तं च स्वाध्यायप्रवचने च। सत्यं च स्वाध्यायप्रवचने च। तपश्च स्वाध्यायप्रवचने च।
दमश्च स्वाध्यायप्रवचने च। शमश्चस्वाध्याय-प्रवचने च। अग्नयश्च स्वाध्यायप्रवचने च।
अग्निहोत्रं च स्वाध्याय-प्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च। मानुषं
च
स्वाध्यायप्रवचने च। प्रजा च स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च।
प्रजातिश्च स्वाध्यायप्रवचने च। सत्यमिति
सत्यवचा राथीतरः। तप इति तपोनित्यः पौरुशिष्टिः। स्वाध्यायप्रवचने वेति नाको
मौद्गल्यः। तध्दि तपस्तध्दि तपः॥1.9.1॥
(1) --
विज्ञानादेवाप्नोति
स्वाराज्यमित्युक्तत्वात् श्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्येतन्मा
प्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्वप्रदर्शनार्थ इहोपन्यासः -
तमिति व्याख्यातम्। स्वाध्यायः अध्ययनम्। प्रवचनमध्यापनं ब्रह्मयज्ञो वा। तानि
तादीनि,
अनुष्ठेयानि इति वाक्यशेषः। सत्यं सत्यवचनं यथाव्याख्यातार्थं
वा। तपः कृच्छ्रादि। दमः बाह्यकरणोपशमः। शमः अन्तःकरणोपशमः। अग्नयश्च
आधातव्याः।
अग्निहोत्रं च होतव्यम्। अतिथयश्च पूज्याः। मानुषमिति लौकिकः संव्यवहारः। तच्च
यथाप्राप्तमनुष्ठेयम्। प्रजा च उत्पाद्या। प्रजनश्च प्रजननम्;
तौ भार्यागमनमित्यर्थः। प्रजातिः पौत्रोत्पत्तिः;
पुत्रो निवेशयितव्य इत्येतत्। सर्वैरेतैः कर्मभिर्युक्तस्यापि
स्वाध्यायप्रवचने
यत्नतोऽनुष्ठेये इत्येवमर्थं सर्वेण सह
स्वाध्यायप्रवचनग्रहणम्। स्वाध्यायाधीनं ह्यर्थज्ञानम्। अर्थज्ञानाधीनं च परं
श्रेयः। प्रवचनं च
तदविस्मरणार्थं धर्मवृध्दयर्थं च। ततः
स्वाध्यायप्रवचनयोरादरः कार्यः। सत्यमिति सत्यमेवानुष्ठेयमिति सत्यवचाः सत्यमेव वचो
यस्य सोऽयं सत्यवचाः,
नाम वा तस्य; राथीतरः रथीतरसगोत्रः
राथीतर आचार्यो मन्यते। तप इति तप व कर्तव्यमिति
तपोनित्यः तपसि नित्यः तपःपरः,
तपोनित्य इति वा नाम; पौरुशिष्टिः
पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते।
स्वाध्यायप्रवचने व अनुष्ठेये इति नाको नामतः मुद्गलस्यापत्यं मौद्गल्य आचार्यो
मन्यते। तध्दि तपस्तध्दि तपः।
यस्मात्स्वाध्यायप्रवचने व तपः,
तस्मात्ते वानुष्ठेये इति। उक्तानामपि
सत्यतपःस्वाध्यायप्रवचनानां पुनर्ग्रहणमादरार्थम्॥ इति
नवमानुवाकभाष्यम्॥
पृथिव्यन्तिरक्षं
द्यौर्दिशोऽवान्तरदिशाः। अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि। आप ओषधयो
वनस्पतय आकाश आत्मा। इत्यधिभूतम्। अथाध्यात्मम्। प्राणो
व्यानोऽपान
उदानः समानः। चक्षुः श्रोत्रं मनोवाक् त्वक्। चर्म माँसँ स्नावास्थिमज्जा। तदधि
विधाय
षिरवोचत्। पाङ्त्कं वा इदँ सर्वम्। पाङ्त्केनैव पाङ्त्कँ स्पृणोतीति। (सर्वमेकं च)॥1.7.1॥
(1) --
व्याहृत्यात्मनो
ब्रह्मण उपासनमुक्तम्। अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम्। इदानीं
सर्वोपासनाङ्गभूतस्य ओंकारस्योपासनं विधित्स्यते।
परापरब्रह्मदृष्टया
हि उपास्यमान ओंकारः शब्दमात्रोऽपि परापरब्रह्मप्राप्तिसाधनं भवति;
स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च,
प्रतिमेव
विष्णोः,'एतेनैवायतनेनैकतरमन्वेति'
इति श्रुतेः। ओमिति, इतिशब्दः
स्वरूपपरिच्छेदार्थः; ॐ इत्येतच्छब्दरूपं ब्रह्म इति
मनसा धारयेत् उपासीत; यतः ॐ इति
इदं सर्वं हि
शब्दस्वरूपमोंकारेण व्याप्तम्,'तद्यथा
शङ्कुना' इति श्रुत्यन्तरात्।'अभिधानतन्त्रं
ह्यभिधेयम्' इत्यतः इदं सर्वमोंकार इत्युच्यते।
ओंकारस्तुत्यर्थ
उत्तरो ग्रन्थः,
उपास्यत्वात्तस्य। ॐ इत्येतत् अनुकृतिः अनुकरणम्। करोमि
यास्यामि चेति कृतमुक्त ओमित्यनुकरोत्यन्यः, अतः
ओंकारोऽनुकृतिः। ह स्म वै इति
प्रसिध्दार्थद्योतकाः। प्रसिध्दं ह्योंकारस्यानुकृतित्वम्। अपि च ओश्रावय इति
प्रैषपूर्वमाश्रावयन्ति प्रतिश्रावयन्ति। तथा ॐ इति सामानि गायन्ति सामगाः। ॐ
शोमिति
शास्त्राणि शंसन्ति शस्त्रशंसितारोऽपि तथा ॐ इति अध्वर्युः प्रतिगरं प्रतिगृणाति। ॐ
इति ब्रह्मा प्रसौति अनुजानाति। ॐ इति अग्निहोत्रम् अनुजानाति
जुहोमीत्युक्ते ॐ इत्येव अनुज्ञां प्रयच्छति। ॐ इत्येव ब्राह्मणः प्रवक्ष्यन्
प्रवचनं करिष्यन् अध्येष्यमाणः ओमित्याह ओमित्येव प्रतिपद्यते अध्येतुमित्यर्थः;
ब्रह्म वेदम्
उपाप्नवानि इति
प्राप्नुयां ग्रहीष्यामीति उपाप्नोत्येव ब्रह्म। अथवा,
ब्रह्म परमात्मानम् उपाप्नवानीत्यात्मोनं प्रवक्ष्यन
प्रापयिष्यन् ओमित्येवाह। स च तेनोंकारेण
ब्रह्म
प्राप्नोत्येव। ओंकारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात्,
तस्मादोंकारं ब्रह्मेत्युपासीतेति वाक्यार्थः॥
इत्यष्टमानुवाकभाष्यम्॥
ओमिति ब्रह्म। ओमितीदँ सर्वम्। ओमित्येतदनुकृतिर्ह स्म वा
अप्योश्रावयेत्याश्रावयन्ति। ओमिति सामानि गायन्ति। ओँशोमिति
शस्त्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्रह्म प्रसौति।
ओमित्यग्निहोत्रमनुजानाति। ओमिति ब्राह्मणः
प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति। ब्रह्मैवोपाप्नोति॥1.8.1॥
(1) --
यदेतद्वयाहृत्यात्मकं
ब्रह्मोपास्यमुक्तम्,
तस्यैवेदानीं
पृथिव्यादिपाङ्क्तस्वरूपेणोपासनमुच्यते -- पञ्चसंख्यायोगात्पङि्क्तच्छन्दः संपक्तिः;
ततः पाङ्क्तत्वं
सर्वस्य।
पाङ्क्तश्च यज्ञः,'पञ्चपदा
पङि्क्तः पाङ्क्तो यज्ञः' इति श्रुतेः। तेन यत्सर्वं
लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयति, यज्ञमेव
तत्परिकल्पयति। तेन
यज्ञेन परिकल्पितेन
पाङ्क्तात्मकं प्रजापतिमभिसंपद्यते। तत्कथं पाङ्क्तं वा इदं सर्वमित्यत आह --
पृथिवी अन्तरिक्षं द्यौः दिशः अवान्तरदिशः इति
लोकपाङ्क्तम्। अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि इति देवतापाङ्क्तम्। आपः
ओषधयः वनस्पतयः आकाशः आत्मा इति भूतपाङ्क्तम्। आत्मेति विराट्,
भूताधिकारात्। इत्यधिभूतमिति अधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम्,
लोकदेवतापाङ्क्तयोर्द्वयोश्चाभिहितत्वात्। अथ अनन्तरम्
अध्यात्मं पाङ्क्तत्रयमुच्यते --
प्राणादि
वायुपाङ्क्तम्। चक्षुरादि इन्द्रियपाङ्क्तम्। चर्मादि धातुपाङ्क्तम्। तावध्दीदं
सर्वमध्यात्मं बाह्यं च पाङ्क्तमेव इति तत् वम् अधिविधाय परिकल्प्य
षिः वेदः तद्दर्शनसंपन्नो वा कश्चिदृषिः,
अवोचत् उक्तवान्। किमित्याह -- पाङ्क्तं वा इदं सर्वं
पाङ्क्तेनैव आध्यात्मिकेन,
संख्यासामान्यात्,
पाङ्क्तं बाह्यं स्पृणोति बलयति पूरयति कात्मतयोपलभ्यत
इत्येतत्। वं पाङ्क्तमिदं सर्वमिति यो वेद, स
प्रजापत्यात्मैव भवतीत्यर्थः॥ इति सप्तमानुवाकभाष्यम्॥
स य षोऽन्तर्हृदय
आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः। अन्तरेण तालुके। य ष स्तन
इवावलम्बते। सेन्द्रयोनिः। य त्रासौ केशान्तो विवर्तते।
व्यपोह्य
शीर्षकपाले। भूरित्यग्नौ प्रतितिष्ठति। भुव इति वायौ। सुवरित्यादित्ये। मह इति
ब्रह्मणि आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्।
वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः। तत्ततो भवति। आकाश शरीरं ब्रह्म।
सत्यात्म प्राणारामं मन आनन्दम्। शान्ति समृध्दममृतम्। इति प्राचीन
योग्योपास्स्व॥1.6.1 -
1.6.2॥ (वायावमृतमेकं च)
(2)
से (4)
--
वायुः संधानम्। संधीयते अनेनेति संधानम्। इति अधिलोकं दर्शनमुक्तम्। अथाधिज्यौतिषम्
इत्यादि समानम्।
इतीमा इति उक्ता उपप्रदर्श्यन्ते। यः कश्चित् वम् ताः महासंहिताः व्याख्याताः वेद
उपास्ते;
वेदेत्युपासनं स्यात्,
विज्ञानाधिकारात्,'इति
प्राचीनयोग्योपास्स्व' इति च वचनात्। उपासनं च
यथाशास्त्रं तुल्यप्रत्ययसंततिरसंकीर्णा च अतत्प्रत्ययैः
शास्त्रोक्तालम्बनविषया च। प्रसिध्दश्चोपासनशब्दार्थो लोके --
'गुरुमुपास्ते''राजानमुपास्ते'
इति। यो हि गुर्वादीन्संततमुपचरति,
स
उपास्त इत्युच्यते। स च फलमाप्नोत्युपासनस्य। अतः अत्रापि य वं वेद,
संधीयते प्रजादिभिः स्वर्गान्तैः। प्रजादिफलं
प्राप्नोतीत्यर्थः॥
स य षोऽन्तर्हृदय
आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः। अन्तरेण तालुके। य ष स्तन
इवावलम्बते। सेन्द्रयोनिः। य त्रासौ केशान्तो विवर्तते।
व्यपोह्य
शीर्षकपाले। भूरित्यग्नौ प्रतितिष्ठति। भुव इति वायौ। सुवरित्यादित्ये। मह इति
ब्रह्मणि आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्।
वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः। तत्ततो भवति। आकाश शरीरं ब्रह्म।
सत्यात्म प्राणारामं मन आनन्दम्। शान्ति समृध्दममृतम्। इति प्राचीन
योग्योपास्स्व॥1.6.1 -
1.6.2॥ (वायावमृतमेकं च)
इति तृतीयानुवाकभाष्यम्॥
भूर्भुवः सुवरिति वा
तास्तिस्रो व्याहृतयः। तासामुह स्मैतां चतुर्थीम्। महाचमस्यः प्रवेदयते। मह इति।
तद्ब्रह्म। सह आत्मा। अङ्गान्यन्या देवताः। भूरिति वा
अयं लोकः।
भुव इत्यन्तरिक्षम्। सुवरित्यसौ लोकः। मह इत्यादित्यः। आदित्येन वाव सर्वे लोका
महीयन्ते। भूरिति वा अग्निः। भुव इति वायुः।
सुवरित्यादित्यः। मह
इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतीँषि महीयन्ते। भूरिति वा
चः। भुव इति सामानि। सुवरिति यजूँषि। मह इति ब्रह्म। ब्रह्मणा वाव सर्वे वेदा
महीयन्ते। भूरिति वै प्राणः। भुव इत्यपानः।
सुवरिति व्यानः। मह इत्यन्नम्। अन्नेन वावा सर्वे प्राणा महीयन्ते। ता वा
ताश्चतस्रश्चतुर्धा। चतस्रश्चतस्रो व्याहृतयः। ता यो
वेद। स वेद ब्रह्म। सर्वेऽस्मै देवाः बलिमावाहन्ति॥1.5.1
- 1.5.3॥ (असौ लोको यजूँषि वेद द्वे च)॥
(1)
से (3)
--
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते,'स
मेन्द्रो मेधया स्पृणोतु''ततो
मे श्रियमावह'
इति च
लिङ्गदर्शनात्। यः छन्दसां वेदानाम्
षभ इव
षभः,
प्राधान्यात्। विश्वरूपः सर्वरूपः,
सर्ववाग्यव्याप्तेः'तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार वेदं सर्वम्'
इत्यादिश्रुत्यन्तरात्। अत व
षभत्वमोंकारस्य। ओंकारो ह्यत्रोपास्य इति
षभादिशब्दैः
स्तुतिर्न्याय्यैव ओंकारस्य। छन्दोभ्यः वेदेभ्यः,
वेदा ह्यमृतम्, तस्मात् अमृतात् अधि
संबभूव लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः
प्रजापतेस्तपस्यतः
ओंकारः सारिष्ठत्वेन प्रत्यभादित्यर्थः। न हि नित्यस्य ओंकारस्य
अञ्जसैवोत्पत्तिरवकल्पते। सः वंभूत ओंकारः इन्द्रः सर्वकामेशः परमेश्वरः
मा मां मेधया
प्रज्ञया स्पृणोतु प्रीणयतु,
बलयतु वा, प्रज्ञाबलं हि
प्रार्थ्यते। अमृतस्य अमृत्वहेतुभूतस्य ब्रह्मज्ञानस्य,
तदधिकारात्; हे देव धारणः धारयिता भूयासं
भवेयम्। किं च,
शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत्,
भूयादिति प्रथमपुरुषविपरिणामः।
जिह्वा मे मम मधुमत्तमा मधुमती, अतिशयेन
मधुरभाषिणीत्यर्थः।
कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवम्,
श्रोता भूयासमित्यर्थः। आत्मज्ञानयोग्यः
कार्यकरणसंघातोऽस्त्विति वाक्यार्थः। मेधा च तदर्थमेव
हि प्रार्थ्यते --
ब्रह्मणः परमात्मनः कोशः असि असेरिव;
उपलब्ध्यधिष्ठानत्वात्; त्वं हि
ब्रह्मणः प्रतीकम्; त्वयि ब्रह्मोपलभ्यते। मेधया
लौकिकप्रज्ञया पिहितः
आच्छादितः स त्वं
सामान्यप्रज्ञैरविदितत्त्व इत्यर्थः। श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं विज्ञानं
मे गोपाय रक्ष;
तत्प्राप्त्यविस्मरणादिकं कुर्वित्यर्थः। जपार्था ते मन्त्रा
मेधाकामस्य।
श्रीकामस्य होमार्थास्त्वधुनोच्यन्ते मन्त्राः -- आवहन्ती आनयन्ती;
वितन्वाना विस्तारयन्ती,
तनोतेस्तत्कर्मकत्वात्; कुर्वाणा निर्वर्तयन्ती अचीरम्
अचिरं
क्षिप्रमेव;
छान्दसो दीर्घः; चिरं वा;
कुर्वाणा, आत्मनः मम;
किमित्याह -- वासांसि वस्त्राणि, मम,
गावश्च गाश्चेति यावत्; अन्नपाने च
सर्वदा; वमादीनि
कुर्वाणा श्रीर्या,
तां ततः मेधानिर्वर्तनात्परम् आवग आनय;
अमेधसो हि श्रीरनर्थायैवेति। किंविशिष्टाम्?
लोमशाम् अजाव्यादियुक्ताम् अन्यैश्च पशुभिः सह युक्ताम्
आवहेति।
अधिकारादोंकार वाभिसंबध्यते। स्वाहा,
स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः। आमायन्त्विती। आयन्तु,
मामिति व्यवहितेन संबन्धः,
ब्रह्मचारिणः।
विमायन्तु
प्रमायन्तु दमायन्तु शमायन्तु इत्यादि। यशोजने यशस्विजनेषु असानि भवानि। श्रेयान्
प्रशस्यतरः,
वस्यसः वसीयसः वसुतराद्वसुमत्तराद्वा
धनवज्जातीयपुरुषाद्विशेषवानहमसानीत्यर्थः। किं च,
तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह,
प्रविशानि। प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः। सः
त्वमपि मा मां भग
भगवन्,
प्रविश; आवयोरेकात्मत्वमेवास्तु। तस्मिन् त्वयि
सहस्रशाखे बहुशाखाभेदे हे भगवन्, निमृजे शोधयामि अहं
पापकृत्याम्। यथा लोके
आपः प्रवता प्रवणवता
निम्नवता देशेन यन्ति गच्छन्ति,
यथा च मासाः अहर्जरम्,
संवत्सरोऽहर्जरः अहोभिः परिवर्तमानो लोकाञ्जरयतीति;
अहानि वा अस्मिन्
जीर्यन्ति
अन्तर्भवन्तीत्यहर्जरः;
तं च यथा मासाः यन्ति, वं मां
ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु
आगच्छन्तु सर्वतः सर्वदिग्भ्यः। प्रतिवेशः
श्रमापनयनस्थानम्
आसन्नं गृहमित्यर्थः। वं त्वं प्रतिवेश इव प्रतिवेशः त्वच्छीलिनां
सर्वपापदुःखापनयनस्थानमसि। अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम्,
प्र
मा पद्यस्व
प्रपद्यस्व च माम्। रसविध्दमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः।
श्रीकामोऽस्मिन्विद्याप्रकरणे अभिधीयमानो धनार्थः;
धनं च कर्मार्थम्; कर्म च
उपात्तदुरितक्षयार्थम्;
तत्क्षये हि विद्या प्रकाशते। तथा च स्मृतिः -- 'ज्ञानमुत्पद्यते
पुंसां क्षयात्पापस्य कर्मणः। यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि'
इति॥
इति
चतुर्थानुवाकभाष्यम्॥
भूर्भुवः सुवरिति वा तास्तिस्रो व्याहृतयः। तासामुह स्मैतां चतुर्थीम्। महाचमस्यः
प्रवेदयते। मह इति। तद्ब्रह्म। सह आत्मा।
अङ्गान्यन्या देवताः। भूरिति वा अयं लोकः। भुव इत्यन्तरिक्षम्। सुवरित्यसौ लोकः। मह
इत्यादित्यः। आदित्येन वाव सर्वे
लोका महीयन्ते। भूरिति वा अग्निः। भुव इति वायुः। सुवरित्यादित्यः। मह इति
चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतीँषि
महीयन्ते। भूरिति वा
चः। भुव इति सामानि।
सुवरिति यजूँषि। मह इति ब्रह्म। ब्रह्मणा वाव सर्वे वेदा महीयन्ते। भूरिति वै
प्राणः। भुव इत्यपानः। सुवरिति व्यानः। मह इत्यन्नम्।
अन्नेन वावा सर्वे
प्राणा महीयन्ते। ता वा ताश्चतस्रश्चतुर्धा। चतस्रश्चतस्रो व्याहृतयः। ता यो वेद। स
वेद ब्रह्म। सर्वेऽस्मै देवाः बलिमावाहन्ति॥1.5.1
-
1.5.3॥
(असौ लोको यजूँषि वेद द्वे च)॥
(1)
से (3)
--
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते,'स
मेन्द्रो मेधया स्पृणोतु''ततो
मे
श्रियमावह'
इति च लिङ्गदर्शनात्। यः छन्दसां वेदानाम्
षभ इव
षभः,
प्राधान्यात्। विश्वरूपः सर्वरूपः,
सर्ववाग्यव्याप्तेः'तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा
वाक्संतृण्णोंकार वेदं सर्वम्'
इत्यादिश्रुत्यन्तरात्। अत व
षभत्वमोंकारस्य।
ओंकारो ह्यत्रोपास्य इति
षभादिशब्दैः स्तुतिर्न्याय्यैव ओंकारस्य। छन्दोभ्यः वेदेभ्यः,
वेदा ह्यमृतम्, तस्मात् अमृतात् अधि
संबभूव लोकदेववेदव्याहृतिभ्यः
सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यतः ओंकारः सारिष्ठत्वेन प्रत्यभादित्यर्थः। न हि
नित्यस्य ओंकारस्य अञ्जसैवोत्पत्तिरवकल्पते।
सः वंभूत ओंकारः इन्द्रः सर्वकामेशः परमेश्वरः मा मां मेधया प्रज्ञया स्पृणोतु
प्रीणयतु,
बलयतु वा, प्रज्ञाबलं हि
प्रार्थ्यते।
अमृतस्य अमृत्वहेतुभूतस्य ब्रह्मज्ञानस्य,
तदधिकारात्; हे देव धारणः धारयिता
भूयासं भवेयम्। किं च, शरीरं मे मम विचर्षणं
विचक्षणं योग्यमित्येतत्,
भूयादिति प्रथमपुरुषविपरिणामः। जिह्वा मे मम मधुमत्तमा मधुमती,
अतिशयेन मधुरभाषिणीत्यर्थः।
कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवम्,
श्रोता भूयासमित्यर्थः। आत्मज्ञानयोग्यः
कार्यकरणसंघातोऽस्त्विति वाक्यार्थः। मेधा
च
तदर्थमेव हि प्रार्थ्यते -- ब्रह्मणः परमात्मनः कोशः असि असेरिव;
उपलब्ध्यधिष्ठानत्वात्; त्वं हि
ब्रह्मणः प्रतीकम्; त्वयि
ब्रह्मोपलभ्यते। मेधया लौकिकप्रज्ञया पिहितः आच्छादितः स त्वं
सामान्यप्रज्ञैरविदितत्त्व इत्यर्थः। श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं
विज्ञानं मे गोपाय रक्ष;
तत्प्राप्त्यविस्मरणादिकं कुर्वित्यर्थः। जपार्था ते मन्त्रा
मेधाकामस्य। श्रीकामस्य होमार्थास्त्वधुनोच्यन्ते
मन्त्राः -- आवहन्ती आनयन्ती;
वितन्वाना विस्तारयन्ती,
तनोतेस्तत्कर्मकत्वात्; कुर्वाणा निर्वर्तयन्ती अचीरम्
अचिरं क्षिप्रमेव;
छान्दसो दीर्घः;
चिरं वा; कुर्वाणा,
आत्मनः मम; किमित्याह -- वासांसि
वस्त्राणि, मम, गावश्च
गाश्चेति यावत्; अन्नपाने च
सर्वदा;
वमादीनि कुर्वाणा श्रीर्या, तां ततः
मेधानिर्वर्तनात्परम् आवग आनय; अमेधसो हि
श्रीरनर्थायैवेति। किंविशिष्टाम्?
