वैशेषिकदर्शनम् कणादसूत्रम्
To Search in Text
step-1
step-2
Press Control + F
की-वर्ड की खोज के लिये : -
step-1
step2.
कण्ट्रोल एफ दबाएँ।.
प्रथमोऽध्यायः ►प्रथममाह्निकम्►1. द्वितीयमाह्निकम्। द्वितीयोऽध्यायः ►प्रथममाह्निकम्►2. द्वितीयमाह्निकम्। तृतीयोऽध्यायः ►प्रथममाह्निकम्►द्वितीयमाह्निकम् चतुर्थोऽधायायः ►प्रथममाह्निकम्►द्वितीयमाह्निकम् पञ्चमोऽध्यायः ►प्रथममाह्निकम्►द्वितीयमाह्निकम् षष्ठोऽध्यायः प्रथममाह्निकम्►द्वितीयमाह्निकम् सप्तमोऽध्यायः प्रथममाह्निकम्►द्वितीयमाह्निकम्अष्टमोऽध्यायः प्रथममाह्निकम्►द्वितीयमाह्निकम् नवमोऽध्यायः प्रथममाह्निकम्►द्वितीयमाह्निकम् दशमोऽध्यायः प्रथममाह्निकम्►द्वितीयमाह्निकम्
अथप्रथमोऽध्यायः
1 /1 /1 अथातो धर्मं व्याख्यास्यामाः।
1 /1 /2 यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः।
1 /1 /3 तद्वचनादाम्नायस्य प्रामाण्यम्।
1 /1 /4 धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधार्म्यवैधर्मयाभ्यां तत्त्वज्ञानन् निःश्रेयसम्।
1 /1 /5 पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि।
1 /1 /6 रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः।
1 /1 /7 उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि।
1 /1 /8 सदानित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः।
1 /1 /9 दव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम्।
1 /1 /10 द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरम्।
1 /1 /11 कर्म कर्मसाध्यं न विद्यते।
1 /1 /12 न द्रव्यं कार्यं कारणं च भवति।
1 /1 /13 उभयथा गुणाः।
1 /1 /14 कार्यविरोधि कर्म।
1 /1 /15 क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्।
1 /1 /16 द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्।
1 /1 /17 एकद्रव्यमगुणं संयोगविभागेष्वपेक्षकारणमिति कर्मलक्षणम्।
1 /1 /18 द्र्यगुणर्मणां द्रव्यं कारणं सामान्यम्।
1 /1 /19 तथा गुणः।
1 /1 /20 संयोगविभागवेगानां कर्म समानम्।
1 /1 /21 न द्रव्याणां कर्म।
1 /1 /22 व्यतिरेकात्।
1 /1 /23 द्रव्याणां द्रव्यं कार्य्यं सामान्यम्।
1 /1 /24 गुणवैधर्मयान्न कर्मणां कर्म।
1 /1 /25 द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च।
1 /1 /26 असमवायात् सामान्यकार्यं कर्म न विद्यते।
1 /1 /27 संयोगानां द्रव्यम्।
1 /1 /28 रूपाणां रूपम् ।
1 /1 /29 गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम्।
1 /1 /30 संयोगविभागाश्च कर्मणाम्।
1 /1 /31 कारणसामान्ये द्रव्यकर्मणा कर्माकारणमुक्तम्।
इति काणादसूत्रपाठे प्रथमोऽध्यास्य प्रथममाह्निकम्।
1 /2 /1 कारणाभावात् कार्य्याभावः।
1 /2 /2 न तु कार्य्याभावात् कारणाभावः।
1 /2 /3 सामान्यं विशेष इति बुद्ध्यपेक्षम्।
1 /2 /4 भावोऽनुपृत्तेरेव हेतुत्वात् सामानियमेव।
1 /2 /5 द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च।
1 /2 /6 अन्यत्रान्त्येभ्यो विशेषेभ्यः।
1 /2 /7 सदिति यतो द्रव्यगुणकर्मसु सा सत्ता ।
1 /2 /8 द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता।
1 /2 /9 गुणकर्मसु च भावान्न कर्म न गुणः।
1 /2 /10 सामान्यविशेषाभावेन च।
1 /2 /11 अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम्।
1 /2 /12 सामाल्यविशेषाभावेन च।
