To Search in Text |
step-1 |
step-2 Press Control + F |
की-वर्ड की खोज के लिये : - |
step-1 |
step2. कण्ट्रोल एफ दबाएँ।. |
ऋतु-संहारम्
। महाकवि-कालिदास-विरचितम् |
प्रथमः सर्गः । द्वितीयः सर्गः । तृतीयः सर्गः । चतुर्थः सर्गः । पञ्चमः सर्गः । षष्ठः सर्गः ।
(1)
ग्रीष्म-ऋतु-वर्णनम्
प्रचण्ड-सूर्यः स्पृहणीय-चन्द्रमाः सदावगाह-क्षत-वारि-सञ्चयः |
दिनान्तरम्योभुय्पशान्त-मन्मथो निदाघ-कालोयम् उपागतः ||1||
निशाः शशाङ्क-क्षत-नील-राजयः क्वचिद् विचित्रं जल-यन्त्र-मन्दिरम् |
मणि-प्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ||2||
सुवासितं हर्म्य-तलं मनोहरं प्रिया-मुखोच्छ्वास-विकम्पितं मधु |
सुतन्त्रि-गीतं मदनस्य दीपनं शुचौ निशीथेनुभवन्ति कामिनः ||3||
नितम्ब-बिम्बैः सदुकूल-मेखलैः स्तनैः सहाराभरणैः स-चन्दनैः |
शिरोरुहैः स्नान-कषाय-वासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ||4||
नितान्त-लाक्षा-रस-राग-रञ्जितैर्नितम्बिनीनां चरणैः स-नूपुरैः |
पदे पदे हंस-रुतानुकारिभिर्जनस्य चित्तं क्रियते स-मन्मथम् ||5||
पयोधराश्चन्दन-पङ्क-चर्वितास्तुषार-गौरार्पित-हार-शेखराः |
नितम्ब-देशाश्च स-हेम-मेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ||6||
समुद्गत-स्वेद-चिताङ्ग-सन्धयो विमुच्य वासांसि गुरूणि साम्प्रतम् |
स्तनेषु तन्व्-अंशुकम् उन्नत-स्तना निवेशयन्ति प्रमदाः स-यौवनाः ||7||
स-चन्दनाम्बु-जनोद्भवानिलैः सहार-यष्टि-स्तन-मण्डलार्पणैः |
स-वल्लकी-काकलि-गीत-निःस्वनैर्निबोध्यते सुप्त इवाद्य मन्मथाः ||8||
सितेषु हर्म्येषु निशासु योषितां सुख-प्रसुप्तानि मुख्यानि चन्द्रमाः |
विलोक्य नूनं भृशं उत्सुकश्चैरं निशाक्षये याति ह्रियेव पाण्डुताम् ||9||
असह्य-वातोद्धत-रेणु-मण्डला प्रचण्ड-सूर्यातप-तापिता मही |
न शक्यते द्रष्टुम् अपि प्रवासिभिः प्रिया-वियोगानल-दग्धम् आतसैः ||10||
मृगाः प्रचण्डातप-तापिता भृशं तृषा महत्या परिशुष्क-तालवः |
वनान्तरे तोयम् इति प्रधाविताः निरीक्ष्य भिन्नाञ्जन-सन्निभं नभः ||11||
स-विभ्रमैः सस्मित-जिह्म-वीक्षितैर्विलासवत्या मनसि प्रवासिनाम् |
अनङ्ग-सन्दीपनम् आशु कुर्वते यथा प्रदोषाः शशि-चारु-भूषणाः ||12||
रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि सप्त-पांसुभिः |
अवाङ्मुखो जिह्म-गतिः श्वसन् मुहुः फणी मयूरस्य तले निषीदति ||13||
तृषा महत्या हत-विक्रमोद्यमः श्वसन् मुहुर्दूर-विदारिताननः |
न हन्त्य् अदूरेपि गजान् मृगेश्वरो विलोल-जिह्वश्चलिताग्र-केसरः ||14||
विशुष्क-कण्ठाहृत-सीकराम्भसो गभस्तिभिर्भानुमतोनुतापिताः |
प्रवृद्ध-तृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोपि बिभ्यति ||15||
हुताग्नि-कल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्त-शरीर-चेतसः |
न भोगिनं घ्नन्ति समीप-वर्तिनं कलाप-चक्रेषु निवेशिताननम् ||16||
सभ-द्रुमस्तं परिशुष्क-कर्दमं सरः कह्नन् नायतपोतृ-मण्डलैः |
रवेर्मयूखैरभिताप्ति भृशं वराह-यूथो विशतीव भूतलम् ||17||
विवस्वता तीक्ष्णतरांशु-मालिना सपङ्क-तोयात् सरसोभितापितः |
उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ||18||
