To Search in Text
step-1
step-2
Press Control + F
की-वर्ड की खोज के लिये : -
step-1
step2.
कण्ट्रोल एफ दबाएँ।.
शृङ्गार-शतकम्
भर्तृहरेः
शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृह-कुम्भ-दासाः |
वाचाम् अगोचर-चरित्र-विचित्रिताय
तस्मै नमो भगवते मकर-ध्वजाय ||1||
स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्ध-कटाक्ष-वीक्षणैः |
वचोभिरीर्ष्या-कलहेन लीलया
समस्त-भावैः खलु बन्धनं स्त्रियः ||2||
भ्रू-चातुर्यात् कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः |
लीला-मन्दं प्रस्थितं च स्थितं च
स्त्रीणाम् एतद् भूषणं चायुधं च ||3||
क्वचित् स-भ्रू-भङ्गैः क्वचिद् अपि च लज्जा-परिगतैः
क्वचिद् भूरि-त्रस्तैः क्वचिद् अपि च लीला-विललितैः |
कुमारीणाम् एतैर्मदन-सुभगैर्नेत्र-वलितैः
स्फुरन्-नीलाब्जानां प्रकर-परिकीर्णा इव दिशः ||4||
वक्त्रं चन्द्र-विकासि पङ्कज-परीहास-क्षमे लोचने
वर्णः स्वर्णम् अपाकरिष्णुरलिनी-जिष्णुः कचानां चयः |
बक्षोजाव् इभ-कुम्भ-विभ्रम-हरौ गुर्वी नितम्ब-स्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ||5||
स्मित-किञ्चिन्-मुग्धं सरल-तरलो दृष्टि-विभवः
परिस्पन्दो वाचाम् अभिनव-विलासोक्ति-सरसः |
गतानाम् आरम्भः किसलयित-लीला-परिकरः
स्पृशन्त्यास्तारुण्यं किम् इव न हि रम्यं मृगदृशः ||6||
द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेम-प्रसन्नं मुखं
घ्रातवेष्व् अपि किं तद्-आस्य-पवनः श्रव्येषु किं तद्-वचः |
किं स्वाद्येषु तद्-ओष्ठ-पल्लव-रसः स्पृश्येषु किं तद्-वपु-
र्ध्येयं किं नव-यौवने सहृदयैः सर्वत्र तद्-विभ्रमाः ||7||
एताश्चलद्-वलय-संहति-मेखलोत्थ-
झङ्कार-नूपुर-पराजित-राज-हंस्यः |
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः ||8||
कुङ्कुम-पङ्क-कलङ्कित-देहा
गौर-पयोधर-कम्पित-हारा |
नूपुर-हंस-रणत्-पद्मा
कं न वशीकुरुते भुवि रामा ||9||
नूनं हि ते कवि-वरा विपरीत-वाचो
ये नित्यम् आहुरबला इति कामिनीस्ताः |
याभिर्विलोलितर-तारक-दृष्टि-पातैः
शक्रादयोपि विजितास्त्व् अबलाः कथं ताः ||10||
नूनम् आज्ञा-करस्तस्याः सुभ्रुवो मकर-ध्वजः |
यतस्तन्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते ||11||
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्-वक्त्रम् अपि स्वभाव-शुचि-भीः कीर्णं द्विजानां गणैः |
मुक्तानां सतताधिवास-रुचिरौ वक्षोज-कुम्भाव् इमा-
वित्थं तन्वि वपुः प्रशान्तम् अपि तेरागं करोत्य् एव नः ||12||
मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते |
यया विध्यसि चेतांसि गुणैरेव न सायकैः ||13||
सति प्रदीपे सत्य् अग्नौ सत्सु तारारवीन्दुषु |
विना मे मृग-शावाक्ष्या तमो-भूतम् इदं जगत् ||14||
उद्वृत्तः स्तन-भार एष तरले नेत्रे चले भ्रू-लते
रागाधिष्ठितम् ओष्ठ-पल्लवम् इदं कुर्वन्तु नाम व्यथाम् |