1 /2 /13 तथागुणेषु भावाद् गुणत्वमुक्तम्।
1 /2 /14 सामान्यविशेषाभावेन च।
1 /2 /15 कर्मसु भापवात् कर्मत्वमुक्तम्।
1 /2 /16 सामान्यविशेषाभावेन च।
1 /2 /17 सदिति लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः।
इति काणादसूत्रपाठे प्रथमोऽध्यास्य द्वितीयमाह्निकम्।
अथ द्वितीयोऽध्यायः
2 /1 /1 रूपरसगन्धस्पर्शवती पृथवी।
2 /1 /2 रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः।
2 /1 /3 तेजो रूपस्पर्शवत्।
2 /1 /4 स्पर्शवान् वायुः।
2 /1 /5 त आकाशे न विद्यन्ते।
2 /1 /6 सर्पिर्जतुमधच्छिष्टानामग्निसंयोगाद् द्रत्वमद्भिः सामान्यम्।
2 /1 /7 त्रपुसीलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्।
2 /1 /8 विषाणी ककुद्मान् प्रान्ते वालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम्।
2 /1 /9 स्पर्शश्च वायोः।
2 /1 /10 न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।
2 /1 /11 अद्रव्यवत्वेन द्रव्यम्।
2 /1 /12 क्रियावत्त्वाद् गुणवत्त्वाच्च।
2 /1 /13 अद्रव्यत्वेन नित्यत्वमुक्तम्।
2 /1 /14 वायोर्वायुसंमूर्च्छनं नानात्वलिङ्गम्।
2 /1 /15 वायुसन्निकर्षे प्रत्यक्षाभावाद् द़ष्टं लिङ्गं न विद्यते।
2 /1 /16 सामान्यतो दृष्टाच्चाविशेषः।
2 /1 /17 तस्मादागमिकम्।
2 /1 /18 संज्ञाकर्म त्वस्माद्विशिष्टानां लिङ्गम्।
2 /1 /19 प्रत्यक्षप्रवृत्तत्वात् संज्ञार्कमणः।
2 /1 /20 निष्क्रमणं प्रवेशनमित्याकासस्य लिङ्गम्।
2 /1 /21 तदलिङ्गमेकद्रव्यत्वात् कर्मणः।
2 /1 /22 कारणान्तरानुक्लृप्तिवैधर्म्याच्च।
2 /1 /23 संयोगादभावः कर्मणः।
2 /1 /24 कारणगुणपूर्वकः कारयगुणो दृष्टः।
2 /1 /25 कार्यन्तराप्रदुर्भावाच्च शब्दः स्पर्शवतामगुणः।
2 /1 /26 परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः।
2 /1 /27 परिशेषाल्लिङ्गमाकाशस्य।
2 /1 /28 द्रव्यत्वनित्यत्वे वायुना व्याख्याते।
2 /1 /29 तत्त्वमभावेन।
2 /1 /30 शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च।
2 /1 /31 तदनुविधानादेकपृथक्त्वं चेति।
इति काणादसूत्रपाठे द्वितीयोऽध्यास्य प्रथममाह्निकम्।
2 /2 /1 पुष्पवस्त्रयोः सति सन्नकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम्।
2 /2 /2 व्यवस्थितधः पृथिव्यां गन्धः।
2 /2 /3 एतेनोष्णता व्याख्याता।
2 /2 /4 तेजस उष्णता।
2 /2 /5 अप्सु शीतता।
2 /2 /6 अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि।
2 /2 /7 द्व्यत्वनित्यत्वे वायुना व्याख्याते।
2 /2 /8 तत्त्वम्भावेन।
2 /2 /9 नित्येष्वभावादनित्येषु भावात् कारण कालाख्येति।
2 /2 /10 इति इदमिति यतस्तद्दिशां लिङ्गम्।
2 /2 /11 द्रव्यत्वनित्यत्वे वायुना व्याख्याते।
2 /2 /12 तत्त्वम्भावेन।
2 /2 /13 कार्य्यविशेषेण नानात्वम्।
2 /2 /14 आदित्यसंयागाद् भूतपूर्वाद्भविष्यतो भूताच्च प्राची।
2 /2 /15 तथा दक्षिणा प्रतीची उदीची च।
2 /2 /16 एतेन दिगन्तरालानि व्याख्यातानि।
2 /2 /17 सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः।
2 /2 /18 दृष्टञ्च दृष्टवत्।
2 /2 /19 दृष्टं यथादृष्टमयाथादृष्टमुभयथादृष्टत्वाच्च।
2 /2 /20 विध्यऽविद्यातश्च संशयः।
2 /2 /21 श्रोत्रग्रहणो योऽर्थः स शब्दः।
2 /2 /22 तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात्।
2 /2 /23 एकद्रव्यत्वान्न द्रव्यम्।
2 /2 /24 नापि कर्माऽचाक्षुषत्वात्.