लोमशाम् अजाव्यादियुक्ताम् अन्यैश्च पशुभिः सह युक्ताम् आवहेति। अधिकारादोंकार
वाभिसंबध्यते। स्वाहा,
स्वाहाकारो
होमार्थमन्त्रान्तज्ञापनार्थः। आमायन्त्विती। आयन्तु,
मामिति व्यवहितेन संबन्धः,
ब्रह्मचारिणः। विमायन्तु प्रमायन्तु दमायन्तु
शमायन्तु इत्यादि। यशोजने यशस्विजनेषु असानि भवानि। श्रेयान् प्रशस्यतरः,
वस्यसः वसीयसः वसुतराद्वसुमत्तराद्वा
धनवज्जातीयपुरुषाद्विशेषवानहमसानीत्यर्थः। किं च,
तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह,
प्रविशानि। प्रविश्य
चानन्यस्त्वदात्मैव भवानीत्यर्थः। सः त्वमपि मा मां भग भगवन्,
प्रविश; आवयोरेकात्मत्वमेवास्तु।
तस्मिन् त्वयि सहस्रशाखे
बहुशाखाभेदे हे भगवन्,
निमृजे शोधयामि अहं पापकृत्याम्। यथा लोके आपः प्रवता प्रवणवता
निम्नवता देशेन यन्ति गच्छन्ति,
यथा च मासाः अहर्जरम्,
संवत्सरोऽहर्जरः अहोभिः परिवर्तमानो लोकाञ्जरयतीति;
अहानि वा अस्मिन् जीर्यन्ति
अन्तर्भवन्तीत्यहर्जरः;
तं च यथा मासाः यन्ति, वं मां
ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु
आगच्छन्तु सर्वतः
सर्वदिग्भ्यः। प्रतिवेशः श्रमापनयनस्थानम् आसन्नं गृहमित्यर्थः। वं त्वं प्रतिवेश
इव प्रतिवेशः त्वच्छीलिनां
सर्वपापदुःखापनयनस्थानमसि। अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम्,
प्र मा पद्यस्व प्रपद्यस्व च माम्। रसविध्दमिव लोहं
त्वन्मयं त्वदात्मानं कुर्वित्यर्थः। श्रीकामोऽस्मिन्विद्याप्रकरणे अभिधीयमानो
धनार्थः;
धनं च कर्मार्थम्; कर्म च
उपात्तदुरितक्षयार्थम्;
तत्क्षये हि विद्या प्रकाशते। तथा च स्मृतिः --
'ज्ञानमुत्पद्यते
पुंसां क्षयात्पापस्य कर्मणः। यथादर्शतले प्रख्ये
पश्यत्यात्मानमात्मनि'
इति॥
भूर्भुवः सुवरिति वा
तास्तिस्रो व्याहृतयः। तासामुह स्मैतां चतुर्थीम्। महाचमस्यः प्रवेदयते। मह इति।
तद्ब्रह्म। सह आत्मा। अङ्गान्यन्या देवताः। भूरिति वा
अयं लोकः। भुव
इत्यन्तरिक्षम्। सुवरित्यसौ लोकः। मह इत्यादित्यः। आदित्येन वाव सर्वे लोका
महीयन्ते। भूरिति वा अग्निः। भुव इति वायुः।
सुवरित्यादित्यः। मह
इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योती्ँषि महीयन्ते। भूरिति वा
चः। भुव इति सामानि। सुवरिति यजू्ँषि। मह इति ब्रह्म। ब्रह्मणा वाव सर्वे वेदा
महीयन्ते। भूरिति वै प्राणः। भुव इत्यपानः।
सुवरिति व्यानः। मह इत्यन्नम्। अन्नेन वावा सर्वे प्राणा महीयन्ते। ता वा
ताश्चतस्रश्चतुर्धा। चतस्रश्चतस्रो व्याहृतयः। ता यो
वेद। स वेद ब्रह्म। सर्वेऽस्मै देवाः बलिमावाहन्ति॥1.5.1
- 1.5.3॥ (असौ लोको यजू्ँषि वेद द्वे च)॥
(1)
से (3)
--
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते,'स
मेन्द्रो मेधया स्पृणोतु''ततो
मे श्रियमावह'
इति च
लिङ्गदर्शनात्। यः
छन्दसां वेदानाम्
षभ इव
षभः,
प्राधान्यात्। विश्वरूपः सर्वरूपः,
सर्ववाग्यव्याप्तेः'तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार वेदं सर्वम्'
इत्यादिश्रुत्यन्तरात्। अत व
षभत्वमोंकारस्य। ओंकारो ह्यत्रोपास्य इति
षभादिशब्दैः
स्तुतिर्न्याय्यैव ओंकारस्य। छन्दोभ्यः वेदेभ्यः,
वेदा ह्यमृतम्, तस्मात् अमृतात् अधि
संबभूव लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः
प्रजापतेस्तपस्यतः
ओंकारः सारिष्ठत्वेन प्रत्यभादित्यर्थः। न हि नित्यस्य ओंकारस्य
अञ्जसैवोत्पत्तिरवकल्पते। सः वंभूत ओंकारः इन्द्रः सर्वकामेशः परमेश्वरः
मा मां मेधया
प्रज्ञया स्पृणोतु प्रीणयतु,
बलयतु वा, प्रज्ञाबलं हि
प्रार्थ्यते। अमृतस्य अमृत्वहेतुभूतस्य ब्रह्मज्ञानस्य,
तदधिकारात्; हे देव धारणः धारयिता भूयासं
भवेयम्। किं च,
शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत्,
भूयादिति प्रथमपुरुषविपरिणामः। जिह्वा मे मम मधुमत्तमा मधुमती,
अतिशयेन
मधुरभाषिणीत्यर्थः।
कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवम्,
श्रोता भूयासमित्यर्थः। आत्मज्ञानयोग्यः
कार्यकरणसंघातोऽस्त्विति वाक्यार्थः। मेधा च तदर्थमेव
हि प्रार्थ्यते --
ब्रह्मणः परमात्मनः कोशः असि असेरिव;
उपलब्ध्यधिष्ठानत्वात्; त्वं हि
ब्रह्मणः प्रतीकम्; त्वयि ब्रह्मोपलभ्यते। मेधया
लौकिकप्रज्ञया पिहितः
आच्छादितः स त्वं
सामान्यप्रज्ञैरविदितत्त्व इत्यर्थः। श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं विज्ञानं
मे गोपाय रक्ष;
तत्प्राप्त्यविस्मरणादिकं कुर्वित्यर्थः। जपार्था ते मन्त्रा
मेधाकामस्य।
श्रीकामस्य होमार्थास्त्वधुनोच्यन्ते मन्त्राः -- आवहन्ती आनयन्ती;
वितन्वाना विस्तारयन्ती,
तनोतेस्तत्कर्मकत्वात्; कुर्वाणा निर्वर्तयन्ती अचीरम्
अचिरं क्षिप्रमेव;
छान्दसो दीर्घः; चिरं वा;
कुर्वाणा, आत्मनः मम;
किमित्याह -- वासांसि वस्त्राणि, मम,
गावश्च गाश्चेति यावत्; अन्नपाने च
सर्वदा; वमादीनि
कुर्वाणा श्रीर्या,
तां ततः मेधानिर्वर्तनात्परम् आवग आनय;
अमेधसो हि श्रीरनर्थायैवेति। किंविशिष्टाम्?
लोमशाम् अजाव्यादियुक्ताम् अन्यैश्च पशुभिः सह युक्ताम्
आवहेति।
अधिकारादोंकार वाभिसंबध्यते। स्वाहा,
स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः। आमायन्त्विती। आयन्तु,
मामिति व्यवहितेन संबन्धः,
ब्रह्मचारिणः।
विमायन्तु
प्रमायन्तु दमायन्तु शमायन्तु इत्यादि। यशोजने यशस्विजनेषु असानि भवानि। श्रेयान्
प्रशस्यतरः,
वस्यसः वसीयसः वसुतराद्वसुमत्तराद्वा
धनवज्जातीयपुरुषाद्विशेषवानहमसानीत्यर्थः। किं च,
तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह,
प्रविशानि। प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः। सः
त्वमपि मा मां भग
भगवन्,
प्रविश; आवयोरेकात्मत्वमेवास्तु। तस्मिन् त्वयि
सहस्रशाखे बहुशाखाभेदे हे भगवन्, निमृजे शोधयामि अहं
पापकृत्याम्। यथा लोके
आपः प्रवता प्रवणवता
निम्नवता देशेन यन्ति गच्छन्ति,
यथा च मासाः अहर्जरम्,
संवत्सरोऽहर्जरः अहोभिः परिवर्तमानो लोकाञ्जरयतीति;
अहानि वा अस्मिन्
जीर्यन्ति
अन्तर्भवन्तीत्यहर्जरः;
तं च यथा मासाः यन्ति, वं मां
ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु
आगच्छन्तु सर्वतः सर्वदिग्भ्यः। प्रतिवेशः
श्रमापनयनस्थानम्
आसन्नं गृहमित्यर्थः। वं त्वं प्रतिवेश इव प्रतिवेशः त्वच्छीलिनां
सर्वपापदुःखापनयनस्थानमसि। अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम्,
प्र
मा पद्यस्व
प्रपद्यस्व च माम्। रसविध्दमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः।
श्रीकामोऽस्मिन्विद्याप्रकरणे अभिधीयमानो धनार्थः;
धनं च कर्मार्थम्; कर्म च
उपात्तदुरितक्षयार्थम्;
तत्क्षये हि विद्या प्रकाशते। तथा च स्मृतिः -- 'ज्ञानमुत्पद्यते
पुंसां क्षयात्पापस्य कर्मणः। यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि'
इति॥
आवहन्ती वितन्वाना। कुर्वाणाऽचीरमात्मनः वासा्ँसि मम गावश्च। अन्नपाने च सर्वदा।
ततो मे श्रियमावह। लोमशां पशुभिः सह
स्वाहा। आमायन्तु ब्रह्मचारिणः स्वाहा। विमायन्तु ब्रह्मचारिणः स्वाहा। प्रमायन्तु
ब्रह्मचारिणः स्वाहा। दमायन्तु ब्रह्मचारिणः
स्वाहा। शमायन्तु ब्रह्मचारिणः स्वाहा। यशो जनेऽसानि स्वाहा।श्रेयान् वस्यसोऽसानि
स्वाहा। तं त्वा भग प्रविशानि स्वाहा। स
मा भग प्रविश स्वाहा। तस्मिन् सहस्रशाखे। निभगाहं त्वयि मृजे स्वाहा। यथापः प्रवता
यान्ति। यथा मास अहर्जरम्। वं मां
ब्रह्मचारिणः। धातरायन्तु सर्वतः स्वाहा। प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व।
वितन्वाना शमायन्तु ब्रह्मचारिणः स्वाहा।
(धातरायन्तु
सर्वतः स्वाहैके च)॥1.4.2॥
इति
चतुर्थानुवाकभाष्यम्॥
यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्संबभूव। स मेन्द्रो मेधया स्पृणोतु।
अमृतस्य देवधारणो भूयासम्। शरीरं मे
विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्। ब्रह्मणः कोशोऽसि
मेधया पिहितः। श्रुतं मे गोपाय॥1.4.1॥
(1)
से (3)
--
संहिताविषयमुपासनमुक्तम्। तदनु मेधाकामस्य श्रीकामस्य चानुक्रान्ता मन्त्राः। ते च
पारम्पर्येण विद्योपयोगार्था व। अनन्तरं व्याहृत्यात्मनो
ब्रह्मणः
अन्तरुपासनं स्वाराज्यफलं प्रस्तूयते -- भूर्भुवः सुवरिति।
इतीत्युक्तोपप्रदर्शनार्थः। तास्तिस्र इति च प्रदर्शितानां परामर्शार्थः परामृष्टाः
स्मर्यन्ते वै
इत्यनेन। तिस्र ताः
प्रसिध्दा व्याहृतयः स्मर्यन्त इति यावत्। तासाम् इयं चतुर्थी व्याहृतिर्मह इति;
तामेतां चतुर्थीं महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते,
उ ह
स्म इत्येतेषां
वृत्तानुकथनार्थत्वात् विदितवान् ददर्शेत्यर्थः।
माहाचमस्यग्रहणमार्षानुस्मरणार्थम्।
ष्यनुस्मरणमप्युपासनाङ्गमिति गम्यते,
इहोपदेशात्। येयं माहाचमस्येन दृष्टा व्याहृतिः मह इति,
तत् ब्रह्म। महध्दि ब्रह्म;
महश्च व्याहृतिः। किं पुनस्तत्?
स आत्मा, आप्नोतेर्व्याप्तिकर्मणः
आत्मा; इतराश्च व्याहृतयो लोका देवा वेदाः प्राणाश्च मह
इत्यनेन व्याहृत्यात्मना आदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः,
अत अङ्गानि अवयवाः अन्याः देवताः। देवताग्रहणमुपलक्षणार्थं
लोकादीनाम्। मह इत्यस्य व्याहृत्यात्मनो देवा लोकादयश्च सर्वे अवयवभूता यतः,
अत आह -- आदित्यादिभिर्लोकादयो
महीयन्त इति। आत्मना ह्यङ्गानि महीयन्ते। महनं वृध्दिः उपचयः। महीयन्ते वर्धन्त
इत्यर्थः। अयं लोकः अग्निः
ग्वेदः प्राण इति
प्रथमा व्याहृतिः भूः;
अन्तरिक्षं वायुः सामानि अपानः इति द्वितीया व्याहृतिः भुवः;
असौ लोकः आदित्यः यजू्ँषि व्यानः इति तृतीया व्याहृतिः
सुवः;
आदित्यः चन्द्रमाः ब्रह्म अन्नम् इति चतुर्थीं व्याहृतिः महः
इत्येवम् कैकाश्चतुर्धा भवन्ति। मह इति ब्रह्म ब्रह्मेत्योंकारः,
शब्दाधिकारे अन्यस्यासंभवात्।
उक्तार्थमन्यत्। ता
वा ताश्चतस्रश्चतुर्धेति। ता वै ताः भूर्भुवःसुवर्मह इति चतस्रः कैंकशः चतुर्धा
चतुःप्रकाराः। धा-शब्दः प्रकारवचनः। चतस्रश्चतस्रः सत्यः
चतुर्धा
भवन्तीत्यर्थः। तासां यथाक्लृप्तानां पुनरुपदेशस्तथैवोपासननियमार्थः। ताः यथोक्ता
व्याहृतीः यः वेद,
स वेद विजानाति। किं तत्? ब्रह्म।
ननु,'तद्ब्रह्म
स आत्मा'
इति ज्ञाते ब्रह्मणि, न
वक्तव्यमविज्ञातवत्'स वेद ब्रह्म'
इति; न;
तद्विशेषविवक्षुत्वाददोषः। सत्यं विज्ञातं चतुर्थव्याहृत्या आत्मा ब्रह्मेति;
न तु तद्विशेषः
--
हृदयान्तरुपलभ्यत्वं
मनोमयत्वादिश्च।'शान्तिसमृध्दम्'
इत्येवमन्तो
विशेषणविशेषरूपो धर्मपूगो न विज्ञायत इति;
तद्विवक्षु हि
शास्त्रमविज्ञातमिव ब्रह्म मत्वा'
स वेद ब्रह्म'
इत्याह। अतो न दोषः। यो वा वक्ष्यमाणेन धर्मपूगेण विशिष्टं
ब्रह्म वेद, स वेद ब्रह्म इत्यभिप्रायः। अतो
वक्ष्यमाणानुवाकेनैकवाक्यता अस्य,
उभयोर्ह्यनुवाकयोरेकमुपासनम्। लिङ्गाच्च।'भूरित्यग्नौ
प्रतितिष्ठति' इत्यादिकं लिङ्गमुपासनैकत्वे।
विधायकाभावाच्च। न हि वेद उपासीत वेति विधायकः
कश्चिच्छब्दोऽस्ति।
व्याहृत्यनुवाके'ता
यो वेद' इति तु वक्ष्यमाणार्थत्वान्नोपासनाभेदकः।
वक्ष्यमार्णार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम्। सर्वे देवाः अस्मै
वंविदुषे अङ्गभूताः
आवहन्ति आनयन्ति बलिम्,
स्वाराज्यप्राप्तौ सत्यामित्यर्थः॥ इति पञ्चमानुवाकभाष्यम्॥
अथाध्यात्मम्। अधरा हनुः पूर्वरूपम्। उत्तरा हनुरुत्तररूपम्। वाक् सन्धिः। जिह्वा
सन्धानम्। इत्यध्यात्मम्। इतीमा महासँ्
हिताः॥1.3.6॥
(1)
से (2)
-- भूर्भुवः
सुवः स्वरूपा मह इत्येतस्य हिरण्यगर्भस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या
देवता इत्युक्तम्। यस्य ता अङ्गभूताः,
तस्यैतस्य
ब्रह्मणः
साक्षादुपलब्ध्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते,
सालग्राम इव विष्णोः। तस्मिन्हि तद्ब्रह्म उपास्यमानं
मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते,
पाणाविवामलकम्।
मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते -- स इति व्युत्क्रम्य
अयं पुरुष इत्यनेन संबध्यते। य ष अन्तर्हृदये हृदयस्यान्तः।
हृदयमिति
पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकानाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने
पशौ प्रसिध्द उपलभ्यते। तस्यान्तः य ष आकाशः प्रसिध्द व
करकाकाशवत्,
तस्मिन् सोऽयं पुरुषः, पुरु शयनात्;
पूर्णा वा भूरादयो लोका येनेति पुरुषः मनोमयः,
मनः विज्ञानं मनुतेज्र्ञानकर्मणः,
तन्मयः तत्प्रायः,
तदुपलभ्यत्वात्।
मनुते अनेनेति वा मनः अन्तःकरणम्;
तदभिमानी तन्मयः, तल्लिङ्गो वा।
अमृतः अमरणधर्मा। हिरण्मयः ज्योतिर्मयः। तस्यैवंलक्षणस्य
हृदयाकाशे
साक्षात्कृतस्य विदुष आत्मभूतस्य ईश्वररूपस्य प्रतिपत्तये मार्गोऽभिधीयते --
हृदयादरूध्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु प्रसिध्दा। सा च
अन्तरेण तालुके
मध्ये तालुकयोर्गता। यश्च ष तालुकयोर्मध्ये स्तन इव अवलम्बते मांसखण्डः,
तस्य च अन्तरेण इत्येतत्। यत्र च असौ केशान्तः केशानामन्तो
मूलं केशान्तः
विवर्तते विभागेन वर्तते,
मूर्धप्रदेश इत्यर्थः; तं देशं
प्राप्य तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले,
विनिर्गता या, सा
इन्द्रियोनिः
इन्द्रस्य ब्रह्णः योनिः मार्गः,
स्वरूपप्रतिपत्तिद्वारमित्यर्थः। तथा वं विद्वान्मनोमयात्मदर्शी
मर्ूध्नो विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति
व्याहृतिरूपो
योऽग्निः महतो ब्रह्मणोऽङ्गभूतः,
तस्मिन अग्नौ प्रतितिष्ठति,
अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः। तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ,
प्रतितिष्ठतीत्यनुवर्तते। सुवरिति तृतीयवयाहृत्यात्मनि आदित्ये। मह इत्यङ्गिनि
चतुर्थव्याहृत्यात्मनि ब्रह्मणि प्रतितिष्ठतीति। तेष्वात्मभावेन स्थित्वा आप्नोति
ब्रह्मभूतं
स्वाराज्यं स्वराङ्भावं स्वयमेव राजा अधिपतिर्भवति अङ्गभूतानां देवतानां यथा ब्रह्म;
देवाश्च सर्वे अस्मै अङ्गिने बलिमावहन्ति अङ्गभूताः यथा
ब्रह्मणे। आप्नोति
मनसस्पतिम्,
सर्वेषां हि मनसां पतिः,
सर्वात्मकत्वाद्ब्रह्मणः सर्वैर्हि मनोभिस्तन्मनुते। तदाप्नोत्येवं विद्वान्। किं च,
वाक्पतिः सर्वासां वाचां
पतिर्भवति। तथैव
चक्षुष्पतिः चक्षुषां पतिः। श्रोत्रपतिः श्रोत्राणां च पतिः। विज्ञानपतिः
विज्ञानानां च पतिः। सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः। किं
च,
ततोऽपि अधिकतरम् तत् भवति। किं तत्?