समुद्धृताशेष-मृणाल-जालकं विपन्न-मीनं द्रुत-भीत-सारसम् |
परस्परोत्पीअन-संहतैर्गजैः कृतं सरः सान्द्र-विमर्द-कर्दमम् ||19||
रवि-प्रभोद्भिन्न-शिरोमणि-प्रभोर्विलोल-जिह्वाद्वय-लीढ-मारुतः |
विषाग्नि-सूर्यातप-तापितः फणी न हन्ति मण्डूक-कुलं तृषाकुलम् ||20||
स-फेनलोलायत-वक्त्र-सम्पुटं विनिःसृतालोहित-जिह्वम् उन्मुखम् |
तृषाकुलं निःसृतम् अद्रि-गह्वराद् अवेक्ष्यमाणं महिषी-कुलं जलम् ||21||
पटुतर-दव-दाहोच्छुष्क-सस्य-प्ररोहाः
परुष-पवन-वेगोत्क्षिप्त-संशुष्क-पर्णाः |
दिनकर-परिताप-क्षीण-तोयाः समन्ताद्
विदधति भयम् उच्चैर्वीक्ष्यमाणा वनान्ताः ||22||
श्वसिति विहग-वर्गः शीर्ण-पर्ण-द्रुम-स्थः
कपि-कुलम् उपयाति कलान्तम् अद्रेर्निकुञ्जम् |
भ्रमति गवय-यूथः सर्वतस्तोयम् इच्छञ्
छरभ-कुलम् अजिह्मं प्रोद्धरत्य् अम्बु-कूपम् ||23||
विकच-नव-कुसुम्भ-स्वच्छ-सिन्दूर-भासा
प्रबल-पवन-वेगोद्भूत-वेगेन तूर्णम् |
तट-विटप-लताग्रालिङ्गन-व्याकुलेन
दिशि दिशि परिदग्धा भूतयः पावकेन ||24||
ज्वलति पवन-वृद्धः वर्तमानां दरीषु
स्फुटति पटु-निनादैः शुष्क-वंश-स्थलीषु |
प्रसरति तृण-मध्ये लम्ब-वृद्धिः क्षणेन
ग्लपयति मृग-वर्गं प्रान्त-लग्नो दवाग्निः ||25||
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुरति कनक-गौरः कोटरेषु द्रुमाणाम् |
परिणत-दल-शाखानुत्पतन् प्रांशु-वृक्षान्
भ्रमति पवन-धूतः सर्वतोग्निर्वनान्ते ||26||
गज-गवय-मृगेन्द्रा वह्नि-सन्तप्त-देहाः
सुहृद इव समेता द्वन्द्व-भावं विहाय |
हुतवह-परिखेदाद् आशु निर्गत्य कक्षाद्
विपुल-पुलिन-देशान् निम्नगां संविशन्ति ||27||
कमल-वन-चिताम्बुः पाटलामोद-रम्यः
सुख-सलिल-निषेकः सेव्य-चन्द्रांशु-हारः |
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीते हर्म्य-पृष्ठे सुखेन ||28||
इति प्रथम-सर्गः ग्रीष्म-ऋतु-वर्णने समाप्तः
||1||
--------------------------
(2)
वर्षा-ऋतु-वर्णनम्
समीरकाम्भोधर-मत्त-कुञ्जरस्
तडित्-पताकोशनि-शब्द-मर्दलः |
समागतो राजवद् उद्धत-द्युतिर्
घनागमः कामि-जन-प्रियः प्रिये ||1||
नितान्त-नीलोत्पल-पत्र-कान्तिभिः
क्वचित् प्रभिन्नाञ्जन-राशि-सन्निभैः |
क्वचित् सगर्भ-प्रमदा-स्तन-प्रभैः
समाचितं व्योम धनैः समन्ततः ||2||
तृषाकुलैश्चातक-पक्षिणां कुलैः
प्रयाचितास्तोय-भरावलम्बिनः |
प्रयान्ति मन्दं बहुधारवर्षिणो
बलाहकाः श्रोत्र-मनोहर-स्वनाः ||3||
बलाहकश्चाशनि-शब्द-मर्दलाः
सुरेन्द्र-चापं दधतस्तडिद्-गुणम् |
सुतीक्ष्ण-धारा-पतनोग्र-सायकैस्
तुदन्ति चेतः प्रसभं प्रवासिनाम् ||4||
प्रभिन्न-वैदूर्य-निभैस्तृणाङ्कुरैः
समाचिताप्रोत्थित-कन्दली-दलैः |
विभाति शुक्लेतर-रत्न-भूषिता
वाराङ्गनेव क्षितिरिन्द्र-गोपकैः ||5||
सदा मनोज्ञं स्वनद्-उत्सवोत्सुकं
विकीर्ण-विस्तीर्ण-कलाप-शोभितम् |
ससम्भ्रमालिङ्गन-चुम्बनाकुलं
प्रवृत्त-नृत्यं कुलम् अद्य बर्हिणाम् ||6||
निपातयन्त्यः परितस्तट-द्रुमान्
प्रवृद्ध-वेगैः सलिलैरनिर्मलैः |
स्त्रियः सुदुष्टा इव जाति-विभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ||7||
तृणोत्करैरुद्गत-कोमलाङ्कुरैर्
विचित्र-नील-हरिणी-मुख-क्षतैः |