सौभाग्याक्षर-मालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापम् अधिकं रोमावलिः केन सा ||15||
मुखेन चन्द्र-कान्तेन महानीलैः शिरोरुहैः |
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ||16||
गुरुणा स्तन-भारेण मुख-चन्द्रेण भास्वता |
शनैश्-चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ||17||
तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किम् आकुलत्वम् |
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ||18||
इमे तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरत-
प्रताप-प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः |
चिरं चेतश्चोरा अभिनव-विकारैक-गुरवो
विलास-व्यापाराः किम् अपि विजयन्ते मृग-दृशाम् ||19||
प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः |
प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी
रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ||20||
विश्रम्य विश्रम्य वन-द्रुमाणां
छायासु तन्वी विचचार काचित् |
स्तनोत्तरीयेण करोद्धृतेन
निवारयन्ती शशिनो मयूखान् ||21||
अदर्शने दर्शन-मात्र-कामा
दृष्ट्वा परिष्वङ्ग-सुखैक-लोला |
आलिङ्गितायां पुनरायताक्ष्या-
माशास्महे विग्रहयोरभेदम् ||22||
मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् |
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ||23||
प्राङ् माम् एति मनाग् अनागत-रसं जाताभिलाषां ततः
सव्रीडं तद् अनु श्लथोद्यमम् अथ प्रध्वस्त-धैर्यं पुनः |
प्रेमार्द्रं स्पृहणीय-निर्भर-रहः क्रीडा-प्रगल्भं ततो
निःसङ्गाङ्ग-विकर्षणाधिक-सुख-रम्यं कुल-स्त्री-रतम् ||24||
उरसि निपतितानां स्रस्त-धम्मिल्लकानां
मुकुलित-नयनानां किञ्चिद्-उन्मीलितानाम् |
उपरि सुरत-खेद-स्विन्न-गण्ड-स्थलाना-
मधर-मधु वधूनां भाग्यवन्तः पिबन्ति ||25||
आमीलित-नयनानां यः
सुरतरसोनु संविदं भाति |
मिथुरैर्मिथोवधारित-
मवितथम् इदम् एव काम-निर्बर्हणम् ||26||
इदम् अनुचितम् अक्रमश्च पुंसां
यद् इह जरास्व् अपि मन्मथा विकाराः |
तद् अपि च न कृतं नितम्बिनीनां
स्तन-पतनावधि जीवितं रतं वा ||27||
राजस्-तृष्णाम्बुराशेर्न हि जगति गतः कश्चिद् एवावसानं
को वार्थोर्थैः प्रभूतैः स्व-वपुषि गलिते यौवने सानुरागे |
गच्छामः सद्म यावद् विकसित-नयनेन्दीवरालोकिनीना-
माक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ||28||
रागस्यागारम् एकं नरक-शत-महा-दुःख-सम्प्राप्ति-हेतु-
र्मोहस्योत्पत्ति-बीजं जलधर-पटलं ज्ञान-ताराधिपस्य |
कन्दर्पस्यैक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं
लोकेस्मिन् न ह्य् अर्थ-व्रज-कुल-भवन-यौवनाद् अन्यद् अस्ति ||29||
शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि
प्रद्युम्न-प्रिय-बान्धवे चतुर-वाङ्-मुक्ता-फलोदन्वति |
तन्वी-नेत्र-चकोर-पावन-विधौ सौभाग्य-लक्ष्मी-निधौ
धन्यः कोपि न विक्रियां कलयति प्राप्ते नवे यौवने ||30||