2 /2 /25 गुषस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्।
2 /2 /26 सतो लिङ्गाभावात्।
2 /2 /27 नित्यवैधर्म्यात्।
2 /2 /28 अनित्यश्चायं कारणतः।
2 /2 /29 न चासिद्धिं विकारात्।
2 /2 /30 अभिव्यक्तौ दोषात्।
2 /2 /31 कार्यत्वात्।
2 /2 /32 अभावात्।
2 /2 /33 संयोगाद्विभागाच्च शब्दनिष्पत्तिः।
2 /2 /34 लिङ्गाच्चनित्यः शब्दः।
2 /2 /35 द्वयोस्तु प्रवृत्त्योरभावात्।
2 /2 /36 संख्याभावात्।
2 /2 /37 प्रथमाशब्दात्।
2 /2 /38 सम्प्रतिपत्तिभावाच्च।
2 /2 /39 सन्दिग्धाः सति बहुत्वे ।
2 /2 /40 संख्याभावः सामान्यतः।
इति काणादसूत्रपाठे द्वितीयोऽध्यास्य द्वितीयमाह्निकम्, द्वितीयोऽध्यायश्च।।
अथ तृतीयोऽध्यायः
3 /1 /1 प्रसिद्धा इन्द्रियार्थाः।
3 /1 /2 प्रसिद्धिरिन्द्रियर्थेभ्योऽर्थान्तरस्य हेतुः।
3 /1 /3 सोऽनपदेशः।
3 /1 /4 कारणाज्ञानात्।
3 /1 /5 कार्येषु ज्ञानात्।
3 /1 /6 अज्ञानाच्च।
3 /1 /7 अन्यदेव हेतुरित्यनपदेशः।
3 /1 /8 अर्थान्तरं ह्यर्थान्तरस्यानपदेशः।
3 /1 /9 संयोगि समवाय्येकार्थसमवायि विरोधि च।
3 /1 /10 कार्यं कार्यन्तरस्य।
3 /1 /11 विरोध्यभूतं भूतस्य।
3 /1 /12 भूतमभूतस्य।
3 /1 /13 भूतो भूतस्य।
3 /1 /14 प्रसिद्धपूर्वकत्वादपदेशस्य।
3 /1 /15 अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः।
3 /1 /16 यस्माद्विषाणी तस्मादश्वः।
3 /1 /17 यस्मीद्विषाणी तस्माद् गौरिति चानैकान्तिकस्योदाहरणम्।
3 /1 /18 आत्मेन्द्रियार्थसन्नकर्षाद् यन्नष्पद्यते तदन्यत्।
3 /1 /19 प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि द्वष्टे परत्र लिङ्गम्।
इति काणादसूत्रपाठे तृतीयोऽध्यास्य प्रथमामह्निकम्।।
3 /2 /1 आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्।
3 /2 /2 तस्य द्व्यत्वनित्यत्वे वायुना व्याख्याते।
3 /2 /3 प्रयत्नाद्योगपद्याज्ज्ञानायोगपद्याच्चैकम्।
3 /2 /4 प्राणाऽपाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः। सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि।
3 /2 /5 तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते।
3 /2 /6 यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते।
3 /2 /7 सामान्यतो दृष्टाच्च विशेषः।
3 /2 /8 तस्मादागमिकः ।
3 /2 /9 अहमिति शब्दस्य व्यतिरेकान्नागमिकम्।
3 /2 /10 यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति।
3 /2 /11 दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः।
3 /2 /12 देवदत्तो गच्छति यज्ञदत्तो गच्छतूत्यपचाराच्छरीरे प्रत्ययः।
3 /2 /13 सन्दिग्धास्तूपचाराः।
3 /2 /14 अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः।
3 /2 /15 देवदत्ते गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः।
3 /2 /16 सन्दिग्धास्तूपचाराः।
3 /2 /17 न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर्ज्ञानविषयः।
3 /2 /18 अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद् विशेषसिद्धेर्नागमिकः।
3 /2 /19 सुखदुःखज्ञाननिष्पत्त्यविशेषादैकात्म्यम्।
3 /2 /20 व्यवस्थातो नाना।
3 /2 /21 शास्त्रसामर्थ्याच्च।
इति कणादसूत्रपाठे तृतीयोऽध्यायस्य द्वितीयमाह्निकम्, तृतीयोऽध्यायश्च।।
अथ चतुर्थोऽध्यायः
4 /1 /1 सदकारणवन्नित्यम्।
4 /1 /2 तस्य कार्य्यं निङ्गम्।
4 /1 /3 कारणाभावात् कार्याभावः।
