्रीतत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः | ततः प्रणिधि-बकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितंदेव ! सन्धि-कर्तुं महामन्त्री गृध्रोस्मत्-समीपम् आगच्छति |

राजहंसो ब्रूतेमन्त्रिन् ! पुनरभिसन्धिना केनचिद् अत्रागमनम् |

सर्वज्ञो विहस्याह्देव ! न शङ्कास्पदम् एतत् | यतोसौ महाशयो दूरदर्शी | अथवा स्थितिरियं मन्द-मतीनां, कदाचिच् छङ्कैव न क्रियते, कदाचित् सर्वत्र शङ्का | तथा हि

सरसि बहुशस्ताराच्छायेक्षणात् परिवञ्चितः

कुमुद-विटपान्वेषी हंसो निशास्वविचक्षणः |

न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं

कुहुक-चकितो लोकः सत्येप्यपायम् अपेक्षते ||109||

दुर्जन-दूषित-मनसः सुजनेष्व् अपि नास्ति विश्वासः |

बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति ||110||

तद् देव ! यथा-शक्ति तत्-पूजार्थं रत्नोपहारादि-सामग्री सुसज्जीक्रियताम् | तथानुष्ठिते सति स गृध्रो दुर्ग-द्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राज-दर्शनं कारितो दत्तासने चोपविष्टः | चक्रवाक उवाच्मन्त्रिन् ! युष्मद्-आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् 

राजहंसो ब्रूते एवम् एव |

दूरदर्शी कथयति एवम् एवैतत् | किन्त्व् इदानीं बहु-प्रपञ्च-वचनं निष्पर्योजनम् | यतः

लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलि-कर्मणा |

मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ||111||

अन्यच्च

सद्-भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् |

स्त्री-भृत्यौ दान-मानाभ्यां दाक्षिण्येनेतरान् जनान् ||112||

तद् इदानीं सन्धातुं गम्यताम् | महा-प्रतापश्चित्रवर्णो राजा |

चक्रवाको ब्रूतेयथा सन्धानं कार्यम् | तद् अप्य् उच्यताम् |

राजहंसो ब्रूतेकति प्रकाराः सन्धीनां सम्भवन्ति

गृध्रो ब्रूतेकथयामि श्रूयताम्

बलीयसाभियुक्तस्तु नृपो नान्य-प्रतिक्रियः |

आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः काल-यापनम् ||113||

कपाल उपहारश्च सन्तानः संगतस्तथा |

उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ||114||

अदृष्ट-नर आदिष्ट आत्मामिष उपग्रहः |

परिक्रयस्तथोच्छिन्नस्तथा च पर-दूषणः ||115||

स्कन्धोपनेयः सन्धिश्च षोडशः परकीर्तितः |

इति षोडशकं प्राहुः सन्धिं सन्धि-विचक्षणाः ||116||

कपाल-सन्धिर्विज्ञेयः केवलं सम-सन्धिकः |

सम्प्रदानाद् भवति य उपहारः स उच्यते ||117||

सन्तान-सन्धिर्विज्ञेयो दारिका-दान-पूर्वकः |

सद्भिस्तु सङ्गतः सन्धिर्मैत्री-पूर्व उदाहृतः ||118||

यावद् आयुः-प्रमाणस्तु समानार्थ-प्रयोजनः |

सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते ||119||

सङ्गतः सन्धिरेवायं प्रकृष्टत्वात् सुवर्णवत् |

तथान्यैः सन्धि-कुशलैः काञ्चनः समुदाहृतः ||120||

आत्म-कार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः |

स उपन्यास-कुशलैरुपन्यास उदाहृतः ||121||

मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति |

इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ||122||

उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति |

अयं चापि प्रतीकारो राम-सुगृईवयोरिव ||123||

एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः |

सुसंहित-प्रयाणस्तु सन्धिः संयोग उच्यते ||124||

आवयोर्योध-मुख्याभ्यां मद्-अर्थः साध्यताम् इति |

यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ||125||

त्वयैकेन मदीयोर्थः सम्प्रसाध्यस्त्व् असाव् इति |

यत्र शत्रुः पणं कुर्यात् सोदृष्ट-पुरुषः स्मृतः ||126||

यत्र भूम्य्-एक-देशेन पणेन रिपुरूर्जितः |

सन्धीयते सन्धि-विद्भिः स चादिष्ट उदाहृतः ||127||

स्व-सैन्येन तु सन्धानम् आत्मादिष्ट उदाहृतः |

क्रियते प्राण-रक्षार्थं सर्व-दानाद् उपग्रहः ||128||

कोशांशेनार्ध-कोशेन सर्व-कोशेन वा पुनः |

शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ||129||

भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते |

भूम्य्-उत्थ-फल-दानेन सर्वेण पर-भूषणः ||130||

परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते |

स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धि-विचक्षणाः ||131||

परस्परोपकारस्तु मैत्री सम्बन्धकस्तथा |

उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ||132||

एक एवोपहारस्तु सन्धिरेतन्मतं हि नः |

उपहारस्य भेदास्तु सर्वेन्ये मैत्र-वर्जिताः ||133||

अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते |

उपहाराद् ऋते तस्मात् संधिरन्यो न विद्यते ||134||

राजाह्भवन्तो महान्तः पण्डिताश्च | तद् अत्रास्माकं यथा-कार्यम् उपदिश्यताम् |

दूरदर्शी ब्रूते किम् एवम् उच्यते

आधि-व्याधि-परीतापाद् अद्य श्वो वा विनाशिने |

को हि नाम शरीराय धर्मापेतं समाचरेत् ||135||

जलान्तश्चन्द्र-चपलं जीवितं खलु देहिनाम् |

तथा-विधम् इति ज्ञात्वा शश्वत्-कल्याणम् आचरेत् ||136||

वाताभ्र-विभ्रमम् इदं वसुधाधिपत्यम्

आपात-मात्र-मधुरो विषयोपभोगः |

प्राणास्तृणाग्र-जल-बिन्दु-समान-लोला

धर्मः सखा परम् अहो परलोक-याने ||137||

मृग-तृष्णा-समं वीक्ष्य संसारं क्षण-भङ्गुरम् |

सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ||138||

तन्मम संमतेन तद् एव क्रियताम् | यतः

अश्वमेध-सहस्रं च सत्यं च तुलया धृतम् |

अश्वमेध-सहस्राद् धि सत्यम् एव विशिष्यते ||139||

अतः सत्याभिधान-दिव्य-पुरःसरम् अनयोर्भूपालयोः काञ्चनाभिधानः सन्धिर्विधीयताम् | सर्वज्ञो ब्रूते एवम् अस्तु | ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः | प्रहृष्ट-मनाश्चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः | तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्र-वचनाद् बहु-मान-दान-पुरः-सरं सम्भाषितस्तथा-विधं सन्धिं स्वीकृत्य राजहंस-समीपं प्रस्थापितः |

दूरदर्शी ब्रूतेदेव ! सिद्धं नः समीहितम् | इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् | अथ सर्वे स्व-स्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्न् इति |

विष्णुशर्मेनोक्तंपरं किं कथयामि, तद् उच्यताम् |

राज-पुत्रा ऊचुःार्य ! तव प्रसादात् सकल-राज्य-व्यवहाराङ्गं जातम् | ततः सुखिनो भूता वयम् |

विष्णु-शर्मोवाच्यद्यप्य् एवं तथाप्यपरम् अपीदम् अस्तु |

सन्धिः सर्व-मही-भुजां विजयिनाम् अस्तु प्रमोदः सदा

सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् |

नीति-वार-विलासिनीव सततं वक्षः-स्थले संस्थिता

वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर्भूयान्महान् उत्सवः ||140||

अन्यच् चास्तु

प्रालेयाद्रेः सुतायाः प्रणय-निवसतिश्चन्द्रमौलिः स यावद्

यावल् लक्ष्मीर्मुरारेर्जलद इव तडिन् मानसे विस्फुरन्ती |

यावत् स्वर्णाचलोयं दव-दहन-समो यस्य सूर्यः स्फुलिङ्गस्

तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहोयं कथानाम् ||141||

किं च्

उर्वीम् उद्दाम-सस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्र-मुख्याः |

आकल्पान्तं च भूयात् स्थिर-समुपचिता सङ्गतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुन-जन-गिरो दुःसहा वज्र-लेपाः ||142||

अपरं च्

श्रीमान्धवलचन्द्रोसौ जीयान् माण्डलिको रिपून् |

येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ||143||

इति हितोपदेशे सन्धिर्नाम चतुर्थः कथा-सङ्ग्रहः

|| समाप्तश्चायं हितोपदेशः ||