वनानि वैन्ध्यानि हरन्ति मानसं
विभूषितान्य् उद्गत-पल्लवैर्दृशैः ||8||
विलोल-नेत्रोत्पल-शोभिताननैर्
मृगैः समन्ताद् उपजात-साध्वसैः |
समाचिता सैकतिनी वन-स्थली
समुत्सुकत्वं प्रकरोति चेतसः ||9||
अभीक्ष्णम् उच्चैर्ध्वनता पयो-मुचा
घनान्धकारीकृत-शर्वरीष्व् अपि |
तडित्-प्रभा-दर्शित-मार्ग-भूमयः
प्रयान्ति रागाद् अभिसारिकाः स्तिर्यः ||10||
पयोधरैर्भीम-गभीर-निःस्वनैस्
तडिद्भिरुद्वेजित-चेतसो भृशम् |
कृतापराधान् अपि योषितः प्रियान्
परिष्वजन्ते शयने निरन्तरम् ||11||
विलोचनेन्दीवर-वारि-बिन्दुभिर्
निषिक्त-बिम्बाधर-चारु-पल्लवाः |
निरस्त-माल्याभरणानुलेपनाः
स्थिता निराशाः प्रमदाः प्रवासिनाम् ||12||
विपाण्डुरं कीट-रजस्-तृणान्वितं
भुजङ्गवद् वक्र-गति-प्रसर्पितम् |
स-साध्वसैर्भेक-कुलैर्निरीक्षितं
प्रयाति निम्नाभिमुखं नवोदकम् ||13||
विपत्र-पुष्पां नलिनीं समुत्सुका
विहाय भृङ्गाः श्रुति-हारि-निःस्वनाः |
पतन्ति मूढाः शिखिनां प्रनृत्यतां
कलाप-चक्रेषु नवोत्पलाशया ||14||
वन-द्विपानां नव-वारिद-स्वनैर्
मदान्वितानां ध्वनतां मुहुर्मुहुः |
कपोल-देशा विमलोत्पल-प्रभाः
सभृङ्ग-यूथैर्मद-वारिभिश्चिता ||15||
सितोत्पलाभाम्बुद-चुम्बितोपलाः
समाचिताः प्रस्रवणैः समन्ततः |
प्रवृत्त-नृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ||16||
कदम्ब-सर्जार्जुन-केतकी-वनं
विकम्पयंस्तत्-कुसुमाधिवासिनः |
समीकराभोधर-सङ्ग-शीतलः
समीरणः कं न करोति सोत्सुकम् ||17||
शिरोरुहैः श्रोणि-तटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभिः |
स्तनैः सहारैर्वदनैः ससीधुभिः
स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ||18||
तडिल्-लता-शक्र-धनुर्-विभूषिताः
पयोधरास्तोय-भरावलम्बिनः |
स्त्रियश्च काञ्ची-मणि-कुण्डलोज्ज्वला
हरन्ति चेतो युगपत् प्रवासिनाम् ||19||
मालाः कदम्ब-नव-केसर-केतकीभिर्
आयोजिताः शिरसि बिभ्रति योषितोद्य |
कर्णान्तरेषु ककुभ-द्रुम-मञ्जरीभिर्
इच्छानुकूल-रचितान् अवतंसकांश्च ||20||
कालागुरु-प्रचुर-चन्दन-चर्चिताङ्ग्यः
पुष्पावतंस-सुरभी-कृत-केश-पाशाः |
श्रुत्वा ध्वनिं जल-मुचां त्वरितं प्रदोषं
शय्या-गृहं गुरु-गृहात् प्रदिशन्ति नार्यः ||21||
कुवलय-दल-नीलैरुन्नतैस्तोय-नम्रैर्
मृदु-पवनैर्मन्द-मन्दं चलद्भिः |
अपहृतम् इव चेतस्तोयदैः सेन्द्र-चापैः
पथिक-जन-वधूनां तद्-वियोगाकुलानाम् ||22||
मुदित इव कदम्बैर्जाति-पुष्पैः समन्तात्
पवन-चलित-शाखैः शाखिभिर्नृत्यतीव |
हसितम् इव विधत्ते सूचिभिः केतकीनां
नव-सलिल-निषेक-च्छिन्न-तापो वनान्तः ||23||
शिरसि बकुल-मालां मालतीभिः समेतां
विकसित-नव-पुष्पैर्यूथिका-कुड्मलैश्च |
विकच-नव-कदम्बैः कर्णपूरं वधूनां
रचयति जलदौघः कान्तवत् काल एषः ||24||
दधति वर-कुचाग्रैरुन्नतैर्हार-यष्टिं
प्रतनु-सित-दुकूलान्यायतैः श्रोणि-बिम्बैः |
नव-जल-कण-सेकाद् उद्गतां रोम-राजीं
ललित-वलि-विभङ्गैर्मध्य-देशैश्च नार्यः ||25||
नव-जल-कण-सङ्गाच् छीतताम् आददानः
कुसुम-भर-नतानां लासकः पादपानाम् |
जनित-रुचिर-गन्धः केतकीनां रजोभिः
परिहरति नभस्वान् प्रोषितानां मनांसि ||26||
जलधर-विनतानाम् आशरयोस्माकम् उच्चिअर्
अयम् इति जल-सेकैस्तोयदास्तोय-नम्राः |