4 /1 /4 अनित्य इति विशेषतः प्रतिषेधभावः।
4 /1 /5 अविद्या।
4 /1 /6 महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः।
4 /1 /7 सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः।
4 /1 /8 अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः।
4 /1 /9 तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम्।
4 /1 /10 तस्याभावादव्यभिचारः।
4 /1 /11 सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपद्रव्यसमवायात् चाक्षुषाणि।
4 /1 /12 अरूपिष्वचाक्षुषाणि।
4 /1 /13 एतेन गुणत्वे भावे च सर्वेन्द्रयं ज्ञानं व्याख्यातम्।
इति कणादसूत्रपाठे चतुर्थाऽध्यास्य प्रथममाह्निकम्।
4 /2 /1 तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम्।
4 /2 /2 प्रत्यक्षाऽप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते।
4 /2 /3 गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम्।
4 /2 /4 अणुसंयोगस्त्वप्रतिषिद्धः।
4 /2 /5 तत्र शरीरं द्विविधं योनिजमयोनिजं च।
4 /2 /6 अनियतदिग्देशपूर्वकत्वात्।
4 /2 /7 धर्मविशेषाच्च।
4 /2 /8 समाख्याभावाच्च।
4 /2 /9 संज्ञाया आदित्वात्।
4 /2 /10 सन्त्ययोनिजाः।
4 /2 /11 वेदलिङ्गाच्च।
इति कणादसूत्रपाठे चतुर्थाऽध्यास्य द्वितीयमाह्निकम्,चतुर्थोऽध्यायश्च।।
अथपञ्चमोऽध्यायः
5 /1 /1 आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म।
5 /1 /2 तथा हस्तसंयोगाच्च मुसले कर्म।
5 /1 /3 अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः।
5 /1 /4 तथात्मसंयोगो हस्तकर्मणि।
5 /1 /5 अभिघातन्मुसलसंयोगाद्धस्ते कर्म।
5 /1 /6 आत्मकर्म हस्तसंयोगाद्धस्ते कर्म।
5 /1 /7 संयोगाभावे गुरुत्वात् पतनम्।
5 /1 /8 नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम्।
5 /1 /9 प्रयत्नविशेषान्नोदनविशेषः।
5 /1 /10 नोदनविशेषादुदसनविशेषः।
5 /1 /11 हस्तकर्ममा दारककर्म व्याख्यातम्।
5 /1 /12 तथा दग्धस्य विस्फोटने।
5 /1 /13 प्रयत्नाभावे प्रसुप्तस्य चलनम्।
5 /1 /14 तृणे कर्म वायुसंयोगात्।
5 /1 /15 मणिगमनं सूच्यभिसर्पणमदृष्टकारणम्।
5 /1 /16 इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः।
5 /1 /17 नोदनादद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च।
5 /1 /18 संस्कारभावे गुरुत्वात् पतनम्।
इति कणादसूत्रपाठे पञ्चमोऽध्यास्य प्रथममाह्निकम्।
5 /2 /1 नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म।
5 /2 /2 तद्विशेषेणादृष्टकारितम्।
5 /2 /3 अपां संयोगाभावे गुरुत्वात् पतनम्।
5 /2 /4 द्रवत्वात् स्यन्दनम्।
5 /2 /5 नाड्या वायुसंयोगादारोहणम्।
5 /2 /6 नोदनापीडनात् संयोगाच्च।
5 /2 /7 वृक्षाभिसर्पणमित्यदृष्टकारितम्।
5 /2 /8 अपां संघातो विलयनं च तेजःसंयोगात्।
5 /2 /9 तत्र विस्फूर्जथुर्लिङ्गम्ष
5 /2 /10 वैदिकं च।
5 /2 /11 अपां संयोगाद्विभाच्च स्तनयित्नोः।
5 /2 /12 पृथिवीकर्मणा तेजःकर्म च व्याख्याताम्।
5 /2 /13 अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम्।
5 /2 /14 हस्तकर्मणा मनसः कर्म व्याख्यातम्।
5 /2 /15 आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे।
5 /2 /16 तदनारम्भ आत्मस्थे मनसि सरीरस्य दुःखाभावः स योगः।
5 /2 /17 अपसर्पणमुपसर्पणशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि।
5 /2 /18 तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः।