संसारेस्मिन्न् असारे कुनृपति-भवन-द्वार-सेवा-कलङ्क-
व्यासङ्ग-व्यस्त-धैर्यं कथम् अमल-धियो मानसं संविदध्युः |
यद्य् एताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युरम्भोज-नेत्राः
प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमन्-मध्य-भाजस्तरुण्यः ||31||
सिद्धाध्यासित-कन्दरे हर-वृष-स्कन्धावरुग्ण-द्रुमे
गङ्गा-धौत-शिला-तले हिमवतः स्थाने स्थिते श्रेयसि |
कः कुर्वीत शिरः प्रणाम-मलिनं म्लानं मनस्वी जनो
यद्-वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः ||32||
संसार तव पर्यन्त-पदवी न दवीयसी |
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ||33||
दिश वन-हरिणीभ्यो वंश-काण्ड-च्छवीनां
कवलम् उपल-कोटि-च्छिन्न-मूलं कुशानाम् |
शक-युवति-कपोलापाण्डुताम्बूल-वल्ली-
दलम् अरुण-नखाग्रैः पाटितं वा वधूभ्यः ||34||
असाराः सर्वे ते विरति-विरसाः पाप-विषया
जुगुप्स्यन्तां यद् वा ननु सकल-दोषास्पदम् इति |
तथाप्य् एतद्-भूमौ नहि पर-हितात् पुण्यम् अधिकं
न चास्मिन् संसारे कुवलय-दृशो रम्यम् अपरम् ||35||
एतत्-काम-फलो लोके यद् द्वयोरेक-चित्तता |
अन्य-चित्त-कृते कामे शवयोरिव सङ्गमः ||*||
(मर्केद् अस्अन् इन्तेर्पोलतेद् वेर्से)
मात्सर्यम् उत्सार्य विचार्य कार्य-
मार्याः समर्यादम् इदं वदन्तु |
सेव्या नितम्बाः किम् उ भूधराणा-
मत स्मर-स्मेर-विलासिनीनाम् ||36||
संसारे स्वप्न-सारे परिणति-तरले द्वे गती पण्डितानां
तत्त्व-ज्ञानामृताम्भः-प्लव-ललित-धियां यातु कालः कथञ्चित् |
नो चेन् मुग्धाङ्गनानां स्तन-जघन-घनाभोग-सम्भोगिनीनां
स्थूलोपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीलोद्यमानाम् ||37||
आवासः क्रियतां गङ्गे पाप-हारिणि वारिणि |
स्तन-द्वये तरुण्या वा मनोहारिणि हारिणि ||38||
किम् इह बहुभिरुक्तैर्युक्ति-शून्यैः प्रलापै-
र्द्वयम् इह पुरुषाणां सर्वदा सेवनीयम् |
अभिनव-मद-लीला-लालसं सुन्दरीणां
स्तन-भर-परिखिन्नं यौवनं वा वनं वा ||39||
सत्यं जना वच्मि न पक्ष-पाताल्
लोकेषु सप्तस्व् अपि तथ्यम् एतत् |
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैक-हेतुर्न च कश्चिद् अन्यः ||40||
कान्तेत्य् उत्पल-लोचनेति विपुल-श्रोणी-भरेत्य् उन्नमत्-
पीनोत्तुङ्ग-पयोधरेति समुखाम्भोजेति सुभ्रूरिति |
दृष्ट्वा माद्यति मोदतेभिरमते प्रस्तौति विद्वान् अपि
प्रत्यक्षाशुचि-भस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम् ||41||
स्मृता भवति तापाय दृष्टा चोन्माद-कारिणी |
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ||42||
तावद् एवामृतमयी यावल् लोचन-गोचरा |
चक्षुष्-पथाद् अतीता तु विषाद् अप्यतिरिच्यते ||43||
नामृतं न विषं किञ्चिद् एतां मुक्त्वा नितम्बिनीम् |
सैवामृत-लता रक्ता विरक्ता विष-वल्लरी ||44||
आवर्तः संशयानाम् अविनय-भुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् |
स्वर्ग-द्वारस्य विघ्नो नरक-पुर-मुख सर्वमायाकरण्डं