अतिशय-परुषाभिर्ग्रीष्म-वह्नेः शिलाभिः
समुपजनित-तापं ह्लादयन्तीव विन्ध्यम् ||27||
बहु-गुण-रमणीयः कामिनी-चित्त-हारी
तरु-विटप-लतानां बान्धवो निर्विकारः |
जलद-समय एव प्राणिनां प्राण-भूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि ||28||
इति द्वितीय-सर्गः वर्षा-ऋतु-वर्णने समाप्तः
||2||
--------------------------
(3)
शरद्-ऋतु-वर्णनम्
काशांशुका विकच-पद्म-मनोज्ञ-वक्त्रा
सोन्माद-हंस-रव-नूपुर-नाद-रम्या |
आपक्व-शालि-रुचिरा तनु-गात्र-यष्टिः
प्राप्ता शरन्-नव-वधूरिव रूप-रम्या ||1||
काशैर्मही शिशिर-दीधितिना रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि |
सप्त-च्छदैः कुसुम-भार-नतैर्वनान्ताः
शुक्लीकृतान्य् उपवनानि च मालतीभिः ||2||
चञ्चन्-मनोज्ञ-शफरी-रसना-कलापाः
पर्यन्त-संस्थित-सिताण्डज-पङ्क्ति-हाराः |
नद्यो विशाल-पुलिनान्त-नितम्ब-बिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ||3||
व्योम क्वचिद् रजत-शङ्ख-मृणाल-गौरैस्
त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः |
संलक्ष्यते पवन-वेग-चलैः पयोदै
राजेव चामर-वरैरुपवीज्यमानः ||4||
भिन्नाञ्जन-प्रचय-कान्ति नभो मनोज्ञं
बन्धूक-पुष्प-रचितारुणता च भूमिः |
वप्राश्च चारु कमलावृत-भूमि-भागाः
प्रोत्कण्ठयन्ति न मनो भुवि कस्य युतः ||5||
मन्दानिलाकुलित-चारुतराग्र-शाखः
पुष्पोद्गम-प्रचय-कोमल-पल्लवाग्रः |
मत्त-द्विरेफ-परिपीत-मधु-प्रसेकश्
चित्तं विसारयति कस्य न कोविदारः ||6||
तारा-गण-प्रवर-भूषणम् उद्वहन्ती
मेघावरोध-परिमुक्त-शशाङ्क-वक्त्रा |
ज्योत्स्ना-दुकूलम् अमलं रजनी दधाना
वृद्धिं प्रयात्य् अनुदिनं प्रमदेव बाला ||7||
कारण्डवानन-विघट्टित-वीचि-मालाः
कादम्ब-सारस-चयाकुल-तीर-देशाः |
कुर्वन्ति हंस-विरुतैः परितो जनस्य
प्रीतिं सरोरुह-रजोरुणितास्तटिन्यः ||8||
नेत्रोत्सवो हृदय-हारि-मरीचि-मालः
प्रह्लादकः शिशिर-सीकर-वारि-वर्षी |
पत्युर्वियोग-विष-दिग्ध-शर-क्षतानां
चन्द्रो वहत्य् अतितरां तनुम् अङ्गनानाम् ||9||
आकम्पयन् फल-भरानत-शालि-जालान्
आनर्तयंस्तरु-वरान् कुसुमावनम्रान् |
उत्फुल्ल-पङ्कज-वनां नलिनीं विधुन्वन्
यूनांमनश्चलयति प्रसभं नभस्वान् ||10||
सोन्माद-हंस-मिथुनैरुपशोभितानि
स्वच्छ-प्रफुल्ल-कमलोत्पल-भूषितानि |
मन्द-प्रभात-पवनोद्गत-वीचि-मालान्य्
उत्कण्ठयन्ति सहसा हृदयं सरांसि ||11||
नष्टं धनुर्-बल-भिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य वियत्-पताका |
धुन्वन्ति पक्ष-पवनैर्न नभो बलाकाः
पश्यन्ति नोन्नत-मुखा गगनं मयूराः ||12||
नृत्य-प्रयोग-रहिताञ् छिखिनो विहाय
हंसान् उपैति मदनो मधुर-प्रगीतान् |
मुक्त्वा कदम्ब-कुटजार्जुन-सर्ज-नीपान्
सप्त-च्छदानुपगता कुसुमोद्गम-श्रीः ||13||
शेफालिकाकुसुम-गन्ध-मनोहराणि
स्वस्थ-स्थिताण्डज-कुल-प्रतिमाद् इमानि |
पर्यन्त-सस्थित-मृगी-नयनोत्पलानि
प्रोत्कण्ठयन्त्य् उअप्वनानि मनांसि पुंसाम् ||14||
कह्लार-पद्म-कुमुदानि मुहुर्विधुन्वंस्
तत्-सङ्गमाद् अधिक-शीतलताम् उपेतः |
उत्कण्ठयत्य् अतितरां पवनः प्रभाते
पत्रान्त-लग्न-तुहिनाम्बु-विधूयमानः ||15||
सम्पन्न-शालि-निचयावृत-भूतलानि