5 /2 /19 द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः।
5 /2 /20 तेजसो द्रव्यान्तरेणावरणाच्च।
5 /2 /21 दिक्कालावाकाशं च क्रियावद् वैधर्म्यान्निष्क्रियाणि।
5 /2 /22 एतेन कर्माणि गुणाश्च व्याख्याताः।
5 /2 /23 निष्क्रियाणां समवायः कर्मेभ्यो निषिद्धः।
5 /2 /24 कारणं त्वसमवायिनो गुणाः।
5 /2 /25 गुणैर्दिग्व्याख्याता।
5 /2 /26 कारणेन कालः।
इति कणादसूत्रपाठे पञ्चमोऽध्यास्य द्वितीयमाह्निकम्, पञ्चमोऽध्यायश्च।।
अथ षष्ठोऽध्यायः
6 /1 /1 बुद्धिपूर्वा वाक्यकृतिर्वेदे।
6 /1 /2 ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्।
6 /1 /3 बुद्धिपूर्वो ददाति।
6 /1 /4 तथा प्रतिग्रहः।
6 /1 /5 आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात्।
6 /1 /6 तद् दुष्टभोजने न विद्यते।
6 /1 /7 दुष्टं हिंसायाम्।
6 /1 /8 तस्य समभिव्याहारतो दोषः।
6 /1 /9 तददुष्टे न विद्यते।
6 /1 /10 पुनर्विशिष्टे प्रवृत्तिः।
6 /1 /11 समे हीने वा प्रवृत्तिः।
6 /1 /12 एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्वादानं व्याख्यातम्।
6 /1 /13 तथा विरूद्धानां त्यागः।
6 /1 /14 हीने परे त्यागः।
6 /1 /15 समे आत्मत्यागः परत्यागो वा।
6 /1 /16 विशिष्टे आत्मत्याग इति।
इति कणादसूत्रपाठे षष्ठोऽध्यायस्य प्रथममाह्निकम् ।।
6 /2 /1 दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय।
6 /2 /2 अभिषेचनोपवासब्रह्मचर्यगुरूकुलवासवानप्रस्थयज्ञदानप्रक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय।
6 /2 /3 चातुराश्रम्यमुपधा अनुपधाश्च।
6 /2 /4 भावदोष उपधाऽदोषोऽनुपधा।
6 /2 /5 यदिष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि।
6 /2 /6 अशुचीति शुचिप्रतिषेधः।
6 /2 /7 अर्थान्तरं च ।
6 /2 /8 अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वाऽर्थान्तरत्वाद् यमस्य।
6 /2 /9 असति चाभावात्।
6 /2 /10 सुखाद्रागः।
6 /2 /11 तन्मयत्वाच्च।
6 /2 /12 अदृष्टाच्च।
6 /2 /13 जातिविशेषाच्च।
6 /2 /14 इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः।
6 /2 /15 ततः संयोगो विभागश्च।
6 /2 /16 आत्मकर्मसु मोक्षो व्याख्यातः।
इति कणादसूत्रपाठे षष्ठोऽध्यायस्य द्वितीयमाह्निकम्, षष्ठोऽध्यायश्च।
अथ सप्तमोऽध्यायः
7 /1 /1 उक्ता गुणाः।
7 /1 /2 पृथिव्यादिरूपरसगन्धस्पर्शाद्रव्यानित्यत्वादनित्याश्च।
7 /1 /3 अग्निसंयोगाच्च।
7 /1 /4 गुणान्तरप्रादुर्भावात्।
7 /1 /5 एतेन नित्येषु अनित्यत्वमुक्तम्।
7 /1 /6 अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात्।
7 /1 /7 अनित्येष्वनित्या द्रव्यान्त्यत्वात्।
7 /1 /8 कारणगुणपूर्वकाः पृथिव्यां पाकजाः।
7 /1 /9 एकद्रव्यत्वात्।
7 /1 /10 अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते।
7 /1 /11 कारणबहुत्वाच्च।
7 /1 /12 अतो विपरीतमणु।
7 /1 /13 अणु महदिति तस्मिन् विशेषभावात् विशेषाभावाच्च।
7 /1 /14 एककात्वात्।
7 /1 /15 दृष्टान्ताच्च।
7 /1 /16 अणुत्वमह्त्त्वायोरणुत्वमह्त्त्वाभावः कर्मगुणैर्व्याख्यातः।
7 /1 /17 कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः।
7 /1 /18 अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः।
7 /1 /19 एतेन दीर्घत्वह्रस्तवत्वे व्याख्याते।
7 /1 /20 अनित्येऽनित्यम्।
7 /1 /21 नित्ये नित्यम्।
7 /1 /22 नित्यं परिमण्डलम्।