स्त्री-यन्त्रं केन सृष्टं विषम् अमृतमयं प्राणि-लोकस्य पाशः ||45||
नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवर-
द्वन्द्वं लोचनतां गत न कनकैरप्यङ्ग-यष्टिः कृता |
किन्त्व् एवं कविभिः प्रतारित-मनास्तत्त्वं विजानन्न् अपि
त्वङ्-मांसास्थि-मयं वपुर्मृग-दृशां मन्दो जनः सेवते ||46||
लीलावतीनां सहजा विलासा-
स्त एव मूढस्य हृदि स्फुरन्ति |
रागो नलिन्या हि निसर्ग-सिद्ध-
स्तत्र भ्रम्त्य् एव वृथा षड्-अङ्घ्रिः ||47||
संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति |
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वाम-नयना न समाचरन्ति ||*||
यद् एतत् पूर्णेन्दु-द्युति-हरम् उदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधर-मधु |
इदं तत् किं पाक-द्रुम-फलम् इदानीम् अतिरस-
व्यतीतेस्मिन् काले विषम् इव भविष्य्त्य् असुखदम् ||48||
उन्मीलत्-त्रिवली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तन-
द्वन्द्वेनोद्गत-चक्रवाक-युगला वक्त्राम्बुजोद्भासिनी |
कान्ताकार-धरा नदीयम् अभितः क्रूरात्र नापेक्षते
संसारार्णव-मज्जनं यदि तदा दूरेण सन्त्यज्यताम् ||49||
जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं सविभ्रमाः |
हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम् ||50||
मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् |
अतएव निपीयतेधरो हृदयं मुष्टिभिरेव ताड्यते ||51||
अपसर सखे दूराद् अस्मात् कटाक्ष-विषानलात्
प्रकृति-विषमाद् योषित्-सर्पाद् विलास-फणाभृतः |
इतर-फणिना दष्टः शक्यश्चिकित्सितुम् औषधै-
श्चतुर्-वनिताभोगि-ग्रस्तं हि मन्त्रिणः ||52||
विस्तारितं मकर-केतन-धीवरेण
स्त्री-संज्ञितं बडिशम् अत्र भवाम्बु-राशौ |
येनाचिरात् तद्-अधरामिष-लोल-मर्त्य-
मत्स्यान् विकृष्य विपचत्य् अनुराग-वह्नौ ||53||
कामिनी-काय-कान्तारे कुच-पर्वत-दुर्गमे |
मा संचर मनः पान्थ तत्रास्ते स्मर-तस्करः ||54||
व्यादीर्घेण चलेन वक्त्र-गतिना तेजस्विना भोगिना
नीलाब्ज-द्युतिनाहिना परम् अहं दृष्टो न तच्-चक्षुषा |
दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षण-वीक्षितस्य न हि मे वैद्यो न चाप्य् औषधम् ||55||
इह हि मधुर-गीतं नृत्यम् एतद्-रसोयं
स्फुरति परिमलोसौ स्पर्श एष स्तनानाम् |
इति हत-परमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्व-हित-करण-धूर्तैः पञ्चभिर्वञ्चितोस्मि ||56||
न गम्यो मन्त्राणां न च भवति भैषज्य-विषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिक-शतैः |
भ्रमावेशाद् अङ्गे कम् अपि विदधद् भङ्गम् असकृत्
स्मरापस्मारोयं भ्रमयति दृशं घूर्णयति च ||57||
जात्य्-अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्-कुष्ठाभिभूताय च |
यच्छन्तीषु मनोहरं निज-वपु-लक्ष्मी-लव-श्रद्धया
पण्य-स्त्रीषु विवेक-कल्प-लतिकाश-स्त्रीषु राज्येत कः ||58||