स्वस्थ-स्थित-प्रचुर-गोकुल-शोभितानि |
हंसैः स-सारस-कुलैः प्रतिनादितानि
सोमान्तराणि जनयन्ति नृणां प्रमोदम् ||16||
हंसैर्जिता सुललिता गतिरङ्गनानाम्
अम्भोरुहैर्विकसितैर्मुख-चन्द्र-कान्तिः |
नीलोत्पलैर्मद-कलानि विलोकितानि
भ्रू-विभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ||17||
श्यामा लताः कुसुम-भार-नत-प्रवाला
स्त्रीणां हरन्ति घृत-भूषण-बाहु-कान्तिम् |
दन्तावभा-विशद-स्मित-चन्द्र-कान्तिं
कङ्केलि-पुष्प-रुचिरा नव-मालती च ||18||
केशान् नितान्त-घननी-कवि-कुञ्चिताग्रान्
आपूरयन्ति वनिता नव-मालतीभिः |
कर्णेषु च प्रवर-काञ्चन-कुड्मलेषु
नीलोत्पलानि विविधानि निवेशयन्ति ||19||
हारैः स-चन्दन-रसैः स्तन-मण्डलानि
श्रोणी-तटं सुविपुलं रसना-कलापैः |
पादाम्बुजानि कल-नूपुर-शेखरैश्च
नार्यः प्रहृष्ट-मनसोद्य विभूषयन्ति ||20||
स्फुट-कुमुद-चितानां राजहंस-स्थितानां
मरकत-मणि-भासा वारिणा भूषितानाम् |
श्रियम् अतिशय-रूपां व्योम तोयाशयानां
वहति विगत-मेघं चन्द्र-तारावकीर्णम् ||21||
शरदि कुमुद-सङ्गाद् वायवो वान्ति शीता
विगत-जलद-वृन्दा दिग्-विभागा मनोज्ञाः |
विगत-कलुषम् अम्भः श्यान-पङ्का धरित्री
विमल-किरण-चन्द्रं व्योम तारा-विचित्रम् ||22||
दिवस-कर-मयूखैर्बोध्यमानं प्रभाते
वर-युवति-मुखाभं पङ्कजं जृम्भतेद्य |
कुमुदम् अपि गतेस्तं लीयते चन्द्र-बिम्बे
हसितम् इव वधूनां प्रोषितेषु प्रियेषु ||23||
असित-नयन-लक्ष्मीं लक्षयित्वोत्पलेषु
क्वणित-कनकाञ्चीं मत्त-हंस-स्वनेषु |
अधर-रुचिर-शोभां बन्धु-जीवे प्रियाणां
पथिक-जन इदानीं रोदिति भ्रान्त-चित्तः ||24||
स्त्रीणां विहाय वदनेषु शशाङ्क-लक्ष्मीं
कामं च हंस-वचनं मणि-नूपुरेषु |
बन्धूक-कान्तिम् अधरेषु मनोहरेषु
कापि प्रयाति सुभगा शरदागम-श्रीः ||25||
विकच-कमल-वक्त्रा फुल्ल-नीलोत्पलाक्षी
विकसित-नव-काश-श्वेत-वासो वसाना |
कुमुद-रुचिर-कान्तिः कामिनीवोन्मदेयं
प्रतिदिशतु शरदश्चेतसः प्रीतिम् अग्र्याम् ||26||
इति तृतीयः सर्गः शरद्-ऋतु-वर्णने समाप्तः
||3||
--------------------------
(4)
हेमन्त-ऋतु-वर्णनम्
नव-प्रवालोद्गम-सस्य-रम्यः
प्रफुल्लोध्रः परिपक्व-शालिः |
विलीन-पद्मः प्रपतत्-तुषारो
हेमन्त-कालः समुपागतोयम् ||1||
मनोहरैः कुङ्कुम-राग-रक्तस्
तुषार-कुन्देन्दु-निभैश्च हारैः |
विलासिनीनां स्तन-शालिनीनाम्
अलंक्रियन्ते स्तन-मण्डलानि ||2||
न बाहु-युग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि |
नितम्ब-बिम्बेषु नवं दुकूलं
तन्व्-अंशुकं पीन-पयोधरेषु ||3||
काञ्ची-गुणैः काञ्चन-रत्न-चित्रैर्
नो भूषयन्ति प्रमदा नितम्बम् |
न नूपुरैर्हंस-रुतं भजद्भिः
पादाम्बुजान्य् अम्बुज-कान्ति-भाञ्जि ||4||
गात्राणि कालीय-कचर्चितानि
सपत्रलेखानि मुखाम्बुजानि |
शिरांसि कालागुरु-धूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ||5||
रति-श्रम-क्षाम-विपाण्डु-वक्त्राः
सम्प्राप्त-हर्षाभ्युदयास्तरुण्यः |
हसन्ति नोच्चैर्दशनाग्र-भिन्नान्
प्रपीयमानान् अधरान् अवेक्ष्य ||6||
पीन-स्तनोरः-स्थल-भाग-शोभाम्
आसाद्य तत्-पीडन-जात-खेदः |
तृणाग्र-लग्नैस्तुहिनैः पतद्भिर्
आक्रन्दतीवोषसि शीत-कालः ||7||