उच्यते -- आकाशशरीम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्म
शरीरमस्येत्याकाशशरीरम्। किं तत्? प्रकृतं
ब्रह्म। सत्यात्म,
सत्यं मूर्तामूर्तम् अवितथं स्वरूपं वा आत्मा स्वभावोऽस्य,
तदिदं सत्यात्म। प्राणारामम्,
प्राणेष्वारमणमाक्रीडा यस्य तत्प्राणारामम्; प्राणानां
वा
आरामो यस्मिन्,
तत्प्राणारामम्। मन आनन्दम्,
आनन्दभूतं सुखकृदेव यस्य मनः, तन्मन आनन्दम्।
शान्तिसमृध्दम् शान्तिरुपशमः, शान्तिश्च तत्समृध्दं च
शान्तिसमृध्दम्;
शान्त्या वा समृध्दवत्तदुपलभ्यत इति शान्तिसमृध्दम्। अमृतम्
अमरणधर्मि; तच्चाधिकरणविशेषणं तत्रैव मनोमय इत्यादौ
द्रष्टव्यमिति। वं
मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य,
उपास्स्व इत्याचार्यवचनोक्तिरादरार्था। उक्तस्तूपासनाशब्दार्थः॥
इति षष्ठानुवाकभाष्यम्॥
य
वमेता महास्ँहिता व्याख्याता वेद। संधीयते प्रजया पशुभिः। ब्रह्मवर्चसेनान्नाद्येन
सुवर्ग्येण लोकेन। (संधिराचार्यः
पूर्वरूपमित्यधिप्रजं लोकेन)॥1.3.7॥
(1) --
अधुना
संहितोपनिषदुच्यते। तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यत् यशः प्राप्यते,
तत् नौ आवयोः
शिष्याचार्ययोः सहैव अस्तु। तन्निमित्तं च यत्
ब्रह्मवर्चसं तेजः,
तच्च सहैवास्तु इति शिष्यवचनमाशीः। शिष्यस्य हि
अकृतार्थत्वात्प्रार्थनोपपद्यते; नाचार्यस्य,
कृतार्थत्वात्। कृतार्थो ह्याचार्यो नाम भवति। अथ
अनन्तरम्
अध्ययनलक्षणविधानस्य पूर्ववृत्तस्य,
अतः यतोऽत्यर्थं ग्रन्थभाविता बुध्दिर्नशक्यते
सहसार्थज्ञानविषयेऽवतारयितुमित्यतः, संहितायाः उपनिषदं
संहिताविषयं
दर्शनमित्येतत् ग्रन्थसंनिकृष्टामेव व्याख्यास्यामः,
पञ्चसु अधिकरणेणु आश्रयेषु,
ज्ञानविषयेष्वित्यर्थः। कानि तानीत्याह -- अधिलोकं लोकेष्वधि
यद्दर्शनम्,
तदधिलोकम्; तथा अधिज्यौतिषम्
अधिविद्यम् अधिप्रजम् अध्यात्ममिति। ताः ताः पञ्चविषया उपनिषदः
लोकादिमहावस्तुविषयत्वात्संहिताविषयत्वाच्च
महत्यश्च ताः
संहिताश्च महासंहिताः इति आचक्षते कथयन्ति वेदविदः। अथ तासां यथोपन्यस्तानां मध्ये
अधिलोकं दर्शनमुच्यते। दर्शनक्रमविवक्षार्थं अथशब्दः
सर्वत्र। पृथिवी
पूर्वरूपम्,
पूर्वो वर्णः पूर्वरूपम्, संहितायाः
पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति। तथा द्यौः उत्तररूपम्। आकाशः
अन्तरिक्षलोकः संधिः मध्यं
पूर्वोत्तररूपयोः
संधीयते अस्मिन्पूर्वोत्तररूपे इति॥
अथाधिविद्यम्। आचार्यः पूर्वरूपम्। अन्तेवास्युत्तररूपम्। विद्या सन्धिः।
प्रवचन्ँसन्धानम्। इत्यधिविद्यम्॥1.3.4॥
(2)
से (4)
-- वायुः
संधानम्। संधीयते अनेनेति संधानम्। इति अधिलोकं दर्शनमुक्तम्। अथाधिज्यौतिषम्
इत्यादि समानम्। इतीमा इति उक्ता उपप्रदर्श्यन्ते।
यः कश्चित् वम् ताः
महासंहिताः व्याख्याताः वेद उपास्ते;
वेदेत्युपासनं स्यात्,
विज्ञानाधिकारात्,'इति प्राचीनयोग्योपास्स्व'
इति च वचनात्। उपासनं च
यथाशास्त्रं
तुल्यप्रत्ययसंततिरसंकीर्णा च अतत्प्रत्ययैः शास्त्रोक्तालम्बनविषया च।
प्रसिध्दश्चोपासनशब्दार्थो लोके --
'गुरुमुपास्ते''राजानमुपास्ते'
इति। यो हि
गुर्वादीन्संततमुपचरति,
स उपास्त इत्युच्यते। स च फलमाप्नोत्युपासनस्य। अतः अत्रापि य
वं वेद, संधीयते प्रजादिभिः स्वर्गान्तैः। प्रजादिफलं
प्राप्नोतीत्यर्थः॥
अथाधिप्रजम्। माता पूर्वरूपम्। पितोत्तररूपम्। प्रजा सन्धिः। प्रजनन्ँसन्धानम्।
इत्यधिप्रजम्॥1.3.5॥
(2)
से (4)
-- वायुः
संधानम्। संधीयते अनेनेति संधानम्। इति अधिलोकं दर्शनमुक्तम्। अथाधिज्यौतिषम्
इत्यादि समानम्। इतीमा इति उक्ता उपप्रदर्श्यन्ते।
यः कश्चित् वम् ताः
महासंहिताः व्याख्याताः वेद उपास्ते;
वेदेत्युपासनं स्यात्,
विज्ञानाधिकारात्,'इति प्राचीनयोग्योपास्स्व'
इति च वचनात्। उपासनं च
यथाशास्त्रं
तुल्यप्रत्ययसंततिरसंकीर्णा च अतत्प्रत्ययैः शास्त्रोक्तालम्बनविषया च।
प्रसिध्दश्चोपासनशब्दार्थो लोके --
'गुरुमुपास्ते''राजानमुपास्ते'
इति। यो हि
गुर्वादीन्संततमुपचरति,
स उपास्त इत्युच्यते। स च फलमाप्नोत्युपासनस्य। अतः अत्रापि य
वं वेद, संधीयते प्रजादिभिः स्वर्गान्तैः। प्रजादिफलं
प्राप्नोतीत्यर्थः॥
अथाधिलोकम्। पृथिवी पूर्वरूपम्। द्यौरुत्तररूपम्। आकाशः सन्धिः। वायुः सन्धानम्।
इत्यधिलोकम्॥13.2॥
इत्येकादशानुवाकभाष्यम्॥
अथाधिज्यौतिषम्। अग्निः पूर्वरूपम्। आदित्य उत्तररूपम् आपः सन्धिः। वैद्युतः
सन्धानम्। इत्यधिज्यौतिषम्॥1.3.3॥
1.12.1
अतीतविद्याप्राप्त्युपसर्गशमनार्थां शान्ंति पठति -- शं नो मित्र इत्यादि।
व्याख्यातमेतत्पूर्वम्॥ इति द्वादशानुवाकभाष्यम्॥ इति
श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये शीक्षावल्लीभाष्यम् संपूर्णम्॥
सह नौ यशः। सह नौ ब्रह्मवर्चसम्। अथातः स्ँहिताया उपनिषदं व्याख्यास्यामः।
पञ्चस्वधिकरणेषु।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम्। ता महास्ँहिता इत्याचक्षते॥1.3.1॥
(1) --
शिक्षा शिक्ष्यते
अनयेति वर्णाद्युच्चारणलक्षणम्;
शिक्ष्यन्ते
अस्मिन् इति वा शिक्षा वर्णादयः। शिक्षैव शीक्षा। दर्ैध्यं छान्दसम्। तां शिक्षां
व्याख्यास्यामः
विस्पष्टम् आ
समन्तात्प्रकथयिष्यामः। चक्षिङः ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण
तद्रूपम्। तत्र वर्णः अकारादिः। स्वर उदात्तादिः। मात्रा ह्रस्वाद्याः।
बलं प्रयत्नविशेषः।
साम वर्णानां मध्यमवृत्त्योच्चारणं समता। संतानः संततिः,
संहितेत्यर्थः। वं शिक्षितव्योऽर्थः शिक्षा यस्मिन्नध्याये,
सोऽयं शीक्षाध्यायः इति वम्
उक्तः उदितः। उक्त
इत्युपसंहारार्थः॥ इति द्वितीयानुवाकभाष्यम्॥
ॐ
शीक्षां व्याख्यास्यामः। वर्णः स्वरः। मात्रा बलम्। सामः संतानः। इत्युक्तः
शीक्षाध्यायः॥1.2.1॥(शीक्षां
पञ्च)
(1)
से (4)
--
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मविज्ञानान्नियमेन
कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः,
अनुशासनश्रुतेः
पुरुषसंस्कारार्थत्वात्। संस्कृतस्य हि विशुध्दसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते।'तपसा
कल्मषं हन्ति विद्ययामृतमश्नुते' इति हि स्मृतिः।
वक्ष्यति च -- 'तपसा
ब्रह्म विजिज्ञासस्व'
इति। अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि।
अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः। प्रागुपन्यासाच्च
कर्मणाम्,
केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि। उदितायां च ब्रह्मविद्यायाम्'अभयं
प्रतिष्ठां विन्दते''न बिभेति कुतश्चन''किमहं
साधु नाकरवम्' इत्यादिना
कर्मनैष्ंकिचन्यं
दर्शयिष्यति। अतः अवगम्यते -- पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि
कर्माणीति। मन्त्रवर्णाच्च --
'अविद्यया
मृत्युं तर्ीत्वा विद्ययामृतमश्नुते'
इति
तादीनां पूर्वत्रोपदेशः आनर्थक्यपरिहाराथः;
इह तु ज्ञानोत्पत्त्यर्थत्वाकर्तव्यतानियमार्थः। वेदम् अनूच्य
अध्याप्य आचार्यः
अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं
ग्राहयतीत्यर्थः। अतोऽवगम्यते अधीतवेदस्य
धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति।'बुद्ध्वा
कर्माणि कुर्वीत' इति स्मृतेश्च। कथमनुशास्तीत्यत आह --
सत्यं वद
यथाप्रमाणावगतं वक्तव्यं च वद। तद्वत् धर्मं चर;
धर्म इत्यनुष्ठेयानां सामान्यवचनम्,
सत्यादिविशेषनिर्देशात्। स्वाध्यायात्
अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः। आचार्याय आचार्यार्थं प्रियम् इष्टं धनम्
आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम्
आचार्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा
व्यवच्छेत्सीः;
प्रजासंततेर्विच्छित्तिर्न कर्तव्या;
अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य
इत्यभिप्रायः,
प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात्;
अन्यथा
प्रजनश्चेत्येतदेकमेवावक्ष्यत्। सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यः;
सत्याच्च प्रमदनमनृतप्रसङ्गः;
प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः;
अन्यथा असत्यवदनप्रतिषेध व स्यात्। धर्मात् न प्रमदितव्यम्,
धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः,
स न कर्तव्यः अनुष्ठातव्य व धर्म इति यावत्। वं कुशलात्
आत्मरक्षार्थात्कर्मणः न प्रमदितव्यम्। भूतिः विभूतिः,
तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम्।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्,
ते हि नियमेन कर्तव्ये इत्यर्थः। तथा देवपितृकार्याभ्यां न
प्रमदितव्यम्, दैवपित्र्ये कर्मणी
कर्तव्ये। मातृदेवः माता देवो यस्य सः,
त्वं मातृदेवः भव स्याः। वं पितृदेवो भव;
आचार्यदेवो भव; अतिथिदेवो भव;
देवतावदुपास्या ते इत्यर्थः। यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि
शिष्टाचारलक्षणानि कर्माणि,
तानि सेवितव्यानि
कर्तव्यानि त्वया। नो न कर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि। यानि अस्माकम्
आचार्याणां सुचरितानि शोभनचरितानि
आम्नायाद्यविरुध्दानि,
तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि;
नियमेन कर्तव्यानीत्येतत्। नो इतराणि
विपरीतान्याचार्यकृतान्यपि। ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः
श्रेयासः प्रशस्ततराः,
ते च ब्राह्मणाः, न
क्षत्रियादयः,
तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम्,
प्रश्वसनं प्रश्वासः श्रमापनयः;
तेषां श्रमस्त्वया अपनेतव्य
इत्यर्थः। तेषां वा आसने गोष्ठीनिमित्ते समुदिते,
तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः;
केवलं तदुक्तसारग्राहिणा
भवितव्यम्। किं च,
यत्ंकिचिद्देयम् तत् श्रध्दयैव दातव्यम्। अश्रध्दया अदेयं न
दातव्यम्। श्रिया विभूत्या देयं दातव्यम्। ह्रिया
लज्जया न देयम्। भिया भीत्या च देयम्। संविदा च भैत्र्यादिकार्येण देयम्। अथ वं
वर्तमानस्य यदि कदाचित् ते तव श्रौते
स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत्,
ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ
युक्ता इति व्यवहितेन संबन्धः कर्तव्यः;
संमर्शिनः विचारक्षमाः, युक्ताः
अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः,
अलूक्षाः अरूक्षाः अक्रूरमतयः,
धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत्;
स्युः भवेयुः, ते ब्राह्मणाः यथा येन
प्रकारेण तत्र
तस्मिन्कर्मणि वृत्ते वा वर्तेरन्,
तथा त्वमपि वर्तेथाः। अथ अभ्याख्यातेषु,
अभ्याख्याता अभ्युक्ताः दोषेण संद्रिह्यमानेन संयोजिताः
केनचित्,
तेषु च; यथोक्तं सर्वमुपनयेत् -- ये
तत्रेत्यादि। षः आदेशः विधिः। षः उपदेशः पुत्रादिभ्यः पित्रादीनामपि। षा
वेदोपनिषत् वेदरहस्यम्,
वेदार्थ इत्येतत्। तदेव अनुशासनम् वेदरहस्यम्,
वेदार्थ इत्येतत्। तदेव अनुशासनम् ईश्वरवचनम्;
आदेशवाच्यस्य विधेरुक्तत्वात्। सर्वेषां वा प्रमाणभूतानामनुशासनमेतत्। यस्मादेवम्,
तस्मात् वं यथोक्तं सर्वम् उपासितव्यं
कर्तव्यम्। वमु च तत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थं
पुनर्वचनम्॥ अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम् -
-
किं
कर्मभ्य व केवलेभ्यः परं श्रेयः,
उत
विद्यासंव्यपेक्षेभ्यः,
आहोस्विद्विद्याकर्मभ्यां संहताभ्याम्,
विद्याया वा कर्मापेक्षायाः,
उत
केवलाया व विद्याया इति। तत्र केवलेभ्य व कर्मभ्यः स्यात्,
समस्तवेदार्थज्ञानवतः कर्माधिकारात्,'वेदः
कृत्स्नोऽधिगन्तव्यः
सरहस्यो द्विजन्मना'
इति स्मरणात्। अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना।'विद्वान्यजते''विद्वान्याजयति'
इति च विदुष व
कर्मण्यधिकारः प्रदशर्यते सर्वत्र ज्ञात्वानुष्ठानमिति च। कृत्स्नश्च वेदः कर्मार्थ
इति हि मन्यन्ते केचित्। कर्मभ्यश्चेत्परं श्रेयो
नावाप्यते,
वेदोऽनर्थकः स्यात्। न;
नित्यत्वान्मोक्षस्य। नित्यो हि मोक्ष इष्यते। कर्मकार्यस्य चानित्यत्वं प्रसिध्दं
लोके।
कर्मभ्यश्चेच्छ्रेयः,
अनित्यं स्यात्; तच्चानिष्टम्। ननु
काम्यप्रतिषिध्दयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात्
नित्यानुष्ठानाच्च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष व मोक्ष इति चेत्,
तच्च न; कर्मशेषसंभवात्तन्निमित्ता
शरीरान्तरोत्पत्तिः प्राप्नोतीति
प्रत्युक्तम्;
कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च।
यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च
न;
श्रुतज्ञानव्यतिरेकादुपासनस्य। श्रुतज्ञानमात्रेण हि
कर्मण्यधिक्रियते, नोपासनज्ञानमपेक्षते। उपासनं च
श्रुतज्ञानादर्थान्तरं
विधीयते मोक्षफलम्;
अर्थान्तरप्रसिध्देश्च स्यात्;'श्रोतव्यः'
इत्युक्त्वा तद्वयतिरेकेण'मन्तव्यो
निदिध्यासितव्यः' इति
यत्नान्तरविधानात् मनननिदिध्यासनयोश्च प्रसिध्दं श्रवणज्ञानादर्थान्तरत्वम्। वं
तर्हि विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः;
विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम्;
यथा स्वतो मरणज्वरकादिकार्यारम्भसमर्थानामपि विषदध्यादीनां
मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम्,
वं विद्यासहितैः कर्मभिः मोक्ष आरभ्यत इति चेत्,
न;
आरभ्यस्यानित्यत्वादित्युक्तो दोषः। वचनादारभ्योऽपि नित्य वेति चेत्,
न; ज्ञापकत्वाद्वचनस्य। वचनं नाम
यथाभूतस्यार्थस्य
ज्ञापकम्,
नाविद्यमानस्य कर्तृ। न हि वचनशतेनापि नित्यमारभ्यते,
आरब्धं वा अविनाशि भवेत्। तेन विद्याकर्मणोः
संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम्॥ विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके
इति चेत्,
न; कर्मणः फलान्तरदर्शनात्।
उत्पत्तिविकारसंस्काराप्तयो हि फलं कर्मणो दृश्यन्ते। उत्पत्त्यादिफलविपरीतश्च
मोक्षः। गतिश्रुतेराप्य इति चेत् --
'सूर्यद्वारेण''तयोर्ध्वमायन्'
इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत्,
न;
सर्वगतत्वात् गन्तृभ्यश्चानन्यत्वात्।
आकाशादिकारणत्वात्सर्वगतं ब्रह्म,
ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः;
अतो नाप्यो मोक्षः। गन्तुरन्यद्विभिन्नदेशं च भवति
गन्तव्यम्। न हि,
येनैवाव्यतिरिक्तं यत्, तत्तेनैव
गम्यते। तदनन्यत्वसिध्दिश्च'तत्सृष्ट्वा
तदेवानुप्राविशत्''क्षेत्रज्ञं चापि मां विध्दि
सर्वक्षेत्रेषु'
इत्येवमादिश्रुतिस्मृतिशतेभ्यः। गत्यैश्वर्यादिश्रुतिविरोध इति
चेत् -- अथापि स्यात्, यद्यप्राप्यो मोक्षः,
तदा
गतिश्रुतिनाम्,'स
कधा''स यदि पितृलोककामः''स्त्रीभिर्वा
यानैर्वा' इत्यादिश्रुतीनां च कोपः स्यात् इति चेत्,
न;
कार्यब्रह्मविषयत्वात्तासाम्। कार्ये हि ब्रह्मणि स्त्र्यादयः स्युः,
न कारणे;'एकमेवाद्वितीयम्''यत्र
नान्यत्पश्यति''तत्केन कं पश्येत्'
इत्यादिश्रुतिभ्यः। विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः।
प्रलीनकत्र्रादिकारकविशेषतत्त्वविषया हि विद्या
तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते। न ह्येंक वस्तु परमार्थतः
कत्र्रादिविशेषवत् तच्छून्यं चेति उभयथा द्रष्टुं शक्यते।
अवश्यं ह्यन्यतरन्मिथ्या स्यात्। अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं
यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम्;'यत्र
हि
द्वैतमिव भवति''मृत्योः
स मृत्युमाप्नोति''अथ यत्रान्यत्पश्यति तदल्पम्''अन्योऽसावन्योऽहमस्मि''उदरमन्तरं
कुरुते''अथ तस्य
भयं भवति'
इत्यादिश्रुतिशतेभ्यः। सत्यत्वं च कत्वस्य'एकधैवानुद्रष्टव्यम्''एकमेवाद्वितीयम्''ब्रह्मैवेदँ्
सर्वम्''आत्मैवेद्ँसर्वम्'
इत्यादिश्रुतिभ्यः। न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते।
अन्यत्वदर्शनापवादाश्च विद्याविषये सहस्रशः श्रूयन्ते। अतो
विरोधो विद्याकर्मणोः। अतश्च समुच्चयानुपपत्तिः॥ तत्र यदुक्तं संहताभ्यां
विद्याकर्मभ्यां मोक्ष इत्येतदनुपपन्नमिति,
तदयुक्तम्,
तद्विहितत्वात्कर्मणां श्रुतिविरोध इति चेत् -- यद्युपमृद्य
कत्र्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते
सर्पादिभ्रान्तिज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत्,
प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः। विहितानि च
कर्माणि। स च
विरोधो न युक्तः,
प्रमाणत्वाच्छ्रुतीनामिति चेत्, न;
पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम्। विद्योपदेशपरा तावच्छ्रुतिः
संसारात्पुरुषो
मोक्षयितव्य इति संसारहेतोरविद्यायाः विद्यया निवृत्तिः कर्तव्येति
विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः। वमपि
कत्र्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत वेति चेत्,
न; यथाप्राप्तमेव
कारकास्तित्वमुपादाय उपात्तदुरितक्षयार्थं
कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे
व्याप्रियते। उपचितदुरितप्रतिबन्धस्य हि
विद्योत्पत्तिर्नावकल्पते। तत्क्षये च विद्योत्पत्तिः स्यात्,
ततश्चाविद्यानिवृत्तिः, तत
आत्यन्तिकः संसारोपरमः। अपि च,
अनात्मदर्शिनो ह्यनात्मविषयः कामः;
कामयमानश्च करोति कर्माणि;
ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः।
तद्वयतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुपपत्तिः,
आत्मनि चानन्यत्वात्कामानुपपत्तौ स्वात्मन्यवस्थानं मोक्ष
इत्यतोऽपि
विद्याकर्मणोर्विरोधः। विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते।
स्वात्मलाभे तु पूर्वोपचितदुरितप्रतिबन्धापनयनद्वारेण
विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति। अत वास्मिन्प्रकरणे उपन्यस्तानि
कर्माणीत्यवोचाम। वं च अविरोधः
कर्मविधिश्रुतीनाम्। अतः केवलाया व विद्यायाः परं श्रेय इति सिध्दम्॥ एवं तर्हि
आश्रमान्तरानुपपत्तिः,
कर्मनिमित्तत्वाद्विद्योत्पत्तेः। गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव।
अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः। न;
कर्मानेकत्वात्। न ह्यग्निहोत्रादीन्येव कर्माणि;
ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि
कर्माणि
इतराश्रमप्रसिध्दानि विद्योत्पत्तौ साधकतमान्यसंकीर्णा विद्यन्ते
ध्यानधारणादिलक्षणानि च। वक्ष्यति च --
'तपसा
ब्रह्म
विजिज्ञासस्व'
इति। जन्मान्तरकृतकर्मभ्यश्च प्रागपि
गार्हस्थ्याद्विद्योत्पत्तिसंभवात्, कर्मार्थत्वाच्च
गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां
च
विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव। लोकार्थत्वाच्च पुत्रादीनाम्।
पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक
इत्येतेभ्यो व्यावृत्तकामस्य,
नित्यसिध्दात्मदर्शिनः, कर्मणि
प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते?