वेश्यासौ मदन-ज्वाला
रूपेन्धन-विवर्धिता |
कामिभिर्यत्र हूयन्ते
यौवनानि धनानि च ||59||
कश्चुम्बति कुल-पुरुषो वेश्याधर-पल्लवं मनोज्ञम् अपि | चारभट-चोर-चेटक-नट-विट-निष्ठीवन-शरावम् ||60||
धन्यास्त एव धवलायत-लोचनानां
तारुण्य-दर्प-घन-पीन-पयोधराणाम् |
क्षामोदरोपरि लसत्-त्रिवली-लतानां
दृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम् ||61||
बाले लीला-मुकुलितम् अमी मन्थरा दृष्टि-पाताः
किं क्षिप्यन्ते विरम-विरम व्यर्थ एष श्रमस्ते |
सम्प्रत्य् अन्ये वयम् उपरतं बाल्यम् आस्था वनान्ते
क्षीणो मोहस्तृणम् इव जगज्-जालम् आलोकयामः ||62||
इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दल-
प्रभा चीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया |
गतो मोहोस्माकं स्मर-शबर-बाण-व्यतिकर-
ज्वर-ज्वाला शान्ता तद् अपि न वराकी विरमति ||63||
किं कन्दर्प करं कदर्थयसि रे कोदण्ड-टङ्कारितं
रे रे कोकिल कोमलं कल-रवं किं वा वृथा जल्पसि |
मुग्धे स्निग्ध-विदग्ध-चारु-मधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बित-चन्द्र-चूड-चरण-ध्यानामृतं वर्तते ||64||
विरहेपि सङ्गमः खलु
परस्परं सङ्गतं मनो येषाम् |
हृदयम् अपि विघट्टितं चेत्
सङ्गी विरहं विशेषयति ||65||
किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् |
इत्य् उदीक्ष्य नव-मेघ-मालिकां
न प्रयाति पथिकः स्व-मन्दिरम् ||66||
विरमत बुधा योषित्-सङ्गात् सुखात् क्षण-भङ्गुरात्
कुरुत करुणा-मैत्री-प्रज्ञा-वधू-जन-सङ्गमम् |
न खलु नरके हाराक्रान्तं घन-स्तन-मण्डलं
शरणम् अथवा श्रोणी-बिम्बं रणन्-मणि-मेखलम् ||67||
यदा योगाभ्यास-व्यसन-कृशयोरात्म-मनसो-
रविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किम् उ तैः |
प्रियाणाम् आलापैरधर-मधुभिर्वक्त्र-विधुभिः
सनिश्वासामोदैः सकुच-कलशाश्लेष-सुरतैः ||68||
यदासीद् अज्ञानं स्मर-तिमिर-सञ्चार-जनितं
तदा दृष्ट-नारी-मयम् इदम् अशेषं जगद् इति |
इदानीम् अस्माकं पटुतर-विवेकाञ्जन-जुषां
समीभूता दृष्टिस्त्रिभुवनम् अपि ब्रह्म मनुते ||69||
तावद् एव कृतिनाम् अपि स्फुर-
त्येष निर्मल-विवेक-दीपकः |
यावद् एव न कुरङ्ग-चक्षुषां
ताड्यते चटुल-लोचनाञ्चलैः ||70||
वचसि भवति सङ्ग-त्यागम् उद्दिश्य वार्ता
श्रुति-मुखर-मुखानां केवलं पण्डितानाम् |
जघनम् अरुण-रत्न-ग्रन्थि-काञ्ची-कलापं
कुवलय-नयनानां को विहातुं समर्थः ||71||
स्व-पर-प्रतारकोसौ
निन्दति योलीक-पण्डितो युवतीः |
यस्मात् तपसोपि फलं
स्वर्गः स्वर्गेपि चाप्सरसः ||72||
मत्तेभ-कुम्भ-दलने भुवि सन्ति धीराः
केचित् प्रचण्ड-मृग-राज-वधेपि दक्षाः |
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्प-दर्प-दलने विरला मनुष्याः ||73||
सन्-मार्गे तावद् आस्ते प्रभवति च नरस्तावद् एवेन्द्रियाणां
लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव |
भ्रू-चापाकृष्ट-मुक्ताः श्रवण-पथ-गता नील-पक्ष्माण एते