प्रभूत-शालि-प्रसवैश्चितानि
मृगाङ्गना-यूथ-विभूषितानि |
मनोहर-क्रौञ्च-निनादितानि
सीमान्तराण्य् उत्सुकयन्ति चेतः ||8||
प्रफुल्ल-नीलोत्पल-शोभितानि
सोन्माद-कादम्ब-विभूषितानि |
प्रसन्न-तोयानि सुशीतलानि
सरांसि चेतांसि हरन्ति पुंसाम् ||9||
पाकं व्रजन्ति हिम-जात-शीतैर्
आधूयमाना सततं मरुद्भिः |
प्रिये प्रियङ्गुः प्रिय-विप्रयुक्ताः
विपाण्डुतां याति विलासिनीव ||10||
पुष्पासवामोदि-सुगन्धि-वक्त्रो
निःश्वास-वातैः सुरभी-कृताङ्गः |
परस्पराङ्ग-व्यतिरिक्त-शायी
शेते जनः काम-रसानुविद्धः ||11||
दन्त-च्छदैः स-व्रण-दन्त-चिह्नैः
स्तनैश्च पाण्य्-अग्र-कृताभिलेखैः |
संसूच्यते निर्दयम् अङ्गनानां
रतोपयोगो नव-यौवनानाम् ||12||
काचिद् विभूषयति दर्पण-सक्त-हस्ता
बालातपेषु वनिता वदनारविन्दम् |
दन्त-च्छदं प्रियतमेन निपीत-सारं
दन्ताग्र-भिन्नम् अवकृष्य निरीक्षते च ||13||
अन्या प्रकाम-सुरत-श्रम-खिन्न-देहा
रात्रि-प्रजागर-विपाटल-नेत्र-पद्मा |
स्रस्तांस-देश-लुलिताकुल-केश-पाशा
निद्रां प्रयाति मृदु-सूर्य-कराभितप्ता ||14||
निर्माल्य-दाम परिमुक्त-मनोज्ञ-गन्धं
मूर्ध्नोपनीय घन-नील-शिरोरुहान्ताः |
पीनोन्नत-स्तन-भरानत-गात्र-यष्ट्यः
कुर्वन्ति केश-रचनाम् अपरास्तरुण्यः ||15||
अन्या प्रियेण परिमुक्तम् अवेक्ष्य गात्रं
हर्षान्विता विरचिताधर-चारु-शोभा |
कूर्पासकं परिदधाति नख-क्षताङ्गी
व्यालम्बि-नील-ललितालक-कुञ्चिताक्षी ||16||
अन्याश्चिरं सुरत-केलि-परिश्रमेण
खेदं गताः प्रशिथिलीकृत-गात्र-यष्ट्यः |
संहृष्यमाण-पुलकोरुपयोधरान्ता
अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ||17||
बहु-गुण-रमणीयो योषितां चित्त-हारी
परिणत-बहु-शालि-व्याकुल-ग्राम-सीमा |
सततम् अतिमनोज्ञः क्रौञ्च-माला-परीतः
प्रदिशतु हिम-युक्तः काल एष सुखं वः ||18||
इति चतुर्थ-सर्गः हेमन्त-ऋतु-वर्णने समाप्तः
||4||
--------------------------
(5)
शिशिर-ऋतु-वर्णनम्
प्ररूढ-शाल्य्-अंशु-चयैर्मनोहरं
क्वचित् स्थित-क्रौञ्च-निनाद-राजितम् |
प्रकाम-कामं प्रमदा-जन-प्रियं
वरोरु कालं शिशिराह्वयं शृणु ||1||
निरुद्ध-वातायन-मन्दिरोदरं
हुताशनो भानुमतो गभस्तयः |
गुरूणि वासांस्य् अबलाः स-यौवनाः
प्रयान्ति कालेत्र जनस्य सेव्यताम् ||2||
न चन्दनं चन्द्र-मरीचि-शीतलाः
नहर्म्य-पृष्ठं शरद्-इन्दु-निर्मलम् |
न वायवः सान्द्र-तुषार-शीतला
जनस्य चित्तं रमयन्ति साम्प्रतम् ||3||
तुषार-सङ्घात-निपात-शीतलाः
सशाङ्कभाभिः शिशिरी-कृताः पुनः |
विपाण्डुतारागण-जिह्म-भूषिता
जनस्य सेव्या न भवन्ति रात्रयः ||4||
गृहीत-ताम्बूल-विलेपन-स्रजः
मुखासवामोदित-वक्त्र-पङ्कजाः |
प्रकाम-कालागुरु-धूप-वासितं
विशन्ति शय्या-गृहम् उत्सुकाः स्त्रियः ||5||
कृतापराधान् बहुशोपि तर्जितान्
सवेपथून् साध्वस-लुप्त-चेतसः |
निरीक्ष्य भर्त्न् सुरताभिलाषिणः
स्त्रियोपराधान् समदा विसस्मरुः ||6||
प्रकाम-कामैर्युवभिः सनिर्दयं
निशासु दीर्घास्वभिरामिताश्चिरम् |
भ्रमन्ति मन्दं श्रम-खेदितोरसः
क्षपावसाने नव-यौवनाः स्त्रियः ||7||
मनोज्ञ-कूर्पासक-पीडित-स्तनाः
सराग-कौशेयक-भूषितोरसः |
निवेशितान्तः-कुसुमैः शिरोरुहैर्
विभूषयन्तीव हिमागमं स्त्रियः ||8||