प्रतिपन्नगार्हस्थ्यस्यापि
विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो
निवृत्तिरेव स्यात्,'प्रव्रजिष्यन्वा
अरेऽहमस्मात्स्थानादस्मि'
इत्येवमादिश्रुतिलिङ्गदर्शनात्। कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति
चेत्,
-- अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः;
महांश्च कर्मण्यायासः,
अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम्;
तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि
समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति
चेत्,
न; जन्मान्तरकृतानुग्रहात्। यदुक्तं
कर्माणि श्रुतेरधिको यत्न इत्यादि,
नासौ दोषः, यतो
जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं
भवति विद्योत्पत्तिं प्रति;
येन च जन्मनैव विरक्ता दृश्यन्ते केचित्;
केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः।
तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तनामाश्रमान्तरप्रतिपत्तिरेवेष्यते।
कर्मफलबाहुल्याच्च। पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य
कर्मफलस्यासंख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको
यत्नः कर्मसूपपद्यते,
आशिषां बाहुल्यदर्शनात् --
इदं मे स्यादिदं मे स्यादिति। उपायत्वाच्च। उपायभूतानि हि कर्माणि विद्यां प्रति
इत्यवोचाम। उपाये च अधिको यत्नः कर्तव्यः,
न
उपेये। कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् -- कर्मभ्य व
पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् कर्मभ्यः
पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत्,
न; नियमाभावात्। न हि,'प्रतिबन्धक्षयादेव
विद्योत्पद्यते, न
त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्'
इति नियमोऽस्ति;
अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात्,
साक्षादेव च
कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम्। अतः सिध्दान्याश्रमान्तराणि। सर्वेषां
चाधिकारो विद्यायाम्,
परं च श्रेयः केवलाया
विद्याया वेति सिध्दम्॥
ॐ ब्रह्मविदाप्नोति
परम्। तदेषाऽभ्युक्ता। सत्यं ज्ञानमन्तं ब्रह्म। यो वेद निहितं गुहायां परमे
व्योमन्। सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति।
तस्माद्वा
तस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भ्यः पृथिवी।
पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्। अन्नात्पुरुषः। स वा ष
पुरुषोऽन्नरसमयः।
तस्येदमेव शिरः। अयं दक्षिणः पक्षः। अयमुत्तरः पक्षः। अयमात्मा। इदं पुच्छं
प्रतिष्ठा। तदप्येष श्लोको भवति॥2.1.1॥
(1)
से (4)
--
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मविज्ञानान्नियमेन
कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः,
अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात्। संस्कृतस्य हि विशुध्दसत्त्वस्य
आत्मज्ञानमञ्जसैवोपजायते।'तपसा
कल्मषं हन्ति
विद्ययामृतमश्नुते'
इति हि स्मृतिः। वक्ष्यति च -- 'तपसा
ब्रह्म विजिज्ञासस्व' इति। अतो
विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि।
अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः। प्रागुपन्यासाच्च
कर्मणाम्,
केवलब्रह्मविद्यारम्भाच्च पूर्वं
कर्माण्युपन्यस्तानि। उदितायां च ब्रह्मविद्यायाम्'अभयं
प्रतिष्ठां विन्दते''न बिभेति कुतश्चन''किमहं
साधु नाकरवम्' इत्यादिना
कर्मनैष्ंकिचन्यं दर्शयिष्यति। अतः अवगम्यते -- पूर्वोपचितदुरितक्षयद्वारेण
विद्योत्पत्त्यर्थानि कर्माणीति। मन्त्रवर्णाच्च --
'अविद्यया
मृत्युं तर्ीत्वा विद्ययामृतमश्नुते'
इति
तादीनां
पूर्वत्रोपदेशः आनर्थक्यपरिहाराथः;
इह तु ज्ञानोत्पत्त्यर्थत्वाकर्तव्यतानियमार्थः। वेदम् अनूच्य
अध्याप्य आचार्यः अन्तेवासिनं शिष्यम् अनुशास्ति
ग्रन्थग्रहणात् अनु
पश्चात् शास्ति तदर्थं ग्राहयतीत्यर्थः। अतोऽवगम्यते अधीतवेदस्य
धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति।'बुद्ध्वा
कर्माणि कुर्वीत'
इति स्मृतेश्च।
कथमनुशास्तीत्यत आह -- सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद। तद्वत् धर्मं चर;
धर्म इत्यनुष्ठेयानां सामान्यवचनम्,
सत्यादिविशेषनिर्देशात्। स्वाध्यायात् अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः।
आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम्
आचार्येण च
अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा व्यवच्छेत्सीः;
प्रजासंततेर्विच्छित्तिर्न कर्तव्या;
अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा
तदुत्पत्तौ यत्नः
कर्तव्य इत्यभिप्रायः,
प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात्;
अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत्। सत्यात् न प्रमदितव्यं
प्रमादो न कर्तव्यः;
सत्याच्च
प्रमदनमनृतप्रसङ्गः;
प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः;
अन्यथा असत्यवदनप्रतिषेध व स्यात्। धर्मात् न प्रमदितव्यम्,
धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः,
स न कर्तव्यः अनुष्ठातव्य व धर्म इति यावत्। वं कुशलात्
आत्मरक्षार्थात्कर्मणः न प्रमदितव्यम्। भूतिः
विभूतिः,
तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम्।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्, ते हि नियमेन
कर्तव्ये इत्यर्थः। तथा देवपितृकार्याभ्यां न
प्रमदितव्यम्,
दैवपित्र्ये कर्मणी कर्तव्ये। मातृदेवः माता देवो यस्य सः,
त्वं मातृदेवः भव स्याः। वं पितृदेवो भव;
आचार्यदेवो भव; अतिथिदेवो भव;
देवतावदुपास्या ते
इत्यर्थः। यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि शिष्टाचारलक्षणानि कर्माणि,
तानि सेवितव्यानि कर्तव्यानि त्वया। नो न कर्तव्यानि
इतराणि सावद्यानि
शिष्टकृतान्यपि। यानि अस्माकम् आचार्याणां सुचरितानि शोभनचरितानि
आम्नायाद्यविरुध्दानि,
तान्येव त्वया उपास्यानि
अदृष्टार्थान्यनुष्ठेयानि;
नियमेन कर्तव्यानीत्येतत्। नो इतराणि
विपरीतान्याचार्यकृतान्यपि। ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः
श्रेयासः
प्रशस्ततराः,
ते च ब्राह्मणाः, न क्षत्रियादयः,
तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम्,
प्रश्वसनं प्रश्वासः श्रमापनयः;
तेषां श्रमस्त्वया अपनेतव्य
इत्यर्थः। तेषां वा
आसने गोष्ठीनिमित्ते समुदिते,
तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः;
केवलं तदुक्तसारग्राहिणा भवितव्यम्। किं च,
यत्ंकिचिद्देयम् तत्
श्रध्दयैव दातव्यम्।
अश्रध्दया अदेयं न दातव्यम्। श्रिया विभूत्या देयं दातव्यम्। ह्रिया लज्जया न
देयम्। भिया भीत्या च देयम्। संविदा च भैत्र्यादिकार्येण
देयम्। अथ वं
वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे
विचिकित्सा संशयः स्यात् भवेत्,
ये तत्र तस्मिन्देशे काले वा
ब्राह्मणाः तत्र
कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः;
संमर्शिनः विचारक्षमाः, युक्ताः
अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः,
अलूक्षाः अरूक्षाः
अक्रूरमतयः,
धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत्;
स्युः भवेयुः, ते ब्राह्मणाः यथा येन
प्रकारेण तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरन्, तथा
त्वमपि वर्तेथाः।
अथ अभ्याख्यातेषु,
अभ्याख्याता अभ्युक्ताः दोषेण संद्रिह्यमानेन संयोजिताः केनचित्,
तेषु च; यथोक्तं सर्वमुपनयेत् -- ये
तत्रेत्यादि। षः आदेशः विधिः। षः
उपदेशः पुत्रादिभ्यः
पित्रादीनामपि। षा वेदोपनिषत् वेदरहस्यम्,
वेदार्थ इत्येतत्। तदेव अनुशासनम् वेदरहस्यम्,
वेदार्थ इत्येतत्। तदेव अनुशासनम्
ईश्वरवचनम्;
आदेशवाच्यस्य विधेरुक्तत्वात्। सर्वेषां वा
प्रमाणभूतानामनुशासनमेतत्। यस्मादेवम्, तस्मात् वं
यथोक्तं सर्वम् उपासितव्यं कर्तव्यम्। वमु च तत्
उपास्यम् उपास्यमेव
चैतत् नानुपास्यम् इत्यादरार्थं पुनर्वचनम्॥ अत्रैतच्चिन्त्यते
विद्याकर्मणोर्विवेकार्थम् -- किं कर्मभ्य व केवलेभ्यः परं श्रेयः,
उत
विद्यासंव्यपेक्षेभ्यः,
आहोस्विद्विद्याकर्मभ्यां संहताभ्याम्,
विद्याया वा कर्मापेक्षायाः, उत
केवलाया व विद्याया इति। तत्र केवलेभ्य व कर्मभ्यः स्यात्,
समस्तवेदार्थज्ञानवतः कर्माधिकारात्,'वेदः
कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना' इति स्मरणात्।
अधिगमश्च
सहोपनिषदर्थेनात्मज्ञानादिना।'विद्वान्यजते''विद्वान्याजयति'
इति च विदुष व कर्मण्यधिकारः प्रदशर्यते सर्वत्र
ज्ञात्वानुष्ठानमिति च। कृत्स्नश्च वेदः कर्मार्थ इति
हि मन्यन्ते केचित्।
कर्मभ्यश्चेत्परं श्रेयो नावाप्यते,
वेदोऽनर्थकः स्यात्। न;
नित्यत्वान्मोक्षस्य। नित्यो हि मोक्ष इष्यते। कर्मकार्यस्य चानित्यत्वं प्रसिध्दं
लोके।
कर्मभ्यश्चेच्छ्रेयः,
अनित्यं स्यात्; तच्चानिष्टम्। ननु
काम्यप्रतिषिध्दयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात् नित्यानुष्ठानाच्च
प्रत्यवायानुपपत्तेः
ज्ञाननिरपेक्ष व
मोक्ष इति चेत्,
तच्च न; कर्मशेषसंभवात्तन्निमित्ता
शरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम्;
कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति
च। यदुक्तं
समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि,
तच्च न;
श्रुतज्ञानव्यतिरेकादुपासनस्य। श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते,
नोपासनज्ञानमपेक्षते।
उपासनं च
श्रुतज्ञानादर्थान्तरं विधीयते मोक्षफलम्;
अर्थान्तरप्रसिध्देश्च स्यात्;'श्रोतव्यः'
इत्युक्त्वा तद्वयतिरेकेण'मन्तव्यो
निदिध्यासितव्यः' इति
यत्नान्तरविधानात्
मनननिदिध्यासनयोश्च प्रसिध्दं श्रवणज्ञानादर्थान्तरत्वम्। वं तर्हि
विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः;
विद्यासहितानां च कर्मणां
भवेत्कार्यान्तरारम्भसामर्थ्यम्;
यथा स्वतो मरणज्वरकादिकार्यारम्भसमर्थानामपि विषदध्यादीनां
मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम्,
वं विद्यासहितैः
कर्मभिः मोक्ष
आरभ्यत इति चेत्,
न; आरभ्यस्यानित्यत्वादित्युक्तो
दोषः। वचनादारभ्योऽपि नित्य वेति चेत्, न;
ज्ञापकत्वाद्वचनस्य। वचनं नाम यथाभूतस्यार्थस्य
ज्ञापकम्,
नाविद्यमानस्य कर्तृ। न हि वचनशतेनापि नित्यमारभ्यते,
आरब्धं वा अविनाशि भवेत्। तेन विद्याकर्मणोः
संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम्॥
विद्याकर्मणी
मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत्,
न; कर्मणः फलान्तरदर्शनात्।
उत्पत्तिविकारसंस्काराप्तयो हि फलं कर्मणो दृश्यन्ते। उत्पत्त्यादिफलविपरीतश्च
मोक्षः।
गतिश्रुतेराप्य इति चेत् --
'सूर्यद्वारेण''तयोर्ध्वमायन्'
इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत्,
न; सर्वगतत्वात्
गन्तृभ्यश्चानन्यत्वात्।
आकाशादिकारणत्वात्सर्वगतं ब्रह्म,
ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः;
अतो नाप्यो मोक्षः। गन्तुरन्यद्विभिन्नदेशं च भवति गन्तव्यम्। न
हि, येनैवाव्यतिरिक्तं
यत्,
तत्तेनैव गम्यते। तदनन्यत्वसिध्दिश्च'तत्सृष्ट्वा
तदेवानुप्राविशत्''क्षेत्रज्ञं चापि मां विध्दि
सर्वक्षेत्रेषु' इत्येवमादिश्रुतिस्मृतिशतेभ्यः।
गत्यैश्वर्यादिश्रुतिविरोध
इति चेत् -- अथापि
स्यात्,
यद्यप्राप्यो मोक्षः, तदा
गतिश्रुतिनाम्,'स कधा''स यदि
पितृलोककामः''स्त्रीभिर्वा यानैर्वा'
इत्यादिश्रुतीनां च कोपः स्यात् इति चेत्,
न;
कार्यब्रह्मविषयत्वात्तासाम्। कार्ये हि ब्रह्मणि स्त्र्यादयः
स्युः, न कारणे;'एकमेवाद्वितीयम्''यत्र
नान्यत्पश्यति''तत्केन कं पश्येत्'
इत्यादिश्रुतिभ्यः। विरोधाच्च
विद्याकर्मणोः
समुच्चयानुपपत्तिः। प्रलीनकत्र्रादिकारकविशेषतत्त्वविषया हि विद्या
तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते। न ह्येंक वस्तु परमार्थतः
कत्र्रादिविशेषवत्
तच्छून्यं चेति उभयथा द्रष्टुं शक्यते। अवश्यं ह्यन्यतरन्मिथ्या स्यात्। अन्यतरस्य
च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य
मिथ्यात्वम्;'यत्र
हि द्वैतमिव भवति''मृत्योः स मृत्युमाप्नोति''अथ
यत्रान्यत्पश्यति तदल्पम्''अन्योऽसावन्योऽहमस्मि''उदरमन्तरं
कुरुते''अथ तस्य भयं भवति'
इत्यादिश्रुतिशतेभ्यः। सत्यत्वं च कत्वस्य'एकधैवानुद्रष्टव्यम्''एकमेवाद्वितीयम्''ब्रह्मैवेदँ्
सर्वम्''आत्मैवेद्ँसर्वम्'
इत्यादिश्रुतिभ्यः। न च संप्रदानादिकारकभेदादर्शने
कर्मोपपद्यते।
अन्यत्वदर्शनापवादाश्च विद्याविषये सहस्रशः श्रूयन्ते। अतो विरोधो विद्याकर्मणोः।
अतश्च समुच्चयानुपपत्तिः॥ तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां
मोक्ष
इत्येतदनुपपन्नमिति,
तदयुक्तम्, तद्विहितत्वात्कर्मणां
श्रुतिविरोध इति चेत् -- यद्युपमृद्य कत्र्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते
सर्पादिभ्रान्तिज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत्,
प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः। विहितानि च
कर्माणि। स च विरोधो न युक्तः,
प्रमाणत्वाच्छ्रुतीनामिति चेत्,
न;
पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम्। विद्योपदेशपरा तावच्छ्रुतिः संसारात्पुरुषो
मोक्षयितव्य इति संसारहेतोरविद्यायाः विद्यया निवृत्तिः
कर्तव्येति
विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः। वमपि कत्र्रादिकारकसद्भावप्रतिपादनपरं
शास्त्रं विरुध्यत वेति चेत्,
न; यथाप्राप्तमेव
कारकास्तित्वमुपादाय
उपात्तदुरितक्षयार्थं कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न
कारकास्तित्वे व्याप्रियते। उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर्नावकल्पते।
तत्क्षये च
विद्योत्पत्तिः स्यात्,
ततश्चाविद्यानिवृत्तिः, तत
आत्यन्तिकः संसारोपरमः। अपि च, अनात्मदर्शिनो
ह्यनात्मविषयः कामः; कामयमानश्च करोति
कर्माणि;
ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः।
तद्वयतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुपपत्तिः,
आत्मनि चानन्यत्वात्कामानुपपत्तौ
स्वात्मन्यवस्थानं
मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः। विरोधादेव च विद्या मोक्षं प्रति न
कर्माण्यपेक्षते। स्वात्मलाभे तु पूर्वोपचितदुरितप्रतिबन्धापनयनद्वारेण
विद्याहेतुत्वं
प्रतिपद्यन्ते कर्माणि नित्यानीति। अत वास्मिन्प्रकरणे उपन्यस्तानि
कर्माणीत्यवोचाम। वं च अविरोधः कर्मविधिश्रुतीनाम्। अतः केवलाया व विद्यायाः
परं श्रेय इति
सिध्दम्॥ एवं तर्हि आश्रमान्तरानुपपत्तिः,
कर्मनिमित्तत्वाद्विद्योत्पत्तेः। गृहस्थस्यैव विहितानि
कर्माणीत्यैकाश्रम्यमेव। अतश्च यावज्जीवादिश्रुतयः
अनुकूलतराः स्युः। न;
कर्मानेकत्वात्। न ह्यग्निहोत्रादीन्येव कर्माणि;
ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि
कर्माणि इतराश्रमप्रसिध्दानि
विद्योत्पत्तौ
साधकतमान्यसंकीर्णा विद्यन्ते ध्यानधारणादिलक्षणानि च। वक्ष्यति च --
'तपसा ब्रह्म
विजिज्ञासस्व' इति। जन्मान्तरकृतकर्मभ्यश्च प्रागपि
गार्हस्थ्याद्विद्योत्पत्तिसंभवात्,
कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः,
कर्मसाध्यायां च विद्यायां सत्यां
गार्हस्थ्यप्रतिपत्तिरनर्थिकैव। लोकार्थत्वाच्च पुत्रादीनाम्।
पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य,
नित्यसिध्दात्मदर्शिनः, कर्मणि
प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते?