यावल् लीलावतीनां हृदि न धृतिमुषो दृष्टि-बाणाः पतन्ति ||74||
उन्मत्त-प्रेम-संरम्भाद्
आरभन्ते यद्-अङ्गनाः |
तत्र प्रत्यूहम् आधातुं
ब्रह्मापि खलु कातरः ||75||
तावन्महत्त्वं पाण्डित्यं
कुलीनत्वं विवेकिता |
यावज् ज्वलति नाङ्गेषु
हतः पञ्चेषु-पावकः ||76||
शास्त्रज्ञोपि प्रगुणि-तनयोत्यान्त-बाधापि बाढं
संसारेस्मिन् भवति विरलो भाजनं सद्-गतीनाम् |
येनैतस्मिन् निरय-नगर-द्वारम् उद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रू-लता कुञ्चिकेव ||77||
कृशः काणः खञ्जः श्रवण-रहितः पुच्छ-विकलो
व्रणी पूय-क्लिन्नः कृमि-कुल-शतैरावृत-तनुः |
क्षुधा क्षामो जीर्णः पिठरक-कपालार्पित-गलः
शुनीम् अन्वेति श्वा हतम् अपि च हन्त्य् एव मदनः ||78||
स्त्री-मुद्रां कुसुमायुधस्य जयिनीं सर्वार्थ-सम्पत्-करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः |
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित् पञ्च-शिखी-कृताश्च जटिलाः कापालिकाश्चापरे ||79||
विश्वामित्र-पराशर-प्रभृतयो वाताम्बु-पर्णाशना-
स्तेपि स्त्री-मुख-पङ्कजं सुललितं दृष्ट्वैव मोहं गताः |
शाल्यन्नं स-घृतं पयो-दधि-युतं ये भुञ्जते मानवा-
स्तेषाम् इन्द्रिय-निग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे ||80||
परिमल-भृतो वाताः शाखा नवाङ्कुर-कोटयो
मधुर-विधुरोत्कण्ठा-भाजः प्रिया पिक-पक्षिणाम् |
विरल-विरस-स्वेदोद्गारा वधू-वदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ||81||
मधुरयं मधुरैरपि कोकिला
कल-रवैर्मलयस्य च वायुभिः |
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ||82||
आवासः किल-किञ्चितस्य दयिता-पार्श्वे विलासालसाः
कर्णे कोकिल-कामिनी-कल-रवः स्मेरो लता-मण्डपः |
गोष्ठी सत्-कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ||83||
पान्थ स्त्री-विरहानलाहुति-कलाम् आतन्वती मञ्जरी-
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठम् आलोक्यते |
अप्य् एते नव-पाटला-परिमल-प्राग्-भार-पाटच्-चरा
वान्ति-क्लान्ति-वितान-तानव-कृतः श्रीखण्ड-शैलानिलाः ||84||
प्रथितः प्रणयवतीनां
तावत् पदम् आतनोतु हृदि मानः |
भवति न यावच् चन्दन-
तरु-सुरभिर्मलय-पवमानः ||85||
सहकार-कुसुम-केसर-
निकर-भरामोद-मूर्च्छित-दिग्-अन्ते |
मधुर-मधुर-विधुर-मधुपे
मधौ भवेत् कस्य नोत्कण्ठा ||86||
अच्छाच्छ-चन्दन-रसार्द्रतरा मृगाक्ष्यो
धारा-गृहाणि कुसुमानि च कौमुदी च |
मन्दो मरुत् सुमनसः शुचि हर्म्य-पृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ||87||
स्रजो हृद्य् आमोदा व्यजन-पवनश्चन्द्र-किरणाः
परागः कासारो मलयज-रजः शीधु विशदम् |
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कज-दृशो
निदाघ-र्ताव् एतद् विलसति लभन्ते सुकृतिनः ||88||
सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः
प्रिया-वक्त्राम्भोजं मलयज-रजश्चातिसुरभिः |