7 /1 /23 अविद्या च विद्यालिङ्गम्।
7 /1 /24 विभवान्महानाकाशस्तथा चात्मा।
7 /1 /25 तद्भावादणु मनः।
7 /1 /26 गुणैर्दिग्व्याख्याता।
7 /1 /27 कारणे कालः।
इति कणादसूत्रपाठे सप्तमोऽध्यायस्य प्रथममाह्निकम्।।
7 /2 /1 रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्।
7 /2 /2 तथा पृथक्त्वम्।
7 /2 /3 एतत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्याताः।
7 /2 /4 निःसंख्यात्वात् कर्मगुणानां सर्वैकत्वं न विद्यते।
7 /2 /5 भ्रान्तं तत्।
7 /2 /6 एकत्वाभावाद्भक्तिस्तु न विद्यते।
7 /2 /7 कार्य्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते।
7 /2 /8 एतदनित्ययोर्व्याख्यातम्।
7 /2 /9 अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः।
7 /2 /10 एतेन विभागो व्याख्यातः।
7 /2 /11 संयोगविभागयोः संयोगविभागाभावोऽणुमहत्त्वाभ्यां व्याख्याताः।
7 /2 /12 कर्मभिः कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाभ्यामिति।
7 /2 /13 युतसिद्ध्यभावात् कार्य्यकारणयोः संयोगविभागौ न विद्यते।
7 /2 /14 गुणत्वात्।
7 /2 /15 गुणोऽपि विभाव्यते।
7 /2 /16 निष्क्रियत्वात्।
7 /2 /17 असति नास्तीति च प्रयोगात्।
7 /2 /18 शब्दार्थावसम्बन्धौ।
7 /2 /19 संयोगिनो दण्डात् समवायिनो विशेषाच्च।
7 /2 /20 सामायिकः शब्दादर्थप्रत्ययः।
7 /2 /21 एकदिक्कालाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परनपरं च।
7 /2 /22 कारणपरत्वात् कारणापरत्वाच्च।
7 /2 /23 परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः।
7 /2 /24 कर्मभिः कर्माणि।
7 /2 /25 गुणैर्गुणाः।
7 /2 /26 इहेदमिति यतः कार्य्यकरणयोः स समवायः।
7 /2 /27 द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः।
7 /2 /28 तत्त्वमभावेन।
इति कणादसूत्रपाठे सप्तमोऽध्यायस्य द्वितीयोऽह्निकम्, सप्तमोऽध्यायश्च।
अथाष्टमोऽध्यायः
8 /1 /1 द्रव्येषु ज्ञानं व्याख्यातम्।
8 /1 /2 तत्रात्मा मनश्चाप्रत्यक्षे।
8 /1 /3 ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः।
8 /1 /4 गुषकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणम्।
8 /1 /5 सामान्यविशेषेषु सामान्यविशेषाभावात्तदेव ज्ञानम्।
8 /1 /6 सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु।
8 /1 /7 द्रव्ये द्रव्यगुणकर्मापेक्षम्।
8 /1 /8 गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते।
8 /1 /9 समवायिनः श्वैत्याच्छ्वैत्यबुद्धेश्च श्वेते बुद्धिस्ते एते कार्यकारणभूते।
8 /1 /10 द्रव्यष्वनितरेतरकारणाः।
8 /1 /11 कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात्।
इति कणादसूत्रपाठे अष्टमोऽध्यायस्य प्रथममाह्निकम्।।
8 /2 /1 अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम्।
8 /2 /2 दृष्टेषु भावाददृष्टेष्वभावात्।
8 /2 /3 अर्थ इति द्रव्यगुणकर्मसु।
8 /2 /4 द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम्।
8 /2 /5 भूयस्त्वाद् गन्धलत्त्वाच्च पृथिवी गन्धजाने प्रकृतिः।
8 /2 /6 तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात्।
इति कणादसूत्रपाठेऽष्टमोऽध्यायस्य द्वितीयमह्निकम्, अष्टमोऽध्यायश्च।।
अथ नवमोऽध्यायः
9 /1 /1 क्रियागुणव्यपदेशाभावात् प्रागसत्।
9 /1 /2 सदसत्।
9 /1 /3 असतः क्रियागुणव्यपदेशाभावादर्थान्तरम्।
9 /1 /4 सच्चासत्.