प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु
प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात्,'प्रव्रजिष्यन्वा
अरेऽहमस्मात्स्थानादस्मि'
इत्येवमादिश्रुतिलिङ्गदर्शनात्। कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति
चेत्, --
अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः;
महांश्च कर्मण्यायासः,
अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम्;
तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि
समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प
आश्रमिभिस्तस्य इति
चेत्,
न; जन्मान्तरकृतानुग्रहात्। यदुक्तं कर्माणि श्रुतेरधिको
यत्न इत्यादि, नासौ दोषः, यतो
जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म
ब्रह्मचर्यादिलक्षणं
चानुग्राहकं भवति विद्योत्पत्तिं प्रति;
येन च जन्मनैव विरक्ता दृश्यन्ते केचित्;
केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः।
तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तनामाश्रमान्तरप्रतिपत्तिरेवेष्यते।
कर्मफलबाहुल्याच्च। पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासंख्येयत्वात्
तत्प्रति च
पुरुषाणां
कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते,
आशिषां बाहुल्यदर्शनात् -- इदं मे स्यादिदं मे स्यादिति।
उपायत्वाच्च। उपायभूतानि हि कर्माणि
विद्यां प्रति
इत्यवोचाम। उपाये च अधिको यत्नः कर्तव्यः,
न उपेये। कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत्
-- कर्मभ्य व
पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् कर्मभ्यः
पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत्,
न; नियमाभावात्। न हि,'प्रतिबन्धक्षयादेव
विद्योत्पद्यते, न
त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्'
इति नियमोऽस्ति;
अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात्,
साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम्।
अतः
सिध्दान्याश्रमान्तराणि। सर्वेषां चाधिकारो विद्यायाम्,
परं च श्रेयः केवलाया विद्याया वेति सिध्दम्॥
अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव। ऊर्ध्व पवित्रो वाजिनीव स्वमृतमस्मि।
द्रविण्ँ सवर्चसम्। सुमेधा अमृतोक्षितः। इति
त्रिशङ्कोर्वेदानुवचनम्॥1.10.1॥
(1)
से (4)
--
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मविज्ञानान्नियमेन
कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः,
अनुशासनश्रुतेः
पुरुषसंस्कारार्थत्वात्। संस्कृतस्य हि विशुध्दसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते।'तपसा
कल्मषं हन्ति विद्ययामृतमश्नुते' इति हि स्मृतिः।
वक्ष्यति च -- 'तपसा
ब्रह्म विजिज्ञासस्व'
इति। अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि।
अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः। प्रागुपन्यासाच्च
कर्मणाम्,
केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि। उदितायां च ब्रह्मविद्यायाम्'अभयं
प्रतिष्ठां विन्दते''न बिभेति कुतश्चन''किमहं
साधु नाकरवम्' इत्यादिना
कर्मनैष्ंकिचन्यं
दर्शयिष्यति। अतः अवगम्यते -- पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि
कर्माणीति। मन्त्रवर्णाच्च --
'अविद्यया
मृत्युं तर्ीत्वा विद्ययामृतमश्नुते'
इति
तादीनां पूर्वत्रोपदेशः आनर्थक्यपरिहाराथः;
इह तु ज्ञानोत्पत्त्यर्थत्वाकर्तव्यतानियमार्थः। वेदम् अनूच्य
अध्याप्य आचार्यः
अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं
ग्राहयतीत्यर्थः। अतोऽवगम्यते अधीतवेदस्य
धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति।'बुद्ध्वा
कर्माणि कुर्वीत' इति स्मृतेश्च। कथमनुशास्तीत्यत आह --
सत्यं वद
यथाप्रमाणावगतं वक्तव्यं च वद। तद्वत् धर्मं चर;
धर्म इत्यनुष्ठेयानां सामान्यवचनम्,
सत्यादिविशेषनिर्देशात्। स्वाध्यायात्
अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः। आचार्याय आचार्यार्थं प्रियम् इष्टं धनम्
आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम्
आचार्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा
व्यवच्छेत्सीः;
प्रजासंततेर्विच्छित्तिर्न कर्तव्या;
अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य
इत्यभिप्रायः,
प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात्;
अन्यथा
प्रजनश्चेत्येतदेकमेवावक्ष्यत्। सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यः;
सत्याच्च प्रमदनमनृतप्रसङ्गः;
प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः;
अन्यथा असत्यवदनप्रतिषेध व स्यात्। धर्मात् न प्रमदितव्यम्,
धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः,
स न कर्तव्यः अनुष्ठातव्य व धर्म इति यावत्। वं कुशलात्
आत्मरक्षार्थात्कर्मणः न प्रमदितव्यम्। भूतिः विभूतिः,
तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम्।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्,
ते हि नियमेन कर्तव्ये इत्यर्थः। तथा देवपितृकार्याभ्यां न
प्रमदितव्यम्, दैवपित्र्ये कर्मणी
कर्तव्ये। मातृदेवः माता देवो यस्य सः,
त्वं मातृदेवः भव स्याः। वं पितृदेवो भव;
आचार्यदेवो भव; अतिथिदेवो भव;
देवतावदुपास्या ते इत्यर्थः। यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि
शिष्टाचारलक्षणानि कर्माणि,
तानि सेवितव्यानि
कर्तव्यानि त्वया। नो न कर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि। यानि अस्माकम्
आचार्याणां सुचरितानि शोभनचरितानि
आम्नायाद्यविरुध्दानि,
तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि;
नियमेन कर्तव्यानीत्येतत्। नो इतराणि
विपरीतान्याचार्यकृतान्यपि। ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः
श्रेयासः प्रशस्ततराः,
ते च ब्राह्मणाः, न
क्षत्रियादयः,
तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम्,
प्रश्वसनं प्रश्वासः श्रमापनयः;
तेषां श्रमस्त्वया अपनेतव्य
इत्यर्थः। तेषां वा आसने गोष्ठीनिमित्ते समुदिते,
तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः;
केवलं तदुक्तसारग्राहिणा
भवितव्यम्। किं च,
यत्ंकिचिद्देयम् तत् श्रध्दयैव दातव्यम्। अश्रध्दया अदेयं न
दातव्यम्। श्रिया विभूत्या देयं दातव्यम्। ह्रिया
लज्जया न देयम्। भिया भीत्या च देयम्। संविदा च भैत्र्यादिकार्येण देयम्। अथ वं
वर्तमानस्य यदि कदाचित् ते तव श्रौते
स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत्,
ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ
युक्ता इति व्यवहितेन संबन्धः कर्तव्यः;
संमर्शिनः विचारक्षमाः, युक्ताः
अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः,
अलूक्षाः अरूक्षाः अक्रूरमतयः,
धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत्;
स्युः भवेयुः, ते ब्राह्मणाः यथा येन
प्रकारेण तत्र
तस्मिन्कर्मणि वृत्ते वा वर्तेरन्,
तथा त्वमपि वर्तेथाः। अथ अभ्याख्यातेषु,
अभ्याख्याता अभ्युक्ताः दोषेण संद्रिह्यमानेन संयोजिताः
केनचित्,
तेषु च; यथोक्तं सर्वमुपनयेत् -- ये
तत्रेत्यादि। षः आदेशः विधिः। षः उपदेशः पुत्रादिभ्यः पित्रादीनामपि। षा
वेदोपनिषत् वेदरहस्यम्,
वेदार्थ इत्येतत्। तदेव अनुशासनम् वेदरहस्यम्,
वेदार्थ इत्येतत्। तदेव अनुशासनम् ईश्वरवचनम्;
आदेशवाच्यस्य विधेरुक्तत्वात्। सर्वेषां वा प्रमाणभूतानामनुशासनमेतत्। यस्मादेवम्,
तस्मात् वं यथोक्तं सर्वम् उपासितव्यं
कर्तव्यम्। वमु च तत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थं
पुनर्वचनम्॥ अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम् -
-
किं
कर्मभ्य व केवलेभ्यः परं श्रेयः,
उत
विद्यासंव्यपेक्षेभ्यः,
आहोस्विद्विद्याकर्मभ्यां संहताभ्याम्,
विद्याया वा कर्मापेक्षायाः,
उत
केवलाया व विद्याया इति। तत्र केवलेभ्य व कर्मभ्यः स्यात्,
समस्तवेदार्थज्ञानवतः कर्माधिकारात्,'वेदः
कृत्स्नोऽधिगन्तव्यः
सरहस्यो द्विजन्मना'
इति स्मरणात्। अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना।'विद्वान्यजते''विद्वान्याजयति'
इति च विदुष व
कर्मण्यधिकारः प्रदशर्यते सर्वत्र ज्ञात्वानुष्ठानमिति च। कृत्स्नश्च वेदः कर्मार्थ
इति हि मन्यन्ते केचित्। कर्मभ्यश्चेत्परं श्रेयो
नावाप्यते,
वेदोऽनर्थकः स्यात्। न;
नित्यत्वान्मोक्षस्य। नित्यो हि मोक्ष इष्यते। कर्मकार्यस्य चानित्यत्वं प्रसिध्दं
लोके।
कर्मभ्यश्चेच्छ्रेयः,
अनित्यं स्यात्; तच्चानिष्टम्। ननु
काम्यप्रतिषिध्दयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात्
नित्यानुष्ठानाच्च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष व मोक्ष इति चेत्,
तच्च न; कर्मशेषसंभवात्तन्निमित्ता
शरीरान्तरोत्पत्तिः प्राप्नोतीति
प्रत्युक्तम्;
कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च।
यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च
न;
श्रुतज्ञानव्यतिरेकादुपासनस्य। श्रुतज्ञानमात्रेण हि
कर्मण्यधिक्रियते, नोपासनज्ञानमपेक्षते। उपासनं च
श्रुतज्ञानादर्थान्तरं
विधीयते मोक्षफलम्;
अर्थान्तरप्रसिध्देश्च स्यात्;'श्रोतव्यः'
इत्युक्त्वा तद्वयतिरेकेण'मन्तव्यो
निदिध्यासितव्यः' इति
यत्नान्तरविधानात् मनननिदिध्यासनयोश्च प्रसिध्दं श्रवणज्ञानादर्थान्तरत्वम्। वं
तर्हि विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः;
विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम्;
यथा स्वतो मरणज्वरकादिकार्यारम्भसमर्थानामपि विषदध्यादीनां
मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम्,
वं विद्यासहितैः कर्मभिः मोक्ष आरभ्यत इति चेत्,
न;
आरभ्यस्यानित्यत्वादित्युक्तो दोषः। वचनादारभ्योऽपि नित्य वेति चेत्,
न; ज्ञापकत्वाद्वचनस्य। वचनं नाम
यथाभूतस्यार्थस्य
ज्ञापकम्,
नाविद्यमानस्य कर्तृ। न हि वचनशतेनापि नित्यमारभ्यते,
आरब्धं वा अविनाशि भवेत्। तेन विद्याकर्मणोः
संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम्॥ विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके
इति चेत्,
न; कर्मणः फलान्तरदर्शनात्।
उत्पत्तिविकारसंस्काराप्तयो हि फलं कर्मणो दृश्यन्ते। उत्पत्त्यादिफलविपरीतश्च
मोक्षः। गतिश्रुतेराप्य इति चेत् --
'सूर्यद्वारेण''तयोर्ध्वमायन्'
इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत्,
न;
सर्वगतत्वात् गन्तृभ्यश्चानन्यत्वात्।
आकाशादिकारणत्वात्सर्वगतं ब्रह्म,
ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः;
अतो नाप्यो मोक्षः। गन्तुरन्यद्विभिन्नदेशं च भवति
गन्तव्यम्। न हि,
येनैवाव्यतिरिक्तं यत्, तत्तेनैव
गम्यते। तदनन्यत्वसिध्दिश्च'तत्सृष्ट्वा
तदेवानुप्राविशत्''क्षेत्रज्ञं चापि मां विध्दि
सर्वक्षेत्रेषु'
इत्येवमादिश्रुतिस्मृतिशतेभ्यः। गत्यैश्वर्यादिश्रुतिविरोध इति
चेत् -- अथापि स्यात्, यद्यप्राप्यो मोक्षः,
तदा
गतिश्रुतिनाम्,'स
कधा''स यदि पितृलोककामः''स्त्रीभिर्वा
यानैर्वा' इत्यादिश्रुतीनां च कोपः स्यात् इति चेत्,
न;
कार्यब्रह्मविषयत्वात्तासाम्। कार्ये हि ब्रह्मणि स्त्र्यादयः स्युः,
न कारणे;'एकमेवाद्वितीयम्''यत्र
नान्यत्पश्यति''तत्केन कं पश्येत्'
इत्यादिश्रुतिभ्यः। विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः।
प्रलीनकत्र्रादिकारकविशेषतत्त्वविषया हि विद्या
तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते। न ह्येंक वस्तु परमार्थतः
कत्र्रादिविशेषवत् तच्छून्यं चेति उभयथा द्रष्टुं शक्यते।
अवश्यं ह्यन्यतरन्मिथ्या स्यात्। अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं
यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम्;'यत्र
हि
द्वैतमिव भवति''मृत्योः
स मृत्युमाप्नोति''अथ यत्रान्यत्पश्यति तदल्पम्''अन्योऽसावन्योऽहमस्मि''उदरमन्तरं
कुरुते''अथ तस्य
भयं भवति'
इत्यादिश्रुतिशतेभ्यः। सत्यत्वं च कत्वस्य'एकधैवानुद्रष्टव्यम्''एकमेवाद्वितीयम्''ब्रह्मैवेदँ्
सर्वम्''आत्मैवेद्ँसर्वम्'
इत्यादिश्रुतिभ्यः। न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते।
अन्यत्वदर्शनापवादाश्च विद्याविषये सहस्रशः श्रूयन्ते। अतो
विरोधो विद्याकर्मणोः। अतश्च समुच्चयानुपपत्तिः॥ तत्र यदुक्तं संहताभ्यां
विद्याकर्मभ्यां मोक्ष इत्येतदनुपपन्नमिति,
तदयुक्तम्,
तद्विहितत्वात्कर्मणां श्रुतिविरोध इति चेत् -- यद्युपमृद्य
कत्र्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते
सर्पादिभ्रान्तिज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत्,
प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः। विहितानि च
कर्माणि। स च
विरोधो न युक्तः,
प्रमाणत्वाच्छ्रुतीनामिति चेत्, न;
पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम्। विद्योपदेशपरा तावच्छ्रुतिः
संसारात्पुरुषो
मोक्षयितव्य इति संसारहेतोरविद्यायाः विद्यया निवृत्तिः कर्तव्येति
विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः। वमपि
कत्र्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत वेति चेत्,
न; यथाप्राप्तमेव
कारकास्तित्वमुपादाय उपात्तदुरितक्षयार्थं
कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे
व्याप्रियते। उपचितदुरितप्रतिबन्धस्य हि
विद्योत्पत्तिर्नावकल्पते। तत्क्षये च विद्योत्पत्तिः स्यात्,
ततश्चाविद्यानिवृत्तिः, तत
आत्यन्तिकः संसारोपरमः। अपि च,
अनात्मदर्शिनो ह्यनात्मविषयः कामः;
कामयमानश्च करोति कर्माणि;
ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः।
तद्वयतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुपपत्तिः,
आत्मनि चानन्यत्वात्कामानुपपत्तौ स्वात्मन्यवस्थानं मोक्ष
इत्यतोऽपि
विद्याकर्मणोर्विरोधः। विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते।
स्वात्मलाभे तु पूर्वोपचितदुरितप्रतिबन्धापनयनद्वारेण
विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति। अत वास्मिन्प्रकरणे उपन्यस्तानि
कर्माणीत्यवोचाम। वं च अविरोधः
कर्मविधिश्रुतीनाम्। अतः केवलाया व विद्यायाः परं श्रेय इति सिध्दम्॥ एवं तर्हि
आश्रमान्तरानुपपत्तिः,
कर्मनिमित्तत्वाद्विद्योत्पत्तेः। गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव।
अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः। न;
कर्मानेकत्वात्। न ह्यग्निहोत्रादीन्येव कर्माणि;
ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि
कर्माणि
इतराश्रमप्रसिध्दानि विद्योत्पत्तौ साधकतमान्यसंकीर्णा विद्यन्ते
ध्यानधारणादिलक्षणानि च। वक्ष्यति च --
'तपसा
ब्रह्म
विजिज्ञासस्व'
इति। जन्मान्तरकृतकर्मभ्यश्च प्रागपि
गार्हस्थ्याद्विद्योत्पत्तिसंभवात्, कर्मार्थत्वाच्च
गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां
च
विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव। लोकार्थत्वाच्च पुत्रादीनाम्।
पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक
इत्येतेभ्यो व्यावृत्तकामस्य,
नित्यसिध्दात्मदर्शिनः, कर्मणि
प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते?
प्रतिपन्नगार्हस्थ्यस्यापि
विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो
निवृत्तिरेव स्यात्,'प्रव्रजिष्यन्वा
अरेऽहमस्मात्स्थानादस्मि'
इत्येवमादिश्रुतिलिङ्गदर्शनात्। कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति
चेत्,
-- अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः;
महांश्च कर्मण्यायासः,
अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम्;
तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि
समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति
चेत्,
न; जन्मान्तरकृतानुग्रहात्। यदुक्तं
कर्माणि श्रुतेरधिको यत्न इत्यादि,
नासौ दोषः, यतो
जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं
भवति विद्योत्पत्तिं प्रति;
येन च जन्मनैव विरक्ता दृश्यन्ते केचित्;
केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः।
तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तनामाश्रमान्तरप्रतिपत्तिरेवेष्यते।
कर्मफलबाहुल्याच्च। पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य
कर्मफलस्यासंख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको
यत्नः कर्मसूपपद्यते,
आशिषां बाहुल्यदर्शनात् --
इदं मे स्यादिदं मे स्यादिति। उपायत्वाच्च। उपायभूतानि हि कर्माणि विद्यां प्रति
इत्यवोचाम। उपाये च अधिको यत्नः कर्तव्यः,
न
उपेये। कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् -- कर्मभ्य व
पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् कर्मभ्यः
पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत्,
न; नियमाभावात्। न हि,'प्रतिबन्धक्षयादेव
विद्योत्पद्यते, न
त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्'
इति नियमोऽस्ति;
अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात्,
साक्षादेव च
कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम्। अतः सिध्दान्याश्रमान्तराणि। सर्वेषां
चाधिकारो विद्यायाम्,
परं च श्रेयः केवलाया
विद्याया वेति सिध्दम्॥
ॠड्डत् च्ठ्ठदत्त्ठ्ठध्दठ्ठ
ठ्ठत्द्यद्यत्ध्दत्ठ्ठ एध्दठ्ठण्ठ्ठदठ्ठदड्डठ्ठ ज्ठ्ठथ्थ्त्
क्ण्ठ्ठद्रद्यङ्ढध्द
2
यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति
कुतश्चनेति। त्ँह वाव न तपति। किमह्ँसाधु
नाकरवम्। किमहं पापमकरवमिति। स य वं विद्वानेते आत्मान्ँ स्पृणुते। उभे ह्येवैष ते
आत्मान्ँ स्पृणुते। य वं वेद।
इत्युपनिषत्॥2.9.1॥
(1)
से (4)
-- भीषा भयेन
अस्मात् वातः पवते। भीषोदेति सूर्यः। भीषा अस्मात् अग्निश्चेन्द्रश्च।
मृत्युर्धावति पञ्चम इति। वातादयो हि महार्हाः स्वयमीश्वराः
सन्तः
पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते;
तद्युक्तं प्रशास्तरि सति; यस्मात्
नियमेन तेषां प्रवर्तनम्, तस्मादस्ति भयकारणं तेषां
प्रशास्तृ ब्रह्म। यतस्ते
भृत्या इव राज्ञः
अस्मात् ब्रह्मणः भयेन प्रवर्तन्ते तच्च भयकारणमानन्दं ब्रह्म। तस्य अस्य ब्रह्मणः
आनन्दस्य षा मीमासां विचारणा भवति। किमानन्दस्य
मीमांस्यमिति,
उच्यते -- किमानन्दो विषयविषयिसंबन्धजनितः लौकिकानन्दवत्,
आहोस्वित् स्वाभाविकः, इत्येवमेषा
आनन्दस्य मीमांसा॥ तत्र लौकिक
आनन्दो
बाह्याध्यात्मिकसाधनसंपत्तिनिमित्त उत्कृष्टः। सः य ष निर्दिश्यते
ब्रह्मानन्दानुगमार्थम्। अनेन हि प्रसिध्देन आनन्देन व्यावृत्तविषयबुध्दिगम्य
आनन्दोऽनुगन्तुं
शक्यते। लौकिकोऽप्यानन्दः ब्रह्मानन्दस्यैव मात्रा;
अविद्यया तिरस्क्रियमाणे विज्ञाने उत्कृष्यमाणायां च अविद्यायां
ब्रह्मादिभिः कर्मवशात्
यथाविज्ञानं
विषयादिसाधनसंबन्धवशाच्च विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः संपद्यते;
स व अविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु
अकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण
यावध्दिरण्यगर्भस्य ब्रह्मण आनन्द इति॥ निरस्ते त्वविद्याकृते विषयविषयिविभागे,
विद्यया
स्वाभाविकः
परिपूर्णः कः आनन्दः अद्वैतः भवतीत्येतमर्थं विभावयिष्यन्नाह -- युवा प्रथमवयाः;
साधुयुवेति साधुश्चासौ युवा चेति यूनो विशेषणम्;
युवाप्यसाधुर्भवति
साधुरप्ययुवा,
अतो विशेषणं युवा स्यात्साधुयुवेति;
अध्यायकः अधीतवेदः। आशिष्ठः आशास्तृतमः; दृढिष्ठः दृढतमः;
बलिष्ठः बलवत्तमः;
वमाध्यात्मिकसाधनसंपन्नः। तस्येयं पृथिवी उर्वी सर्वा वित्तस्य वित्तेनोपभोगसाधनेन
दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा राजा पृथिवीपतिरित्यर्थः।
तस्य च य आनन्दः,
सः कः मानुषः मनुष्याणां प्रकृष्टः क आनन्दः। ते ये शतं मानुषा
आनन्दाः, स को मनुष्यगन्धर्वाणामानन्दः;
मानुषानन्दात्
शतगुणेनोत्कृष्टः
मनुष्यगन्धर्वाणामानन्दः भवति। मनुष्याः सन्तः कर्मविद्याविशेषात् गन्धर्वत्वं
प्राप्ता मनुष्यगन्धर्वाः। ते ह्यन्तर्धानादिशक्तिसंपन्नाः सूक्ष्मकार्यकरणाः;
तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसंपत्तिश्च। ततः
अप्रतिहन्यमानस्य प्रतीकारवतः मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः।
तत्प्रसादविशेषात्सुखविशेषाभिव्यक्तिः। वं पूर्वस्याः पूर्वस्या
भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेन आनन्दोत्कर्ष उपपद्यते।
प्रथमं तु
अकामहताग्रहणं
मनुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दात् शतगुणेन आनन्दोत्कर्षः
मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम्। साधुयुवा
अध्यायक इति
श्रोत्रियत्वावृजिनत्वे गृह्येते। ते ह्यविशिष्टे सर्वत्र। अकामहतत्वं तु
विषयोत्कर्षापकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते। अतः अकामहतग्रहणम्,
तद्विशेषतः
शतगुणसुखोत्कर्षोपलब्धेः अकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम्।
व्याख्यातमन्यत्। देवगन्धर्वा जातित व। चिरलोकलोकानामिति
पितृणां विशेषणम्।
चिरकालस्थायी लोको येषां पितृणाम्,
ते चिरलोकलोका इति। आजान इति देवलोकः तस्मिन्नाजाने जाता आजानजा
देवाः,
स्मार्तकर्मविशेषतो
देवस्थानेषु जाताः। कर्मदेवा ये वैदिकेन कर्मणा अग्निहोत्रादिना केवलेन
देवानपियन्ति। देवा इति त्रयस्त्रिशध्दविर्भुजः;
इन्द्रस्तेषां स्वामी;
तस्य आचार्यो
बृहस्पतिः। प्रजापतिः विराट् त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः
संसारमण्डलव्यापी। यत्रैते आनन्दभेदा कतां गच्छन्ति,
धर्मश्च तन्निमित्तः
ज्ञानं च तद्विषयम्
अकामहतत्वं च निरतिशयं यत्र,
स ष हिरण्यगर्भो ब्रह्मा, तस्यैष
आनन्दः श्रोत्रियेण अवृजिनेन अकामहेतन च सर्वतः प्रत्यक्षमुपलभ्यते।
तस्मादेतानि त्रीणि
साधनानीत्यवगम्यते। तत्र श्रोत्रित्वावृजिनत्वे नियते,
अकामहतत्वं तु उत्कृष्यत इति प्रकृष्टसाधनता अवगम्यते। तस्य
अकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दः यस्य
परमानन्दस्य मात्रा कदेशः,'
तस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति'
इति
श्रुत्यन्तरात्। स ष
आनन्दः -- यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ताः यत्रैकतां गताः -- स ष
परमानन्दः स्वाभाविकः,
अद्वैतात्; आनन्दानन्दिनोश्च
अविभागोऽत्र॥
भीषाऽस्माद्वातः पवते। भीषोदेति सूर्यः। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति
पञ्चम इति। सैषाऽऽनन्दस्य मीमा्ँसा भवति।
युवा स्यात्साधु युवाध्यायकः। आशिष्ठो द्रढिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा
वित्तस्य पूर्णा स्यात्। स को मानुष आनन्दः। ते
ये शतं मानुषा आनन्दाः। स को मनुष्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते
ये शतं मनुष्यगन्धर्वाणामानन्दाः। स
को देवगन्धवार्णामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं
देवगन्धवार्णामानन्दाः। स क पितृणां चिरलोकलोकानामानन्दः।
श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोकानामानन्दाः। स क आजानजानां
देवानामानन्दः। श्रोत्रियस्य
चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः। स कः कर्मदेवानाम् देवानामानन्दः।
ये कर्मणा देवानपियन्ति।
श्रोत्रियस्य चाकामहतस्य। ते ये शतं कर्मदेवानाम् देवानामानन्दाः। स को
देवानामानन्दाः। श्रोत्रियस्य चाकामहतस्य। ते ये
शतं देवानामानन्दाः। स क इन्द्रस्यानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये
शतमिन्द्रस्यानन्दाः। स को बृहस्पतेरानन्दः।
श्रोत्रियस्य चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः। स कः प्रजापतेरानन्दः।
श्रोत्रियस्य चाकामहतस्य। ते ये शतं
प्रजापतेरानन्दाः। स को ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य। स यश्चायं
पुरुषे। यश्चासावादित्ये। स कः। स य
वंवित्। अस्माल्लोकात्प्रेय। तमन्नमयमात्मानमुपसंक्रामति। तं
प्राणमयमात्मानमुपसंक्रामति। तं मनोमयमात्मानमुपसंक्रामति। तं
विज्ञानमयमात्मानमुपसंक्रामति। तमानन्दमयमात्मानमुपसंक्रामति। तदप्येष श्लोको
भवति॥।2.8.1॥
(5) --
तदेतन्मीमांसाफलमुपसंह्रियते -- स यश्चायं पुरुष इति। यः गुहायां निहितः परमे
व्योम्नि आकाशादिकार्यं सृष्ट्वा अन्नमयान्तम्,
तदेवानुप्रविष्टः,
सः य
इति निश्चीयते।
कोऽसौ?
अयं पुरुषे। यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः,
यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति,
सः
यश्चासावादित्ये इति
निर्दिश्यते। स कः भिन्नप्रदेशघटाकाशाकाशैकत्ववत्। ननु तन्निर्देशे स यश्चायं पुरुष
इत्यविशेषतोऽध्यात्मं न युक्तो निर्देशः;
यश्चायं
दक्षिणेऽक्षन्निति
तु युक्तः,
प्रसिध्दत्वात्। न, पराधिकारात्। परो
ह्यात्मा अत्र अधिकृतः'अदृश्येऽनात्म्ये''
भीषास्माद्वातः पवते'' सैषानन्दस्य
मीमांसा' इति। न हि
अकस्मादप्रकृतो
युक्तो निर्देष्टुम्;
परमात्मविज्ञानं च विवक्षितम्। तस्मात् पर व निर्दिश्यते -- स क
इति। नन्वानन्दस्य मीमांसा प्रकृता; तस्या अपि
फलमुपसंहर्तव्यम्।
अभिन्नः स्वाभाविकः आनन्दः परमात्मैव,
न विषयविषयिसंबन्धजनित इति। ननु तदनुरूप व अयं निर्देशः --
' स यश्चायं पुरुषे
यश्चासावादित्ये स
कः'
इति भिन्नाधिकरणस्थविशेषोपमर्देन। नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम्;
न अनर्थकम्,
उत्कर्षापकर्षापोहार्थत्वात्। द्वैतस्य हि यो
मूर्तामूर्तलक्षणस्य
पर उत्कर्षः सवित्रभ्यन्तर्गतः स चेत्पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो
भवति,
न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्यभयं
प्रतिष्ठां विन्दत
इत्युपपन्नम्॥ अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः।
कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं
ब्रह्मेत्यपाकृतः
अनुप्रश्न कः;
द्वावन्यानुप्रश्नौ विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिविषयौ;
तत्र विद्वान्समश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यः;
तदपाकरणायोच्यते। मध्यमोऽनुप्रश्नः
अन्त्यापाकरणादेव
अपाकृत इति तदपाकरणाय न यत्यते। स यः कश्चित् वं यथोक्तं ब्रह्म
उत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीत्येवं वेत्तीति वंवित्;
वंशब्दस्य
प्रकृतपरामर्शार्थत्वात्। स किम्?