स्रजो हृद्यामोदास्तद् इदम् अखिलं रागिणि जने
करोत्य् अन्तः क्षोभं न तु विषय-संसर्ग-विमुखे ||89||
तरुणी-वेषोद्दीपित-कामा
विकसज्-जाती-पुष्प-सुगन्धिः |
उन्नत-पीन-पयोधर-भारा
प्रावृट् तनुते कस्य न हर्षम् ||90||
वियद्-उपचित-मेघं भूमयः कन्दलिन्यो
नव-कुटज-कदम्बामोदिनो गन्धवाहाः |
शिखि-कुल-कल-केकारावरम्या वनान्ताः
सुखिनम् असुखिनं वा सर्वम् उत्कण्ठयन्ति ||91||
उपरि घनं घन-पटलं
तिर्यग् गिरयोपि नर्तित-मयूराः |
क्षितिरपि कन्दल-धवला
दृष्टिं पथिकः क्व पातयति ||92||
इतो विद्युद्-वल्ली-विलसितम् इतः केतकि-तरोः
स्फुरन् गन्धः प्रोद्यज्-जलद-निनद-स्फूर्जितम् इतः |
इतः केकि-क्रीडा-कल-कल-रवः पक्ष्मल-दृशां
कथं यास्यन्त्य् एते विरह-दिवसाः सम्भृत-रसाः ||93||
असूचि-सञ्चारे तमसि नभसि प्रौढ-जलद-
ध्वनि-प्राज्ञंमन्ये पतति पृषतानां च निचये |
इदं सौदामिन्याः कनक-कमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैर-सुदृशाम् ||94||
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्प-निमित्तम् आयत-दृशा गाढं समालिङ्ग्यते |
जाताः शीकर-शीतलाश्च मरुतोरत्यन्त-खेद-च्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रिया-सङ्गमे ||95||
अर्धं सुप्त्वा निशायाः सरभस-सुरतायास-सन्न-श्लथाङ्ग-
प्रोद्भूतासह्य-तृष्णो मधु-मद-निरतो हर्म्य-पृष्ठे विविक्ते |
सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-वर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छ-धारं पिबति न सलिलं शारदं मन्द-पुण्यः ||96||
हेमन्ते दधि-दुग्ध-सर्पिरशना माञ्जिष्ठ-वासो-भृतः
काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषश्छिन्ना विचित्रै रतैः |
वृत्तोरु-स्तन-कामिनोजन-कृताश्लेषा गृहाभ्यन्तरे
ताम्बूली-दल-पूग-पूरित-मुखा धन्याः सुखं शेरते ||97||
प्रदुयत्-प्रौढ-प्रियङ्गु-द्युति-भृति विकसत्-कुन्द-माद्यद्-द्विरेफे
काले प्रालेय-वात-प्रचल-विलसितोदार-मन्दार-धाम्नि |
येषां नो कण्ठ-लग्ना क्षणम् अपि तुहिन-क्षोद-दक्षा मृगाक्षी
तेसाम् आयाम-यामा यम-सदन-समा यामिनी याति यूनाम् ||98||
चुम्बन्तो गण्ड-भित्तीरलकवति मुखे सीत्कृतान्य् आदधाना
वक्षः-सूत्कञ्चुकेषु स्तन-भर-पुलकोद्भेदम् आपादयन्तः |
ऊरू-नाकम्पयन्तः पृथु-जघन-तटात् स्रंसयन्तोंशुकानि
व्यक्तं कान्ता-जनानां विट-चरित-भृतः शैशिरा वान्ति वाताः ||99||
केशानाकुलयन् दृशो मुकुलयन् वासो बलाद् आक्षिप-
न्नातन्वन् पुलकोद्गमं प्रकटयन्न् आवेग-कम्पं शनैः |
बारं बारम् उदार-सीत्कृत-कृतो दन्त-च्छदान् पीडयन्
प्रायः शैशिर एष सम्प्रति मरुत् कान्तासु कान्तायते ||100||
यद्य् अस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेपि |
रमणीयेपि सुधांशौ न मनः-कामः सरोजिन्याः ||101||
वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः |
शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ||102||
इति शुभं भूयात् |