पयोधरैः कुङ्कुम-राग-पिञ्जरैः
सुखोपसेव्यैर्नव-यौवनोष्मभिः |
विलासिनीभिः परिपीडितोरसः
स्वपन्ति शीतं परिभूय कामिनः ||9||
सुगन्धि-निश्वास-विकम्पितोत्पलं
मनोहरं काम-रति-प्रबोधकम् |
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं सदनीयम् उत्तमम् ||10||
अपगत-मद-रागा योषिद् एका प्रभाते
कृत-निविड-कुचाग्रा पत्युरालिङ्गनेन |
प्रियतम-परिभुक्तं वीक्षमाणा स्व-देहं
व्रजति शयन-वासाद् वासम् अन्यद् धसन्ती ||11||
अगुरु-सुरभि-धूपामोदितं केश-पाशं
गलित-कुसुम-मालं तन्वती कुञ्चिताग्रम् |
त्यजति गुरु-नितम्बा निम्न-मध्यावसाना
उषसि शयनम् अन्या कामिनी चारु-शोभाम् ||12||
कनक-कमल-कान्तैः साद्य एवाम्बुधौतैः
श्रवण-तट-निषक्तैः पाटलोपान्त-नेत्रैः |
उषसि वदम-बिम्बै रस-संसक्त-केशैः
श्रिय इव गृह-मध्ये संस्थिता योषितोद्य ||13||
पृथु-जघन-भरार्ताः किञ्चिद् आनम्र-मध्याः
स्तन-भर-परिखेदान्मन्द-मन्दं व्रजन्त्यः |
सुरत-समय-वेशं नैशम् आशु प्रहाय
दधति दिवस-योग्यं वेषम् अन्यास्तरुण्यः ||14||
नख-पद-चित-भागान् वीक्षमाणाः स्तनाग्रान्
अघरकिसलयाग्रं दन्त-भिन्नं स्पृशन्त्यः |
अभिमत-रसम् एतं नन्दयन्त्यस्तरुण्यः
सवितुरुदय-काले भूस्यन्त्याननानि ||15||
प्रचुर-गुड-विकारः स्वादु-शालीक्षु-रम्यः
प्रबल-सुरत-केलिर्जात-कन्दर्प-दर्पः |
प्रिय-जन-रहितानां चित्त-सन्ताप-हेतुः
शिशिर-समय एष श्रेयसे वोस्तु नित्यम् ||16||
इति पञ्चम-सर्गः शिशिर-ऋतु-वर्णने समाप्तः
||5||
--------------------------
(6)
वसन्त-ऋतु-वर्णनम्
प्रफुल्ल-चूताङ्कुर-तीक्ष्ण-सायो
द्विरेफ-माला-विलसद्-धनुर्-गुणः |
मनांसि वेद्धुं सुरत-प्रसङ्गिनां
वसन्त-योद्धा समुपागतः प्रिये ||1||
द्रुमाः सपुष्पाः सलिलं सपद्मं
स्तिर्यः स-कामाः पवनः सुगन्धिः |
सुखाः प्रदोषा दिवसाश्च रम्याः
सर्वं प्रिये चारुतरं वसन्ते ||2||
वापी-जलानां मणि-मेखलानां
शशाङ्क-भासां प्रमदा-जनानाम् |
चूत-द्रुमाणां कुसुमान्वितानां
ददाति सौभाग्य-मयं वसन्तः ||3||
कुसुम्भ-रागारुणितैर्दुकूलैर्
नितम्ब-बिम्बानि विलासिनीनानाम् |
रक्तांशुकैः कुङ्कुम-राग-गौरैर्
अलङ्क्रियन्ते स्तन-मण्डलानि ||4||
कर्णेषु योग्यं नव-कर्णिकारं
चलेषु नीलेष्व् अलकेष्व् अशोकम् |
पुष्पं च फुल्लं नव-मल्लिकायाः
प्रयाति कान्तिं मदाजनानाम् ||5||
स्तनेषु हाराः सित-चन्दनार्द्रा
भुजेषु सङ्गं वलयाङ्गदानि |
प्रयान्त्य् अनङ्गातुर-मानसानां
नितम्बिनीनां जघनेषु काञ्च्यः ||6||
सपत्र-लेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु |
रत्नान्तरे मौक्तिक-सङ्ग-रम्यः
स्वेदागमो विस्तरताम् उपैति ||7||
उच्छ्वासयन्त्यः श्लथ-बन्धनानि
गात्राणि कन्दर्प-समाकुलानि |
समीप-वर्तिष्व् अधुना प्रियेषु
समुत्सुका एव भवन्ति नार्यः ||8||
तनूनि पाण्डूनि स-मन्थराणि
मुहुर्मुहुर्जृम्भण-तत्-पराणि |
अङ्गान्य् अनङ्गः प्रमदा-जनस्य
करोति लावण्य-स-सम्भ्रमाणि ||9||
नेत्रेषु लोलो मदिरालसेषु
गण्डेषु पाण्डुः कठिनः स्तनेषु |
मध्येषु निम्नो जघनेषु पीनः
स्त्रीणाम् अनङ्गो बहुधा स्थितोद्य ||10||
अङ्गानि निद्रालस-विभ्रमाणि
वाक्यानि किञ्चिन्मद-लालसानि |
भ्रू-क्षेप-जिह्मानि च वीक्षितानि