अस्माल्लोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो हि अयं लोकः,
तस्मादस्माल्लोकात्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा तं
यथाव्याख्यातम्
अन्नमयमात्मानमुपसंक्रामति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति,
सर्वं स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः। ततः अभ्यन्तरमेतं
प्राणमयं
सर्वान्नमयात्मस्थमविभक्तम्। अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसंक्रामति।
अथादृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते॥
तत्रैतच्चिन्त्यम्
-- कोऽयमेवंवित्,
कथं वा संक्रामतीति; किं
परस्मादात्मनोऽन्यः संक्रमणकर्ता प्रविभक्तः, उत स वेति।
किं ततः? यद्यन्यः स्यात्,
श्रुतिविरोधः -
- 'तत्सृष्ट्वा
तदेवानुप्राविशत्''अन्योऽसावन्योऽहमस्मीति।
न स वेद''एकमेवाद्वितीयम्''तत्त्वमसि'
इति। अथ स व
आनन्दमयमात्मानमुपसंक्रामतीति,
कर्मकर्तृत्वानुपपत्तिः। परस्यैव च संसारित्वं पराभावो वा। यद्युभयथा प्राप्तो दोषो
न परिहर्तुं शक्यत इति,
व्यर्था चिन्ता। अथ अन्यतरस्मिन्पक्षे दोषाप्राप्तिः
तृतीयो वा पक्षे
अदुष्टे,
स व शास्त्रार्थ इति व्यर्थैव चिन्ता;
न, तन्निर्धारणार्थत्वात्। सत्यं
प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिन् तृतीये वा पक्षे अदुष्टे
अवधृते व्यर्था
चिन्ता स्यात्;
न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता।
सत्यमर्थवती चिन्ता, शास्त्रार्थावधारणार्थत्वात्।
चिन्तयसि च त्वम्, न तु
निर्णेष्यसि;
किं न निर्णेतव्यमिति वेदवचनम्? न;
कथं तर्हि? बहुप्रतिपक्षत्वात्;
कत्ववादी त्वम्, वेदार्थपरत्वात्;
बहवो हि नानात्ववादिनो वेदबाह्याः
त्वत्प्रतिपक्षाः;
अतो ममाशङ्का -- न निर्णेष्यसीति। तदेव मे स्वस्त्ययनम् --
यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ। अतो जेष्यामि सर्वान्;
आरभे च
चिन्ताम्॥ स व तु
स्यात्,
तद्भावस्य विवक्षितत्वात्। तद्विज्ञानेन परमात्मभावो हि अत्र
विवक्षितः -- 'ब्रह्मविदाप्नोति परम्'
इति। न हि अन्यस्य
अन्यभावापत्तिरुपपद्यते। ननु तस्यापि तद्भावापत्तिरनुपपन्नैव। न,
अविद्याकृतानात्मापोहार्थत्वात्। या हि ब्रह्मविद्यया
स्वात्मप्राप्तिरुपदिश्यते, सा अविद्याकृतस्य
अन्नादिविशेषात्मनः
आत्मत्वेनाध्यारोपितस्य अनात्मनः अपोहार्था। कथमेवमर्थता अवगम्यते?
विद्यामात्रोपदेशात्। विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिः;
तच्चेह
विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते। मार्गविज्ञानोपदेशवदिति चेत्,
तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः। कस्मात्?
देशान्तरप्राप्तौ
मार्गविज्ञानोपदेशदर्शनात्। न हि ग्राम व गन्तेति चेत्,
न; वैधर्म्यात्। तत्र हि ग्रामविषयं
नोपदिश्यते, तत्प्राप्तिमार्गविषयमेवोपदिश्यते विज्ञानम्;
न तथेह
ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञानमुंपदिश्यते।
उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेत्,
न; नित्यत्वान्मोक्षस्येत्यादिना
प्रत्युक्तत्वात्।
श्रुतिश्च'तत्सृष्ट्वा
तदेवानुप्राविशत्' इति कार्यस्य तदात्मत्वं दर्शयति।
अभयप्रतिष्ठोपपत्तेश्च। यदि हि विद्यावान् स्वात्मनोऽन्यत्र पश्यति,
ततः
अभयं प्रतिष्ठां
विन्दत इति स्यात्,
भयहेतोः परस्य अन्यस्य अभावात्। अन्यस्य च अविद्याकृतत्वे
विद्यया अवस्तुत्वदर्शनोपपत्तिः; तध्दि द्वितीयस्य
चन्द्रस्य
असत्त्वम्,
यदतैमिरिकेण चक्षुष्मता न गृह्यते;
नैवं न गृह्यत इति चेत्, न;
सुषुप्तसमाहितयोरग्रहणात्। सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत्,
न; सर्वाग्रहणात्।
जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेत्,
न; अविद्याकृतत्वात्
जाग्रत्स्वप्नयोः; यदन्यग्रहणं जाग्रत्स्वप्नयोः,
तदविद्याकृतम्, विद्याभावे अभावात्।
सुषुप्ते
अग्रहणमपि
अविद्याकृतमिति चेत्,
न; स्वाभाविकत्वात्। द्रव्यस्य हि
तत्त्वमविक्रिया, परानपेक्षत्वात्;
विक्रिया न तत्त्वम्,
परापेक्षत्वात्। न हि कारकापेक्षं
वस्तुनस्तत्त्वम्;
सतो विशेषः कारकापेक्षः; विशेषश्च
विक्रिया; जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः। यध्दि यस्य
नान्यापेक्षं स्वरूपम्, तत्तस्य तत्त्वम्;
यदन्यापेक्षम्, न
तत्तत्त्वम्;
अन्याभावे अभावात्। तस्मात् स्वाभाविकत्वात् जाग्रत्स्वप्नवत् न
सुषुप्ते विशेषः। येषां पुनरीश्वरो अन्य आत्मनः, कार्यं
च अन्यत्, तेषां भयानिवृत्तिः,
भयस्य
अन्यनिमित्तत्वात्;
सतश्च अन्यस्य आत्महानानुपपत्तिः। न च असत आत्मलाभः। सापेक्षस्य
अन्यस्य भयहेतुत्वमिति चेत्, न;
तस्यापि तुल्यत्वात्।
यध्दर्माद्यनुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्य अन्यद्भयकारणं स्यात्,
तस्यापि तथाभूतस्य आत्महानाभावात् भयानिवृत्तिः;
आत्महाने वा
सदसतोरितरेतरापत्तौ
सर्वत्र अनाश्वास व। कत्वपक्षे पुनः सनिमित्तस्य संसारस्य अविद्याकल्पितत्वाददोषः।
तैमिरकदृष्टस्य हि द्वितीयचन्द्रस्य न आत्मलाभो
नाशो वा अस्ति।
विद्याविद्ययोः तध्दर्मत्वमिति चेत्,
न; प्रत्यक्षत्वात्। विवेकाविवेकौ
रूपादिवत् प्रत्यक्षावुपलभ्येते अन्तःकरणस्थौ। न हि रूपस्य प्रत्यक्षस्य सतो
द्रष्टृधर्मत्वम्।
अविद्या च स्वानुभवेन रूप्यते -- मूढोऽहम् अविविक्तं मम विज्ञानम् इति। तथा
विद्याविवेको अनुभूयते। उपदिशन्ति च अन्येभ्य आत्मनो विद्यां
बुधाः। तथा च अन्ये
अवधारयन्ति। तस्मात् नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च;
न आत्मधर्मौ,' नामरूपयोर्निर्वहिता
ते यदन्तरा तद्ब्रह्म' इति श्रुत्यन्तरात्।
ते च पुनर्नामरूपे
सवितर्यहोरात्रे इव कल्पिते;
न परमार्थतो विद्यमाने। अभेदे'
तमानन्दमयमात्मानमुपसंक्रामति ' इति
कर्मकर्तृत्वानुपपत्तिरिति चेत्, न;
विज्ञानमात्रत्वात्
संक्रमणस्य। न जलूकादिवत् संक्रमणमिहोपदिश्यते;
किं तर्हि, विज्ञानमात्रं
संक्रमणश्रुतेरर्थः। ननु मुख्यमेव संक्रमणं श्रूयते -- उपसंक्रामतीति
इति चेत्,
न; अन्नमये अदर्शनात्। न हि
अन्नमयमुपसंक्रामतः बाह्यादस्माल्लोकात् जलूकावत् संक्रमणं दृश्यते,
अन्यथा वा। मनोमयस्य बहिर्निर्गतस्य
विज्ञानमयस्य वा
पुनः प्रत्यावृत्त्या आत्मसंक्रमणमिति चेत्,
न; स्वात्मनि क्रियाविरोधात्।
अन्योऽन्नमयमन्यमुपसंक्रामतीति प्रकृत्य मनोमयो विज्ञानमयो वा
स्वात्मानमेवोपसंक्रामतीति विरोधः स्यात्। तथा न आनन्दमयस्य आत्मसंक्रमणमुपपद्यते।
तस्मात् न प्राप्तिः संक्रमणम्;
नापि अन्नमयादीनामन्यतमकर्तृकं
पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तकर्तृकं ज्ञानमात्रं च
संक्रणमुपपद्यते। ज्ञानमात्रत्वे च आनन्दमयान्तःस्थस्यैव सर्वान्तरस्य
आकाशाद्यन्नमयान्तं कार्यं
सृष्ट्वा
अनुप्रविष्टस्य हृदयगुहाभिसंबन्धादन्नमयादिषु अनात्मसु आत्मविभ्रमः
संक्रमणात्मकविवेकविज्ञानोत्पत्त्या विनश्यति। तदेतस्मिन्नविद्याविभ्रमनाशे
संक्रमणशब्द
उपचर्यते;
न हि अन्यथा सर्वगतस्य आत्मनः संक्रमणमुपपद्यते।
वस्त्वन्तराभावाच्च। न च स्वात्मन व संक्रमणम्। न हि जलूका आत्मानमेव
संक्रामति। तस्मात्
सत्यं ज्ञानमनन्तं ब्रह्मेति यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव
बहुभवनसर्गप्रवेशरसलाभाभयसंक्रणादि परिकल्प्यते ब्रह्मणि सर्वव्यवहारविषये;
न तु
परमार्थतो
निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते। तमेतं निर्विकल्पमात्मानम् वं
क्रमेणोपसंक्रम्य विदित्वा न बिभेति कुतश्चन अभयं प्रतिष्ठां विन्दत
इत्येतस्मिन्नर्थेऽपि षः श्लोकः भवति। सर्वस्यैव अस्य प्रकरणस्य आनन्दवल्ल्यर्थस्य
संक्षेपतः प्रकाशनाय ष मन्त्रो भवति॥ इति अष्टमानुवाकभाष्यम्॥
असद्वा इदमग्र आसीत्। ततो वै सदजायत। तदात्मान्ँ स्वयमकुरुत।
तस्मात्तत्सुकृतंमुच्यत इति। यद्वैतत्सुकृतम्। रसो वै सः।
रस्ँह्येवायं लब्ध्वानन्दी भवती। को ह्येवान्यात्कः प्राण्यात्। तदेष आकाश आनन्दो न
स्यात्। ष ह्येवानन्दयाति। यदा ह्येवैष
तस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो
भवति। यदा ह्येवैष तस्मिन्नुदरमन्तरं कुरुते।
अथ तस्य भयं भवति। तत्त्वेव भयं विदुषोऽमन्वानस्य। तदप्येष श्लोको भवति॥2.7.1॥
(1) --
असद्वा इदमग्र आसीत्।
असदिति व्याकृतनामरूपविशेषविपरीतरूपम् अव्याकृतं ब्रह्म उच्यते;
न
पुनरत्यन्तमेवासत्। न ह्यसतः सज्जन्मास्ति। इदम्
इति
नामरूपविशेषवद्व्याकृतं जगत्;
अग्रे पूर्वं प्रागुत्पत्तेः ब्रह्मैव असच्छब्दवाच्यमासीत्। ततः
असतः वै सत् प्रविभक्तनामरूपविशेषम् अजायत उत्पन्नम्। किं
ततः प्रविभक्तं
कार्यमिति -- पितुरिव पुत्रः?
नेत्याह। तत् असच्छब्दवाच्यं स्वयमेव आत्मानमेव अकुरुत कृतवत्।
यस्मादेवम्, तस्मात् तत् ब्रह्मैव सुकृतं स्वयं
कर्तृ उच्यते। स्वयं
कर्तृ ब्रह्मेति प्रसिध्दं लोके सर्वकारणत्वात्। यस्माद्वा स्वयमकरोत्सर्वं
सर्वात्मना,
तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतम् उच्यते।
सर्वथापि तु
फलसंबन्धादिकारणं सुकृतशब्दवाच्यं प्रसिध्दं लोके। यदि पुण्यं यदि वा अन्यत् सा
प्रसिध्दिः नित्ये चेतनकारणे सति उपपद्यते,
तस्मादस्ति ब्रह्म,
सुकृतप्रसिध्देरिति।
इतश्चास्ति;
कुतः? रसत्वात्। कुतो
रसत्वप्रसिध्दिर्ब्रह्मण इत्यत आह -- यद्वै तत्सुकृतं रसौ वै सः। रसो नाम
तृप्तिहेतुः आनन्दकरो
मधुराम्लादिः
प्रसिध्दो लोके। रसमेव हि अयं लब्ध्वा प्राप्य आनन्दी सुखी भवति। नासत
आनन्दहेतुत्वं दृष्टं लोके। बाह्यानन्दसाधनरहिता अपि अनीहा
निरेषणा ब्राह्मणा
बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः;
नूनं ब्रह्मैव रसस्तेषाम्। तस्मादस्ति तत्तेषामानन्दकारणं
रसवद्ब्रह्म। इतश्चास्ति; कुतः?
प्राणनादिक्रियादर्शनात्। अयमपि हि पिण्डो जीवतः प्राणेन प्राणिति अपानेन अपानिति।
वं वायवीया ेन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निरर््वत्यमाना दृश्यन्ते।
तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं संभवति,
अन्यत्रादर्शनात्। तदाह -- यत् यदि षः आकाशे परमे व्योम्नि
गुहायां निहित आनन्दो न स्यात् न
भवेत्,
को ह्येव लोके अन्यात् अपानचेष्टां कुर्यादित्यर्थः। कः
प्राण्यात् प्राणनं वा कुर्यात्; तस्मादस्ति तद्ब्रह्म,
यदर्थाः कार्यकरणप्राणनादिचेष्टाः;
तत्कृत व च
आनन्दो लोकस्य। कुतः?
ष ह्येव पर आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मानुरूपम्।
स वात्मा आनन्दरूपोविद्यया परिच्छिन्नो विभाव्यते
प्राणिभिरित्यर्थः।
भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तद्ब्रह्म। सद्वस्ताश्रयणेन हि अभयं भवति;
नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते। कथमभयहेतुत्वमिति,
उच्यते -- यदा ह्येव
यस्मात् षः साधकः तस्मिन् ब्रह्मणि -- किंविशिष्टे?
अदृश्ये दृश्यं नाम द्रष्टव्यं विकारः,
दर्शनार्थत्वाद्विकारस्य; न दृश्यम्
अदृश्यम्,
अविकारइत्यर्थः।
तस्मिन्नदृश्ये अविकारेऽविषयभूते,
अनात्म्ये अशरीरे, यस्माददृश्यं
तस्मादनात्म्यम्, यस्मादनात्म्यं तस्मादनिरुक्तम्;
विशेषो हि निरुच्यते;
विशेषश्च विकारः;
अविकारं च ब्रह्म,
सर्वविकारहेतुत्वात्; तस्मात् अनिरुक्तम्। यत् वम्,
तस्मादनिलयनं निलयनं नीड आश्रयः न निलयनम् अनिलयनम्
अनाधारं तस्मिन्
तस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ब्रह्मणीति
वाक्यार्थः। अभयमिति क्रियाविशेषणम्। अभयामिति वा लिङ्गान्तरं
परिणम्यते।
प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते। अथ तदा सः तस्मिन्नानात्वस्य
भयहेतोरविद्याकृतस्यादर्शनादभयं गतो भवति। स्वरूपप्रतिष्ठो ह्यसौ यदा
भवति,
तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति। अन्यस्य
ह्यन्यतो भयं भवति, न आत्मन व आत्मनो भयं युक्तम्;
तस्मात् आत्मैव आत्मनः
अभयकारणम्। सर्वतो
हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु;
तच्चायुक्तमसति भयत्राणे ब्रह्मणि। तस्मात्तेषामभयदर्शनादस्ति
तदभयकारणं ब्रह्मेति। कदा
असौ अभयं गतो भवति
साधकः?
यदा नान्यत्पश्यति आत्मनि च अन्तरं भेदं न कुरुते, तदा
अभयं गतो भवतीत्यभिप्रायः। यदा पुनरविद्यावस्थायां हि यस्मात्
षः अविद्यावान्
अविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि च तस्मिन्
ब्रह्मणि,
उत अपि, अरम् अल्पमपि,
अन्तरं छिद्रं भेददर्शनं कुरुते;
भेददर्शनमेव हि
भयकारणम्;
अल्पमपि भेदं पश्यतीत्यर्थः। अथ तस्माद्भेददर्शनाध्देतोः तस्य
भेददर्शिनः आत्मनो भयं भवति। तस्मादात्मैवात्मनो
भयकारणमविदुषः;
तदेतदाह -- तत् ब्रह्म त्वेव भयं भेददर्शिनो विदुषः ईश्वरोऽन्यो
मत्तः अहमन्यः संसारीत्येवंविदुषः भेददृष्टमीश्वराख्यं तदेव ब्रह्म
अल्पमप्यन्तरं
कुर्वतः भयं भवति कत्वेन अमन्वानस्य। तस्मात् विद्वानप्यविद्वानेवासौ,
योऽयमेकमभिन्नमात्मतत्त्वं न पश्यति।
उच्छेदहेतुदर्शनाध्दयुच्छेद्याभिमतस्य
भयं भवति;
अनुच्छेद्यो ह्युच्छेदहेतुः; तत्र
असत्युच्छेदहेतौ उच्छेद्ये न तद्दर्शनकार्यं भयं युक्तम्। सर्वं च
जगद्भयवद्दृश्यते। तस्माज्जगतो भयदर्शनाद्गम्यते --
नूनं तदस्ति
भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकम्,
यतो जगद्बिभेतीति। तत् तस्मिन्नप्यर्थे षः श्लोकः भवति॥ इति
सप्तमानुवाकभाष्यम्॥
असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो
विदुरिति। तस्यैष व शरीर आत्मा। यः पूर्वस्य।
अथातोऽनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य। कश्च न गच्छती।3।
आहो विद्वानमुं लोकं प्रेत्य। कश्चित्समश्नुता।3। उ।
सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्तवा। इद्ँ सर्वमसृजत।
यदिदं किं च। तत्सृष्ट्रा।
तदेवानुप्राविशत्। तदनुप्रविश्य। सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं
चानिलयनं च। विज्ञानं चाविज्ञानं च। सत्यं
चानृतं च सत्यमभवत्। यदिदं किंच। यदिदं किंच। तत्सत्यमित्याचक्षते। तदप्येष श्लोको
भवति॥2.6.1॥
(1) --
यतो वाचो निवर्तन्ते
अप्राप्य मनसा सहेत्यादि। तस्य पूर्वस्य प्राणमयस्य ष व आत्मा शारीरः शरीरे
प्राणमये भवः शारीरः। कः?
य ष मनोमयः।
तस्माद्वा तस्मादिति
पूर्ववत्। अन्योऽन्तर आत्मा विज्ञानमयः मनोमयस्याभ्यन्तरो विज्ञानमयः। मनोमयो
वेदात्मा उक्तः। वेदार्थविषया बुध्दिर्निश्चयात्मिका
विज्ञानम्,
तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः,
तन्मयः निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्विर्तितः आत्मा विज्ञानमयः
प्रमाणविज्ञानपूर्वको हि यज्ञादिः तायते।
यज्ञादिहेतुत्वं च
वक्ष्यति श्लोकेन। निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रध्दा उपपद्यते।
सा सर्वकर्तव्यानां प्राथम्यात् शिर इव शिरः।
तसत्ये यथाव्याख्याते व। योगः युक्तिः समाधानम् आत्मैव आत्मा। आत्मवतो हि युक्तस्य
समाधानवतः अङ्गानीव श्रध्दादीनि
यथार्थप्रतिपत्तिक्षमाणि भवन्ति। तस्मात्समाधानं योग आत्मा विज्ञानमयस्य। महः
पुच्छं प्रतिष्ठा। मह इति महत्तत्त्वं
प्रथमजम्,'महद्यक्षं
प्रथमजं वेद' इति श्रुत्यन्तरात्,
पुच्छं प्रतिष्ठा कारणत्वात्। कारणं हि कार्याणां प्रतिष्ठा,
यथा वृक्षवीरुधां
पृथिवी। सर्वविज्ञानानां च महत्तत्त्वं कारणम्। तेन तद्विज्ञानमयस्यात्मनः
प्रतिष्ठा। तदप्येष श्लोको भवति पूर्ववत्। यथा
अन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोकाः,
वं विज्ञानमयस्यापि॥ इति चतुर्थानुवाकभाष्यम्॥
यतो वाचो
निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कदाचनेति।
तस्यैष व शरीर आत्मा। यः पूर्वस्य। तस्माद्वा तस्मान्मनोमयात्।
अन्योऽन्तर आत्मा
विज्ञानमयः। तेनैष पूर्णः। स वा ष पुरुषविध व। तस्य पुरुष विधताम्। अन्वयं
पुरुषविधः। तस्य श्रध्दैव शिरः।
तं दक्षिणः पक्षः। सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा। तदप्येष
श्लोको भवति॥2.4.1॥
(1) --
विज्ञानं यज्ञं तनुते,
विज्ञानवान्हि
यज्ञं तनोति श्रध्दापूर्वकम्;
अतो विज्ञानस्य
कर्तृत्वं तनुत इति। कर्माणि च तनुते। यस्माद्विज्ञानकर्तृकं सर्वम्,
तस्माद्युक्तं
विज्ञानमय आत्मा
ब्रह्मेति। किंच,
विज्ञानं ब्रह्म सर्वे देवाः इन्द्रादयः ज्येष्ठम्,
प्रथमजत्वात्; सर्ववृत्तीनां वा
तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्रह्म उपासते ध्यायन्ति,
तस्मिन्विज्ञानमये
ब्रह्मण्यभिमानं कृत्वा उपासत इत्यर्थः। तस्मात्ते महतो ब्रह्मण उपासनात्
ज्ञानैश्वर्यवन्तो भवन्ति। तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति;
न केवलं वेदैव,
तस्मात् ब्रह्मणः चेत् न प्रमाद्यति;
बाह्येष्वनात्मस्वात्मा भावितः; तस्मात्प्राप्तं
विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनम्;
तन्निवृत्त्यर्थमुच्यते --
तस्माच्चेन्न
प्रमाद्यतीति। अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्यात्मत्वं
भावयन्नास्ते चेदित्यर्थः। ततः किं स्यादिति,
उच्यते -- शरीरे पाप्मनो
हित्वा;
शरीराभिमाननिमित्ता हि सर्वे पाप्मानः;
तेषां च विज्ञानमये ब्रह्मण्यात्माभिमानात् निमित्तापाये
हानमुपपद्यते, छत्रापाय इव च्छायायाः। तस्मात्
शरीराभिमाननिमित्तान्सर्वान् पाप्मनः शरीरप्रभवान् शरीरे व हित्वा
विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयेनैवात्मना
समश्नुते सम्यग्भुङ्क्ते
इत्यर्थः। तस्य
पूर्वस्य मनोमयस्य आत्मा ष व शरीरे मनोमये भवः शारीरः। कः?