9 /1 /5 यच्चान्यदसदतस्तदसत्।
9 /1 /6 असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत्।
9 /1 /7 तथाऽभावे भावप्रत्यक्षत्वाच्च।
9 /1 /8 एतेनाघटोऽगौरधर्मश्च व्याख्यातः।
9 /1 /9 अभूतं नास्तीत्यनर्थान्तरम्।
9 /1 /10 नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः।
9 /1 /11 आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम्।
9 /1 /12 तथा द्रव्यान्तरेषु प्रत्यक्षम्।
9 /1 /13 असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषां च ।
9 /1 /14 तत्समवायात् कर्मगुणेषु।
9 /1 /15 आत्मसमवायादात्मगुणेषु।
इति कणादसूत्रपाठे नवमोऽध्यायस्य प्रथममह्निकम्।
9 /2 /1 अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम्।
9 /2 /2 अस्येदं कार्यकारणसम्बन्धश्चावयवाद्भवति।
9 /2 /3 एतेन शाब्दं व्याख्यातम्।
9 /2 /4 हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं करणमित्यनर्थान्तरम्।
9 /2 /5 अस्येदमिति बुद्ध्यपेक्षितत्वात्।
9 /2 /6 आत्मनः संयोगनिशेषात् संस्काराच्च स्मृतिः।
9 /2 /7 तथा स्वप्नः।
9 /2 /8 स्वप्नान्तिकम्।
9 /2 /9 धर्माच्च।
9 /2 /10 इन्द्रियदोषात् संस्कारदोषाच्चाविद्या।
9 /2 /11 तद्दुष्टज्ञानम्।
9 /2 /12 अदुष्टं विद्या।
9 /2 /13 आर्षं सिद्धदर्शनं च धर्मेभ्यः।
इति कणादसूत्रपाठे नवमोऽध्यायस्य द्वितीयमह्निकम्, नवमोऽध्यायश्च।।
अथ दशमोऽध्यायः
10 /1 /1 इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः।
10 /1 /2 संशयनिर्णयान्तराभावाश्च ज्ञानान्तरत्वे हेतुः।
10 /1 /3 तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम्।
10 /1 /4 अभूदित्यपि।
10 /1 /5 सति च कार्यादर्शनात्।
10 /1 /6 एकार्थसमवायिकारणान्तरेषु दृष्टत्वात्।
10 /1 /7 एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषभ्यः।
इति कणादसूत्रपाठे दशमोऽध्यायस्य प्रथममाह्निकम्।।
10 /2 /1 कारणमिति द्रव्ये कार्य्यसमवायात्।
10 /2 /2 संयोगाद्वा।
10 /2 /3 कारणे समवायात् कर्माणि।
10 /2 /4 तथा रूपे कारणैकार्यसमवायाच्च।
10 /2 /5 कारणसमवायात् संयोगः पटस्य।
10 /2 /6 कारणाकारणसमवायाच्च।
10 /2 /7 संयुक्तसमवायादग्नेर्वैशेषिकम्।
10 /2 /8 लैङ्गिकं प्रमाणं व्याख्यातम्।
10 /2 /9 दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोभ्युऽदयाय।
10 /2 /10 तद्वचनादाम्नायस्य प्रामाण्यमिति।।
इति कणादसूत्रपाठे दशमोऽध्यास्य द्वितीयमह्निकम्, दशमोऽध्यायश्च।।
समाप्तञ्च वैशेषिकदर्शनम्।