चकार कामः प्रमदा-जनानाम् ||11||
प्रियङ्गु-कालीयक-कुङ्कुमाक्तं
स्तनेषु गौरेषु विलासिनीभिः |
आलिप्यन्ते चन्दनम् अङ्गनाभिर्
मदालसाभिर्मृगनाभि-युक्तम् ||12||
गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षा-रस-रञ्जितानि |
सुगन्धि-कालागुरु-धूपितानि
धत्ते जनः काम-मदालसाङ्गः ||13||
पुंस्कोकिलश्चूतर-सासवानि
मत्तः प्रियां चुम्बति राग-हृष्टः |
कूजद्-द्विरेफोप्ययम् अम्बुजस्थः
प्रियं प्रियायाः प्रकरोति चाटु ||14||
ताम्र-प्रवाल-स्तवकावनम्राश्
चूत-द्रुमाः पुष्पित-चारु-शाखाः |
कुर्वन्ति कामं पवनावधूताः
पर्युत्सुकं मानसम् अङ्गनानाम् ||15||
आमूलतो विद्रुम-राग-ताम्रं
स-पल्लवाः पुष्प-चयं दधानाः |
कुर्वन्त्य् अशोका हृदयं स-शोकं
निरीक्ष्यमाणा नव-यौवनानाम् ||16||
मत्त-द्विरेफ-परिचुम्बित-चारु-पुष्पा
मन्दानिलाकुलित-नम्र-मृदु-प्रवालाः |
कुर्वन्ति कामि-मनसां सहसोत्सुकत्वं
चूताभिराम-कलिकाः समवेक्ष्यमाणाः ||17||
कान्ता-मुख-द्युति-जुषाम् अपि चोद्गतानां
शोभां परां कुरवक-द्रुम-मञ्जरीणाम् |
दृष्ट्वा प्रिये सहृदयस्य भवेन् न
कस्य कन्दर्प-बाण-पतन-व्यथितं हि चेतः ||18||
आदीप्त-वह्नि-सदृशैर्मरुतावधूतैः
सर्वत्र किंशुक-वनैः कुसुमावनम्रैः |
सद्यो वसन्त-समये हि समाचितेयं
रक्तांशुका नव-वधूरिव भाति भूमिः ||19||
किं किंशुकैः शुक-मुख-च्छविक्भिर्न भिन्नं
किं कर्णिकार-कुसुमैर्न कृतं नु दग्धम् |
यत् कोकिलः पुनरयं मधुरैर्वचोभिर्
यूनां मनः सुवदना-निहितं निहन्ति ||20||
पुंस्कोकिलैः कल-वचोभिरुपात्त-हर्षैः
कूजद्भिरुन्मद-कलानि वचांसि भृङ्गैः |
लज्जान्वितं स-विनयं हृदयं क्षणेन
पर्याकुलं कुल-गृहेपि कृतं वधूनाम् ||21||
आकम्पयन् कुसुमिताः सहकार-शाखा
विस्तारयन् परभूतस्य वचांसि दिक्षु |
वायुर्विवाति हृदयानि हरन् नराणां
नीहार-पात-विगमात् सुभगो वसन्ते ||22||
कुन्दैः सविभ्रम-वधू-हसितावदातैर्
उद्द्योतितान्य् उपवनानि मनोहराणि |
चित्तं मुनेरपि हरन्ति निवृत्त-रागं
प्राग् एव राग-मलिनानि मनांसि यूनाम् ||23||
आलम्बि-हेम-रसनाः स्तन-सक्त-हाराः
कन्दर्प-शिथिलीकृत-गात्र-यष्ट्यः |
मासे मधौ मधुर-कोकिल-भृङ्ग-नादैर्
नार्यो हरन्ति हृदयं प्रसभं नराणाम् ||24||
नाना-मनोज्ञ-कुसुम-द्रुम-भूषितान्तान्
हृष्टान्य् अपुष्ट-निनदाकुल-सानु-देशान् |
शैलेय-जाल-परिणद्ध-शिला-तलौघान्
दृष्ट्वा जनः क्षितिभृतो मुदम् एति सर्वः ||25||
नेत्रे निमीलयति रोदिति याति शोकं
करेण विरुणद्धि विरौति चोच्चैः |
कान्ता-वियोग-परिखेदित-चित्त-वृत्तिर्
दृष्ट्वाध्वगः कुसुमितान् सहकार-वृक्षान् ||26||
स-मद-मधु-भराणां कोकिलानां च नादैः
कुसुमित-सहकारैः कर्णिकारैश्च रम्यः |
इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
तुदति कुसुम-मासो मन्मथोद्वेजनाय ||27||
आम्री-मञ्जुल-मञ्जरी-वर-शरः सत्-किंशुकं यद्-धनुर्
ज्या यस्यालि-कुलं कलङ्क-रहितं छत्रं सितांशुः सितम् |
मत्तेभो मलयानिलः परभृतो यद् वन्दिनो लोक-जित्
सोयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ||28||
इति षष्ठः सर्गः वसन्त-ऋतु-वर्णने समाप्तः
||6||
समाप्तश्चायं ग्रन्थः
--------------------------