य ष विज्ञानमयः। तस्माद्वा तस्मादित्युक्तार्थम्। आनन्दमय इति
कार्यात्मप्रतीतिः,
अधिकारात् मयट्शब्दाच्च। अन्नादिमया हि कार्यात्मनो भौतिका
इहाधिकृताः। तदधिकारपतितश्चायमानन्दमयः। मयट् चात्र विकारार्थे दृष्टः,
यथा अन्नमय इत्यत्र।
तस्मात्कार्यात्मा आनन्दमयः प्रत्येतव्यः। संक्रमणाच्च।'आनन्दमयमात्मानमुपसंक्रामति'
इति वक्ष्यति। कार्यात्मनां च संक्रमणमन्नात्मनां
दृष्टम्।
संक्रमणकर्मत्वेन च आनन्दमय आत्मा श्रूयते,
यथा'अन्नमयमात्मानमुपसंक्रामति'
इति। न च आत्मन वोपसंक्रमणम्,
अधिकारविरोधात्। असंभवाच्च। न
ह्यात्मनैव आत्मन
उपसंक्रमणं संभवति,
स्वात्मनि भेदाभावात्; आत्मभूतं च
ब्रह्म संक्रमितुः। शिरआदिकल्पनानुपपत्तेश्च। न हि यथोक्तलक्षणे आकाशादिकारणे
अकार्यपतिते
शिरआद्यवयवरूपकल्पना उपपद्यते।'अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने''अस्थूलमनणु''नेति
नेत्यात्मा' इत्यादिविशेषापोहश्रुतिभ्यश्च।
मन्त्रोदाहरणानुपपत्तेश्च। न हि,
प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमाने आनन्दमये आत्मनि
ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभावात्'असन्नेव स भवति
असद्ब्रह्मेति वेद
चेत्'
इति मन्त्रोदाहरणमुपपद्यते।'ब्रह्म पुच्छं प्रतिष्ठा'
इत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्टात्वेन ग्रहणम्।
तस्मात्कार्यपतित वानन्दमयः, न पर
वात्मा। आनन्द इति
विद्याकर्मणोः फलम्,
तद्विकार आनन्दमयः। स च विज्ञानमयादान्तरः,
यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः। ज्ञानकर्मणोर्हि
फलं
भोक्त्रर्थत्वादान्तरतमं स्यात्;
आन्तरतमश्च आनन्दमय आत्मा पूर्वभ्यः। विद्याकर्मणोः
प्रियाद्यर्थत्वाच्च। प्रियादिप्रयुक्ते हि विद्याकर्मणी;
तस्मात्प्रियादीनां
फलरूपाणामात्मसंनिकर्षात् विज्ञानमयादस्यभ्यन्तरत्वमुपपद्यते;
प्रियादिवासनानिर्वर्तितो ह्यात्मा आनन्दमयो विज्ञानमयाश्रितः
स्वप्ने उपलभ्यते। तस्य
आनन्दमयस्यात्मनः
इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः,
प्राधान्यात्। मोद इति प्रियलाभनिमित्तो हर्षः। स व च प्रकृष्टो
हर्षः प्रमोदः। आनन्द इति
सुखसामान्यम् आत्मा
प्रियादीनां सुखावयवानाम्,
तेष्वनुस्यूतत्वात्। आनन्द इति परं ब्रह्म;
तध्दि शुभकर्मणा प्रत्युपस्थाप्यमाने
पुत्रमित्रादिविषयविशेषोपाधौ
अन्तःकरणवृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने अभिव्यज्यते। तद्विषयसुखमिति
प्रसिध्दं लोके। तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात् सुखस्य
क्षणिकत्वम्।
तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रध्दया च निर्मलत्वमापद्यते
यावत्,
तावत् विविक्ते प्रसन्ने अन्तःकरणे आनन्दविशेष उत्कृष्यते
विपुलीभवति।
वक्ष्यति च -- 'रसौ
वै सः, रसँ् ह्येवायं लब्ध्वानन्दी भवति,
ष ह्येवानन्दयाति,
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति
श्रुत्यन्तरात्।
वं च
कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षः आनन्दस्य वक्ष्यते। वं च
उत्कृष्यमाणस्य आनन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव
यत्प्रकृतं
सत्यज्ञानानन्तलक्षणम्,
यस्य च प्रतिपत्त्यर्थं पञ्च अन्नादिमयाः कोशा उपन्यस्ताः,
यच्च तेभ्य आभ्यन्तरम्, येन च ते
सर्वे आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा।
तदेव च
सर्वस्याविद्यापरिकल्पितस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा,
आनन्दमयस्य कत्वावसानत्वात्। अस्ति तदेकमविद्याकल्पितस्य
द्वैतस्यावसनाभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम्। तदेतस्मिन्नप्यर्थे ष श्लोको
भवति॥ इति पञ्चमानुवाकभाष्यम्॥
विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च। विज्ञानं देवाः सर्वे। ब्रह्म
ज्येष्ठमुपासते। विज्ञानं ब्रह्म चेद्वेद। तस्माच्चेन्न प्रमाद्यति।
शरीरे पाप्मनो हित्वा। सर्वान्कामान्समश्नुत इति। तस्यैष व शरीर आत्मा। यः
पूर्वस्य। तस्माद्वा तस्माद्विज्ञानमयात्। अन्योऽन्तर
आत्मानन्दमयः। तेनैष पूर्णः। स वा ष पुरुषविध व। तस्य पुरुषविधताम्। अन्वयं
पुरुषविधः। तस्य प्रियमेव शिरः। मोदो
दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा।
तदप्येष श्लोको भवति॥2.5.1॥
(1) --
असन्नेव असत्सम व,
यथा असन्
अपुरुषार्थसंबन्धी,
वं सः भवति
अपुरुषार्थसंबन्धी। कोऽसौ?
यः असत्
अविद्यमानं ब्रह्म इति वेद विजानाति चेत्
यदि। तद्विपर्ययेण
यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्तमितमपि,
अस्ति तत् ब्रह्म इति वेद चेत्, कुतः
पुनराशङ्का तन्नास्तित्वे? व्यवहारातीतत्वं
ब्रह्मण इति ब्रूमः।
व्यवहारविषये हि वाचारम्भणमात्रे अस्तित्वभावितबुध्दिः तद्विपरीते व्यवहारातीते
नास्तित्वमपि अस्तित्वभावितबुध्दिः तद्विपरीते व्यवहारातीते
नास्तित्वमपि
प्रतिपद्यते। यथा'
घटादिर्व्यवहारविषयतयोपपन्नः सन्,
तद्विपरीतः असन्' इति प्रसिध्दम्,
वं तत्सामान्यादिहापि स्याद्ब्रह्मणो नास्तित्वं
प्रत्याशङ्का।
तस्मादुच्यते -- अस्ति ब्रह्मेति चेद्वेदेति। किं पुनः स्यात्तदस्तीति विजानतः?
तदाह -- सन्तं विद्यमानं ब्रह्मस्वरूपेण परमार्थसदात्मापन्नम्
नम्
वंविदं विदुः
ब्रह्मविदः। ततः तस्मात् अस्तित्ववेदनात् सः अन्येषां ब्रह्मवद्विज्ञेयो
भवतीत्यर्थः। अथवा यो नास्ति ब्रह्मेति मन्यते,
स सर्वस्यैव सन्मार्गस्य
वर्णाश्रमादिव्यवस्थालक्षणस्य नास्तित्वं प्रतिपद्यते;
ब्रह्मप्रतिपत्त्यर्थत्वात्तस्य। अतः नास्तिकः सः असन्
असाधुरुच्यते लोके। तद्विपरीतः सन् यः अस्ति ब्रह्मेति
चेद्वेद,
स तदब्रह्मप्रतिपत्तिहेतुं सन्मार्गं
वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात्,
ततः तस्मात् सन्तं साधुमार्गस्थम् नं विदुः साधवः।
तस्मादस्तीत्येव
ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः। तस्य पूर्वस्य विज्ञानमयस्य ष व शरीरे
विज्ञानमये भवः शारीरः आत्मा। कोऽसौ?
य ष आनन्दमयः। तं प्रति
नास्त्याशङ्का
नास्तित्वे। अपोढसर्वविशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता;
सर्वसाम्याच्च ब्रह्मणः। यस्मादेवम्,
अतः तस्मात् अथ अनन्तरं श्रोतुः
शिष्यस्य
अनुप्रश्नाः आचार्योक्तिमनु ते प्रश्नाः। सामान्यं हि ब्रह्म आकाशादिकारणत्वात्
विदुषः अविदुषश्च;
अतः अविदुषोऽपि ब्रह्मप्राप्तिराशङ्कयते -- उत
अपि अविद्वान् अमुं
लोकं परमात्मानम् इतः प्रेत्य कश्चन,
चनशब्दः अप्यर्थे, अविद्वानपि गच्छति
प्राप्नोति?' किं वा न गच्छति?'
इति द्वितीयोऽपि प्रश्नो
द्रष्टव्यः,
अनुप्रश्ना इति बहुवचनात्। विद्वांसं प्रत्यन्यौ प्रश्नौ --
यद्यविद्वान्सामान्यं कारणमपि ब्रह्म न गच्छति, अतो
विदुषोऽपि ब्रह्मागमनमाशङ्कयते; अतस्तं
प्रति प्रश्नः --
आहो विद्वानिति। उकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च
पूर्वस्मादुतशब्दाद्व्यासज्य आहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति --
उताहो विद्वानिति।
विद्वान् ब्रह्मविदपि कश्चित् इतः प्रेत्य अमुं लोकं समश्नुते प्राप्नोति। समश्नुते
उ इत्येवं स्थिते,
अयादेशे यलोपे च कृते, अकारस्य
प्लुतिः -
-
समश्नुता
3
उ इति। विद्वान्समश्नुते अमुं लोकम्;
किं वा,
यथा अविद्वान्,
वं विद्वानपि न
समश्नुते इत्यपरः प्रश्नः। द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ;
बहुवचनं तु
सामर्थ्यप्राप्तप्रश्नान्तरापेक्षया घटते।'
असद्ब्रह्मेति वेद चेत्'' अस्ति
ब्रह्मेति चेद्वेद' इति श्रवणादस्ति नास्तीति संशयः। ततः
अर्थप्राप्तः किमस्ति
नास्तीति
प्रथमोऽनुप्रश्नः। ब्रह्मणः अपक्षपातित्वात् अविद्वान्गच्छति न गच्छतीति द्वितीयः।
ब्रह्मणः समत्वेऽपि अविदुष इव विदुषोऽप्यगमनमाशङ्कय किं
विद्वान्समश्नुते न
समश्नुते इति तृतीयोऽनुप्रश्नः॥ एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते। तत्र
अस्तित्वमेव तावदुच्यते। यच्चोक्तम्,'
सत्यं ज्ञानमनन्तं ब्रह्म'
इति,
तत्र च कथं सत्यत्वमित्येतद्वक्तव्यमिति इदमुच्यते।
सत्त्वोक्त्यैव सत्यत्वमुच्यते। उक्तं हि सदेव सत्यमिति;
तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते।
कथमेवमर्थता
अवगम्यते अस्य ग्रन्थस्य?
शब्दानुगमात्। अनेनैव ह्यर्थेनान्वितानि उत्तरवाक्यानि --
'तत्सत्यमित्याचक्षते''यदेष
आकाश आनन्दो न स्यात्'
इत्यादीनि। तत्र
असदेव ब्रह्मेत्याशङ्कयते। कस्मात्?
यदस्ति, तद्विशेषतो गृह्यते;
यथा घटादि। यन्नास्ति, तन्नोपलभ्यते;
यथा शशविषाणादि। तथा नोपलभ्यते
ब्रह्म;
तस्माद्विशेषतः अग्रहणान्नास्तीति। तन्न,
आकाशादिकारणत्वाद्ब्रह्मणः। न नास्ति ब्रह्म। कस्मात्?
आकाशादि हि सर्वं कार्यं ब्रह्मणो जातं गृह्यते;
यस्माच्च
जायते किंचित्,
तदस्तीति दृष्टं लोके, यथा
घटाङ्कुरादिकारणं मृद्बीजादि;
तस्मादाकाशादिकारणत्वादस्ति ब्रह्म। न चासतो जातं किंचिद्गृह्यते लोके
कार्यम्।
असतश्चेन्नामरूपादि कार्यम्,
निरात्मकत्वान्नोपलभ्येत; उपलभ्यते
तु; तस्मादस्ति ब्रह्म। असतश्चेत्कार्यं गृह्यमाणमपि
असदन्वितमेव स्यात्; न चैवम्;
तस्मादस्ति ब्रह्म।
तत्र'कथमसतः
सज्जायेत' इति श्रुत्यन्तरमसतः सज्जन्मासंभवमन्वाचष्टे
न्यायतः। तस्मात्सदेव ब्रह्मेति युक्तम्। तद्यदि मृद्बीजादिवत् कारणं
स्यात्,
अचेतनं तर्हि। न; कामयितृत्वात्। न
हि कामयित्रचेतनमस्ति लोके। सर्वज्ञं हि ब्रह्मेत्यवोचाम्;
अतः कामयितृत्वोपपत्तिः।
कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत्,
न; स्वातन्त्र्यात्। यथा
अन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति, न तथा
ब्रह्मणः प्रवर्तकाः कामाः। कथं तर्हि?
सत्यज्ञानलक्षणाः
स्वात्मभूतत्वाद्विशुध्दाः। न तैर्ब्रह्म प्रवर्त्यते;
तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया।
तस्मात्स्वातन्त्र्यं कामेषु ब्रह्मणः; अतो न अनाप्तकामं
ब्रह्म।
साधनान्तरानपेक्षत्वाच्च। यथा अन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः
स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च,
न तथा ब्रह्मणः। किं तर्हि?
स्वात्मनोऽनन्याः।
तदेतदाह -- सोऽकामयत। सः आत्मा यस्मादाकाशः संभूतः,
अकामयत कामितवान्। कथम्? बहु प्रभूतं
स्यां भवेयम्।
कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादिति,
उच्यते -- प्रजायेय उत्पद्येय। न हि
पुत्रोत्पत्तेरिवार्थान्तरविषयं बहुभवनम्। कथं तर्हि?
आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या। यदा आत्मस्थे अनभिव्यक्ते नामरूपे
व्याक्रियेते,
तदा आत्मस्वरूपापरित्यागेनैव ब्रह्मणः अप्रविभक्त्देशकाले
सर्वावस्थासु
व्याक्रियेते।
तदेतन्नामरूपव्याकरणं ब्रह्मणो बहुभवनम्। नान्यथा निरवयवस्य ब्रह्मणो
बहुत्वापत्तिरुपपद्यते अल्पत्वं वा,
यथा आकाशस्याल्पत्वं बहुत्वं च
वस्त्वन्तरकृतमेव।
अतः तद्द्वारेणैवात्मा बहु भवति। न ह्यात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं
सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते।
अतः नामरूपे
सर्वावस्थे ब्रह्मणैवात्मवती। न ब्रह्म तदात्मकम्। ते तत्प्रत्याख्याने न स्त वेति
तदात्मके उच्येते। ताभ्यां च उपाधिभ्यां
ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्रह्म। सः आत्मा वंकामः सन् तपः
अतप्यत। तप इति ज्ञानमुच्यते,'यस्य
ज्ञानमयं तपः' इति श्रुत्यन्तरात्।
आप्तकामत्वाच्च
इतरस्य असंभव व तपसः। तत्तपः अतप्यत तप्तवान्,
सृज्यमानजगद्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः। सः वमालोच्य
तपः तप्त्वा
प्राणिकर्मादिनिमित्तानुरूपम् इदं सर्वं जगत् देशतः कालतः नाम्ना रूपेण च यथानुभवं
सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानम् असृजत सृष्टवान्। यदिदं किंच
यत्ंकिचेदमविशिष्टम्,
तत् इदं जगत् सृष्ट्वा, किमकरोदिति,
उच्यते -- तदेव सृष्टं जगत् अनुप्राविशदिति॥ तत्रैतच्चिन्त्यम्
-- कथमनुप्राविशदिति। किम्, यः
स्रष्टा,
स तेनैवात्मनानुप्राविशत् उत अन्येनेति?
किं तावद्युक्तम्?
क्त्वाप्रत्ययश्रवणात्, यः स्रष्टा स वानुप्राविशदिति।
ननु न युक्तं मृद्वच्चेत्कारणं ब्रह्म,
तदात्मकत्वात्कार्यस्य,
कारणमेव हि कार्यात्मना परिणमते; अतः
अप्रविष्टस्यैव कार्योत्पत्तेरर्ूध्वं पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः। न हि
घटपरिणामव्यतिरेकेण
मृदो घटे प्रवेशोऽस्ति। यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः,
वमनेन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत्,
श्रुत्यन्तराच्च'
अनेन
जीवेनात्मनानुप्रविश्य'
इति; नैवं युक्तम्,
कत्वाद्ब्रह्मणः। मृदात्मनस्त्वनेकत्वात् सावयवत्वाच्च युक्तो
घटे मृदश्चूर्णात्मनानुप्रवेशः, मृदश्चूर्णस्य
अप्रविष्टदेशत्वाच्च। न त्वात्मन कत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश
उपपद्यते;
कथं तर्हि प्रवेशः स्यात्? युक्तश्च
प्रवेशः, श्रुतत्वात् --
'तदेवानुप्राविशत्'
इति।
सावयवमेवास्तु;
तर्हि सावयवत्वात् मुखे
हस्तप्रवेशवत् नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त वेति चेत्,
न;
अशून्यदेशत्वात्। न हि
कार्यात्मना
परिणतस्य नामरूपकार्यदेशव्यतिरेकेण आत्मशून्यः प्रदेशोऽस्ति,
यं प्रविशेज्जीवात्मना। कारणमेव चेत्प्रविशेत्,
जीवात्मत्वं जह्यात्, यथा घटो
मृत्प्रवेशे घटत्वं
जहाति।'तदेवानुप्राविशत्'
इति च श्रुतेर्न कारणानुप्रवेशो युक्तः। कार्यान्तरमेव स्यादिति
चेत् -- तदेवानुप्राविशदिति जीवात्मरूपं कार्यं
नामरूपपरिणतं
कार्यान्तरमेव आपद्यत इति चेत्,
न; विरोधात्। न हि घटो
घटान्तरमापद्यते, व्यतिरेकश्रुतिविरोधाच्च। जीवस्य
नामरूपकार्यव्यतिरेकानुवादिन्यः
श्रुतयो विरुध्येरन्;
तदापत्तौ मोक्षासंभवाच्च। न हि यतो मुच्यमानः,
तदेव आपद्यते। न हि शृङ्खलापत्तिः बध्दस्य तस्करादेः।
बाह्यान्तर्भेदेन परिणतमिति चेत् -
-
तदेव कारणं ब्रह्म
शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परिणतमिति चेत्,
न;
बहिष्ठस्य
प्रवेशोपपत्तेः। न हि यो यस्यान्तःस्थः स व तत्प्रविष्ट
उच्यते।
बहिष्ठस्यानुप्रवेशः स्यात्,
प्रवेशशब्दार्थस्यैवं दृष्टत्वात् -- यथा गृहं कृत्वा
प्राविशदिति। जलसूर्यकादिप्रतिबिम्बवत् प्रवेशः स्यादिति चेत्,
न;
अपरिच्छिन्नत्वादमूर्तत्वाच्च। परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र
प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात्,
न त्वात्मनः; अमूर्तत्वात्,
आकाशादिकारणस्य
आत्मनः व्यापकत्वात्। तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च
प्रतिबिम्बवत्प्रवेशो न युक्तः। वं तर्हि नैवास्ति प्रवेशः;
न च
गत्यन्तरमुपलभामहे,'
तदेवानुप्राविशत्' इति श्रुतेः।
श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम्। न चास्माद्वाक्यात्
यत्नवतामपि विज्ञानमुत्पद्यते। हन्त
तर्ह्यनर्थकत्वादपोह्यमेतद्वाक्यम्'
तत्सृष्ट्वा तदेवानुप्राविशत्' इति;
न, अन्यार्थत्वात्। किमर्थमस्थाने
चर्चा? प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यार्थः अस्ति;
स
स्मर्तव्यः --
'
ब्रह्मविदाप्नोति परम्'' सत्यं ज्ञानमनन्तं ब्रह्म''
यो वेद निहितं गुहायाम् ' इति।
तद्विज्ञानं च विवक्षितम्; प्रकृतं च तत्।
ब्रह्मस्वरूपावगमाय च
आकाशाद्यन्नमयान्तं
कार्यं प्रदर्शितम्;
ब्रह्मावगमश्च आरब्धः। तत्र अन्नमयादात्मनोऽन्योऽन्तर आत्मा
प्राणमयः, तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां
प्रवेशितः;
तत्र च आनन्दमयो विशिष्ट आत्मा प्रदर्शितः। अतः
परमानन्दमयलिङ्गाधिगमद्वारेण आनन्दविवृध्दयवसान आत्मा। ब्रह्म पुच्छं प्रतिष्ठा
सर्वविकल्पास्पदो
निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते। न
ह्यन्यत्रोपलभ्यते ब्रह्म,
निर्विशेषत्वात्; विशेषसंबन्धो
ह्युपलब्धिहेतुर्दृष्टः --
यथा
राहोश्चन्द्रार्कविशेषसंबन्धः। वमन्तःकरणगुहात्मसंबन्धो ब्रह्मण उपलब्धिहेतुः,
संनिकर्षात्, अवभासात्मकत्वाच्च
अन्तःकरणस्य। यथा च
आलोकविशिष्टघटाद्युपलब्धिः,
वं बुध्दिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात्;
तस्मात् उपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव।
तद्वृत्तिस्थानीये त्विह
पुनस्तत्सृष्ट्वा
तदेवानुप्राविशदित्युच्यते॥ तदेवेदमाकाशादिकारणं कार्यं सृष्ट्वा
तदनुप्रविष्टमिवान्तर्गुहायां बुध्दौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं
विशेषवदुपलभ्यते। स
व तस्य प्रवेशः;
तस्मादस्ति तत्कारणं ब्रह्म। अतः अस्तित्वादस्तीत्येवोपलब्धव्यं
तत्। तत् कार्यमनुप्रविश्य; किम्?
सच्च मूर्तं त्यच्च
अमूर्तम् अभवत्।
मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेन आत्मना व्याक्रियेते
मूर्तामूर्तशब्दवाच्ये। ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते
अभवदित्युच्यते। किं
च,
निरुक्तं चानिरुक्तं च, निरुक्तं नाम निष्कृष्य
समानासमानजातीयेभ्यः देशकालविशिष्टतया इदं तदित्युक्तम्;
अनिरुक्तं तद्विपरीतम्;
निरुक्तानिरुक्ते
अपि मूर्तामूर्तयोरेव विशेषणे। यथा सच्च त्यच्च प्रत्यक्षपरोक्षे,
तथा निलयनं चानिलयनं च। निलयनं नीडम् आश्रयः मूर्तस्यैव धर्मः;
अनिलयनं
तद्विपरीतम्
अमूर्तस्यैव धर्मः। त्यदनिरुक्तानिलनानि अमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव,
सर्गोत्तरकालबावश्रवणात्। त्यदिति प्राणाद्यनिरुक्तं
तदेवानिलयनं च।
अतो विशेषणानि
अमूर्तस्य व्याकृतविषयाण्येवैतानि। विज्ञानं चेतनम्;
अविज्ञानं तद्रहितमचेतनं पाषाणादि। सत्यं च व्यवहारविषयम्,
अधिकारात्; न
परमार्थसत्यम्;
कमेव हि परमार्थसत्यं ब्रह्म। इह पुनः व्यवहारविषयमापेक्षिकं
सत्यम्, मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते।
अनृतं च तद्विपरीतम्। किं
पुनः?
तत्सर्वमभवत्, सत्यं परमार्थसत्यम्;
किं पुनस्तत्? ब्रह्म,'सत्यं
ज्ञानमनन्तं ब्रह्म' इति प्रकृतत्वात्। यस्मात्
सत्त्यदादिकं मूर्तामूर्तधर्मजातं यत्ंकिचेदं
सर्वमविशिष्टं
विकारजातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत्,
तद्व्यतिरेकेणाभावान्नामरूपविकारस्य,
तस्मात् तत् ब्रह्म सत्यमित्याचक्षते ब्रह्मविदः। अस्ति
नास्तीत्यनुप्रश्नः
प्रकृतः;
तस्य प्रतिवचनविषये तदुक्तम् -- 'आत्माकामयत
बहु स्याम्' इति। स यथाकामं च आकाशादिकार्यं
सत्त्यदादिलक्षणं सृष्ट्वा
तदनुप्रविश्य
पश्यञ्श्रृण्वन्मन्वानो विजानन् बह्वभवत्;
तस्मात् तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन्
हृदयगुहायां निहितं
तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्तीत्येवं विजानीयादित्युक्तं भवति। तत्
तस्मिन्नर्थे ब्राह्मणोक्ते षः श्लोकः मन्त्रः भवति। यथा
पूर्वेष्वन्नमयाद्यात्मप्रकाशकाः
पञ्चस्वपि,
वं सर्वान्तरमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण
भवति॥ इति षष्ठानुवाकभाष्यम्॥
प्राणं देवा अनु प्राणन्ति। मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुः।
तस्मात्सर्वायुषमुच्यते। सर्वमेव त आयुर्यन्ति। ये प्राणं
ब्रह्मोपासते। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यत इति। तस्यैष व शरीर
आत्मा। यः पूर्वस्य। तस्माद्वा
तस्मात्प्राणमयात्। अन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। स वा ष पुरुषविध व।
तस्य पुरुषविधताम्। अन्वयं पुरुषविधः।
तस्य यजुरेव शिरः।
ग् दक्षिणः पक्षः।
सामोत्तरः पक्षः। आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको
भवति॥2.3.1॥
(1) --
प्राणं देवा अनु प्राणन्ति। अग्न्यादयः देवाः प्राणं वाय्वात्मानं
प्राणनशक्तिमन्तम् अनु तदात्मभूताः सन्तः प्राणन्ति
प्राणनकर्म कुर्वन्ति,
प्राणनक्रियया क्रियावन्तो भवन्ति। अध्यात्माधिकारात् देवाः
इन्द्रियाणि प्राणमनु प्राणन्ति मुख्यप्राणमनु
चेष्टन्त इति वा। तथा मनुष्याः पशवश्च ये,
ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति। अतश्च नान्नमयेनैव
परिच्छिन्नात्मना
आत्मवन्तः प्राणिनः। किं तर्हि?
तदन्तर्गतप्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिना आत्मवन्तो
मनुष्यादयः। वं मनोमयादिभिः
पूर्वपूर्वव्यापिभिः उत्तरोत्तरैः सूक्ष्मैः
आनन्दमयान्तैराकाशादिभूतारब्धैरविद्याकृतैः आत्मवन्तः सर्वे प्राणिनः;
तथा,
स्वाभाविकेनाप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन
पञ्चकोशातिगेन सर्वात्मना आत्मवन्तः;
स हि
परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति। प्राणं देवा अनु
प्राणन्तीत्याद्युक्तम्;
तत्कस्मादित्याह -- प्राणः हि यस्मात्
भूतानां प्राणिनाम् आयुः जीवनम्,'यावध्दयस्मिञ्शरीरे
प्राणो वसति तावदेवायुः' इति श्रुत्यन्तरात्। तस्मात्
सर्वायुषम्, सर्वेषामायुः
सर्वायुः,
सर्वायुरेव सर्वायुषम् इत्युच्यते;
प्राणापगमे मरणप्रसिध्देः। प्रसिध्दं हि लोके सर्वायुष्ट्वं प्राणस्य। अतः
अस्माद्बाह्यादसाधारणादन्नमयादात्मनोऽपक्रम्य अन्तः साधारणं प्राणमयमात्मानं ब्रह्म
उपासते ये'अहमस्मि
प्राणः
सर्वभूतानामात्मा आयुः,
जीवनहेतुत्वात्' इति,
ते सर्वमेव आयुः अस्ंमिल्लोके यन्ति;
नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष
इत्यर्थः। शतं वर्षाणीति तु युक्तम्,'सर्वमायुरेति'
इति श्रुतिप्रसिध्देः। किं कारणम्? --
प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यत
इति। यो यद्गुणकं ब्रह्मोपास्ते,
स तद्गुणभाग्भवतीति विद्याफलप्राप्तेर्हेत्वर्थं पुनर्वचनम् --
प्राणो हीत्यादि। तस्य पूर्वस्य
अन्नमयस्य ष व शरीरे अन्नमये भवः शारीरः आत्मा। कः?
य ष प्राणमयः। तस्माद्वा तस्मादित्याद्युक्तार्थमन्यत्।
अन्योऽन्तर
आत्मा मनोमयः। मन इति संकल्पविकल्पात्मकमन्तःकरणम्,
तन्मयो मनोमयः; सोऽयं
प्राणमयस्याभ्यन्तर आत्मा। तस्य यजुरेव
शिरः। यजुरिति अनियताक्षरपादावसानो मन्त्रविशेषः;
तज्जातीयवचनो यजुःशब्दः; तस्य
शिरस्त्वम्, प्राधान्यात्। प्राधान्यं च
यागादौ संनिपत्योपकारकत्वात् यजुषा हि हविर्दीयते स्वाहाकारादिना॥ वाचनिकी वा
शिरआदिकल्पना सर्वत्र। मनसो हि
स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्संकल्पात्मिका तद्भाविता वृत्तिः
श्रोत्रकरणद्वारा यजुःसंकेतेन विशिष्टा यजुरित्युच्यते।
वम्
क्;
वं साम च। वं च मनोवृत्तित्वे मन्त्राणाम्,
वृत्तिरेव आवर्त्यत इति मानसो जप उपपद्यते। अन्यथा
अविषयत्वान्मन्त्रो नावर्तयितुं शक्यः घटादिवत् इति
मानसो जपो
नोपपद्यते। मन्त्रावृत्तिश्चोद्यते बहुशः कर्मसु। अक्षरविषयस्मृत्यावृत्त्या
मन्त्रावृत्तिः स्यात् इति चेत्,
न; मुख्यार्थासंभवात्।'त्रिः
प्रथमामन्वाह
त्रिरुत्तमाम्'
इति
गावृत्तिः श्रूयते। तत्र
चः अविषयत्वे
तद्विषयस्मृत्यावृत्त्या मन्त्रावृत्तौ च क्रियमाणायाम्'त्रिः
प्रथमामन्वाह' इति
गावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात्।
तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं
यजुःशब्दवाच्यम् आत्मविज्ञानं मन्त्रा इति। वं च नित्यत्वोपपत्तिर्वेदानाम्।
अन्यथाविषयत्वे रूपादिवदनित्यत्वं च स्यात्;
नैतद्युक्तम्।'सर्वे
वेदा यत्रैकं भवन्ति स मानसीन आत्मा' इति च श्रुतिः
नित्यात्मनैकत्वं ब्रुवन्ती
गादीनां नित्यत्वे
समञ्जसा स्यात्।'
चोऽक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः'
इति च मन्त्रवर्णः। आदेशः अत्र ब्राह्मणम्,
आदेष्टव्यविशेषानादिशतीति।
अथर्वणाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणं च
शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात् पुच्छं प्रतिष्ठा। तदप्येष श्लोको
भवति
मनोमयात्मप्रकाशकः पूर्ववत्॥ इति तृतीयानुवाकभाष्यम्॥
अन्नाद्वै प्रजाः
प्रजायन्ते। याः काश्च पृथिवी्ँश्रिताः। अथो अन्नेनैव जीवन्ति। अथैनदपि
यन्त्यन्ततः। अन्नँ् हि भूतानां ज्येष्ठम्। तस्मात्सर्वौषधमुच्यते।
सर्ववैतेऽन्नमाप्नुवन्ति। येऽन्नं ब्रह्मोपासते। अन्नँ हि भूतानां ज्येष्ठम्।
तस्मात्सर्वौषधमुच्यते। अन्नाद्भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति
च भूतानि
तस्मादन्नं तदुच्यत
इति। तस्माद्वा तस्मादन्नरसमयात्। अन्योऽन्तर आत्मा प्राणमयः। तेनैष पूर्णः। स वा ष
पुरुषविध व। तस्य पुरुषविधताम्। अन्वयं
पुरुषविधः। तस्य
प्राण व शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तरः पक्षः। आकाश आत्मा। पृथिवी पुच्छं
प्रतिष्ठा। तदप्येष श्लोको भवति॥2.2.1॥
(1) --
अन्नात् रसादिभावपरिणतात्,
वै
इति स्मरणार्थः,
प्रजाः स्थावरजङ्गमात्मकाः,
प्रजायन्ते। याः काश्च अविशिष्टाः पृथिवीं
श्रिताः पृथिवीममाश्रिताः,
ताः सर्वा अन्नादेव प्रजायन्ते। अथो अपि,
जाताः अन्नेनैव जीवन्ति प्राणान्धारयन्ति,
वर्धन्त इत्यर्थः।
अथ अपि,
नत् अन्नम्, अपियन्ति अपिगच्छन्ति,
अपि शब्दः प्रतिशब्दार्थे, अन्नं
प्रति लीयन्त इत्यर्थः; अन्ततः अन्ते
जीवनलक्षणाया वृत्तेः परिसमाप्तौ। कस्मात्?
अन्नं हि यस्मात् भूतानां प्राणिनां ज्येष्ठं प्रथमजम्।
अन्नमयादीनां हि इतरेषां
भूतानां कारणमन्नम्;
अतः अन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः।
यस्माच्चैवम्, तस्मात् सर्वौषधं सर्वप्राणिनां
देहदाहप्रशमनमन्नमुच्यते॥ अन्नब्रह्मविदः फलमुच्यते -- सर्वं वै ते समस्तमन्नजातम्
आप्नुवन्ति। के?
ये अन्नं ब्रह्म यथोक्तम्
उपासते। कथम्?
अन्नजोऽन्नात्मान्नप्रलयोऽहम्,
तस्मादन्नं ब्रह्म इति। कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमिति,
उच्यते --
अन्नं हि भूतानां ज्येष्ठं भूतेभ्यः पूर्वमुत्पन्नत्वाज्ज्येष्ठं हि यस्मात्,
तस्मात्सर्वौषधमुच्यते;
तस्मादुपपन्ना सर्वान्नात्मोपासकस्य
सर्वान्नप्राप्तिः। अन्नाद्भूतानि जायन्ते,
जातान्यन्नेन वर्धन्ते इति उपसंहारार्थं पुनर्वचनम्।
इदानीमन्नशब्दनिर्वचनमुच्यते -- अद्यते
भुज्यते चैव यद्भूतैः अत्ति च भूतानि स्वयम्,
तस्मात् भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्च अन्नं तत्
उच्यते। इतिशब्दः
प्रथमकोशपरिसमाप्त्यर्थः। अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्यः अभ्यन्तरतमं
ब्रह्म विद्यया प्रत्यगात्मत्वेन दिदर्शयिषु
शास्त्रम् अविद्याकृतपञ्चकोशापनयनेन अनेकतुषकोद्रववितुषीकरणेनेव तण्डुलान्
प्रस्तौति -- तस्माद्वा तस्मादन्नरसमयादित्यादि।
तस्माद्वै तस्मात् यथोक्तात् अन्नरसमयात्पिण्डात् अन्यः व्यतिरिक्तः अन्तरः
अभ्यन्तरः आत्मा पिण्डवदेव मिथ्यापरिकल्पित
आत्मत्वेन प्राणमयः,
प्राणः वायुः, तन्मयः तत्प्रायः। तेन
प्राणमयेन षः अन्नरसमय आत्मा पूर्णः वायुनेव दृतिः। स वै ष प्राणस्य
आत्मा पुरुषविध व पुरुषाकार व शिरःपक्षादिभिः। किं स्वत व?
नेत्याह -- प्रसिध्दं तावदन्नरसमयस्यात्मनः पुरुषविधत्वम्;
तस्य
अन्नरसमयस्य पुरुषविधतां पुरुषाकारताम् अनु अयं प्राणमयः पुरुषविधः
मूषानिषिक्तप्रतिमावत्,
न स्वत व। वं पूर्वस्य पूर्वस्य
पुरुषविधता;
तामनु उत्तरोत्तरः पुरुषविधो भवति,
पूर्वः पूर्वश्चोत्तरोत्तरेण पूर्णः। कथं पुनः पुरुषविधता अस्येति,
उच्यते -- तस्य
प्राणमयस्य प्राण व शिरः प्राणमयस्य वायुविकारस्य प्राणः मुखनासिकानिःसरणो
वृत्तिविशेषः शिर इति कल्प्यते,
वचनात्।
सर्वत्र वचनादेव पक्षादिकल्पना। व्यानः व्यानवृत्तिः दक्षिणः पक्षः। अपानः उत्तरः
पक्षः। आकाश आत्मा,
य आकाशस्थो
वृत्तिविशेषः समानाख्यः,
स आत्मेव आत्मा प्राणवृत्त्यधिकारात्। मध्यस्थत्वादितराः
पर्यन्ता वृत्तीरपेक्ष्य आत्मा;'मध्यं
ह्येषामङ्गानामात्मा'
इति प्रसिध्दं मध्यस्थस्यात्मत्वम्। पृथिवी पुच्छं प्रतिष्ठा।
पृथिवीति पृथिवीदेवता आध्यात्मिकस्य प्राणस्य
धारयित्री स्थितिहेतुत्वात्।'सैषा
पुरुषस्यापानमवष्टभ्य' इति हि श्रुत्यन्तरम्। अन्यथा
उदानवृत्त्या ऊर्ध्वगमनं गुरुत्वात्पतनं वा
स्याच्छरीरस्य। तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्य आत्मनः। तत्
तस्मिन्नेवार्थे प्राणमयात्मविषये व श्लोके भवति॥
इति द्वितीयानुवाकभाष्यम्॥
प्राणो ब्रह्मेति व्यजानात्। प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते। प्राणेन
जातानि जीवन्ति। प्राणं प्रयन्त्यभिसंविशन्तीति।
तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। तँहोवाच। तपसा ब्रह्म
विजिज्ञासस्व। तपो ब्रह्मेति। स
तपोऽतप्यत। स तपस्तप्त्वा॥3.3.1॥
(6) --
कः पुनरसौ विस्मय इति,
उच्यते --
अद्वैत आत्मा निरञ्जनोऽपि सन् अहमेवान्नमन्नादश्च। किंच,
अहमेव
श्लोककृत्। श्लोको नाम अन्नान्नादयोः
संघातः,
तस्य कर्ता चेतनावान्। अन्नस्यैव वा परार्थस्य अन्नादार्थस्य
सतोऽनेकात्मकस्य पारार्थ्येन हेतुना संघातकृत्। त्रिरुक्तिः विस्मयत्वख्यापनार्था।
अहमस्मि
भवामि। प्रथमजाः
प्रथमजः प्रथमोत्पन्नः।
तस्य सत्यस्य मूर्तामूर्तस्यास्य जगतो देवेभ्यश्च पूर्वममृतस्य नाभिः अमृतत्वस्य
नाभिः,
मध्यं मत्संस्थम् अमृतत्वं
प्राणिनामित्यर्थः। यः कश्चित् मा माम् अन्नमन्नार्थिभ्यो ददाति प्रयच्छति --
अन्नात्मना ब्रवीति,
सः इत् इत्थमेवेत्यर्थः, वमविनष्टं
यथाभूतं माम् आवा अवतीत्यर्थः। यः पुनरन्यो मामदत्वा अर्थिभ्यः काले
प्राप्तेऽन्नमत्ति तमन्नमदन्तं भक्षयन्तं पुरुषमहमन्नमेव
संप्रत्यद्मि भक्षयामि। अन्नाह -- वं तर्हि बिभेमि सर्वात्मत्वप्राप्तेर्मोक्षात्;
अस्तु संसार व, यतो मुक्तोऽप्यहम्
अन्नभूतः अद्यः स्याम् अन्यस्य। वं मा भैषीः;
संव्यवहारविषयत्वात् सर्वकामाशनस्य; अतीत्यायं
संव्यवहारविषयमन्नान्नादादिलक्षणमविद्याकृतं
विद्यया ब्रह्मत्वमापन्नः विद्वान्;
तस्य नैव द्वितीयं वस्त्वन्तरमस्ति,
यतो बिभेति; अतो न भेतव्यं मोक्षात्। वं तर्हि किमिदमाह
--
अहमन्नमहमन्नाद इति?
उच्यते। योऽयमन्नान्नादादिलक्षणः संव्यवहारः कार्यभूतः,
स संव्यवहारमात्रमेव; न
परमार्थवस्तु। स
वंभूतोऽपि ब्रह्मनिमित्तो ब्रह्मव्यतिरेकेणासन्निति कृत्वा ब्रह्मविद्याकार्यस्य
ब्रह्मभावस्य स्तुत्यर्थमुच्यते --
'अहमन्नमहमन्नमहमन्नम्।
अहमन्नादोऽहमन्नादोऽहमन्नादः'
इत्यादि। अतः भयादिदोषगन्धोऽपि अविद्यानिमित्तः
अविद्योच्छेदाद्ब्रह्मभूतस्य नास्तीति। अहं
विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्रह्मादिभिर्भवन्तीति वा अस्मिन् भूतानीति
भुवनम् अभ्यभवाम् अभिभवामि परेणेश्वरेण
स्वरूपेण। सुर्वन ज्योतिः सुवः आदित्यः;
नकार उपमार्थे; आदित्य इव
सकृद्विभातमस्मदीयं ज्योतीः ज्योतिः, प्रकाश इत्यर्थः।
इति वल्लीद्वयविहिता उपनिषत् परमात्मज्ञानम्;
तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरतस्तितिक्षुः समाहितो
भूत्वा भृगुवत्
तपो महदास्थाय य वं वेद,
तस्येदं फलं यथोक्तमोक्ष इति॥ इति दशमानुवाकभाष्यम्॥ इति
श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्यं
संपूर्णम्॥
अन्नं ब्रह्मेति
व्यजानात्। अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं
प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं
पितरमुपससार। अधीहि
भगवो ब्रह्मेति। त्ँहोवाच । तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोऽतप्यत।
स तपस्तप्त्वा॥3.2.1॥
(1) --
अन्नं बहति व्यजानात् विज्ञातवान्। तध्दि यतोक्तलक्षणोपेतम्। कथम्?
अन्नाध्दयेव खलु इमानि भूतानि जायन्ते। अन्नेन
जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविशन्तीति। तस्माद्युक्तमन्नस्य
ब्रह्मत्वमित्यभिप्रायः। स वं तपस्तप्त्वा,
अन्नं ब्रह्मेति विज्ञाय
लक्षणेन उपपत्त्या च पुनरेव संशयमापन्नः वरुणं पितरमुपसासर -- अधीहि भगवो
ब्रह्मेति। कः पुनः संशयहेतुरस्येति,
उच्यते -
-
अन्नस्योत्पत्तिदर्शनात्। तपसः पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः।
यावद्ब्रह्मणो लक्षणं निरतिशयं न भवति,
यावच्च
जिज्ञासा न निवर्तते,
तावत्तप व ते साधनम्; तपसैव ब्रह्म
विजिज्ञासस्वेत्यर्थः।
ज्वन्यत्॥ इति
द्वितीयानुवाकभाष्यम्॥
भृगुर्वै वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।तस्मा तत्प्रोवाच।
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति। त्ँहोवाच
यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति।
तद्विजिज्ञासस्व। तद्ब्रह्मेति। स तपोऽतप्यत।
स
तपस्तप्त्वा॥3.1.1॥
॥इति प्रथमोऽनुवाकः॥
मनो ब्रह्मेति व्यजानात्। मनसा ह्येव खल्विमानि भूतानि जायन्ते। मनसा जातानि
जीवन्ति। मनः प्रयन्त्यभिसंविशन्तीति।
तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। त्ँहोवाच। तपसा
ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स
तपोऽतप्यत। स तपस्तप्तवा॥3.4.1॥
विज्ञानं ब्रह्मेति व्यजानात्। विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते।
विज्ञानेन जातानि जीवन्ति। विज्ञानं
प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो
ब्रह्मेति। त्ँहोवाच। तपसा ब्रह्म विजिज्ञासस्व।
तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा॥3.5.1॥
आनन्दो ब्रह्मेति व्यजानात्। आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते। आनन्देन
जातानि जीवन्ति। आनन्दं
प्रयन्त्यभिसंविशन्तीति। सैषा भार्गवी वारुणी विद्या। परमे व्योमन् प्रतिष्ठिता। स
य वं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति।
महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कर्ीत्या॥3.6.1॥
(1) --
एवं तपसा विशुध्दात्मा
प्राणादिषु साकल्येन ब्रह्मलक्षणमपश्यन् शनैः शनैः अन्तरनुप्रविश्य अन्तरतममानन्दं
ब्रह्म विज्ञातवान् तपसैव साधनेन भृगुः;
तस्मात् ब्रह्म
विजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तपः साधनमनुष्ठेयमिति प्रकरणार्थः।
अधुना आख्यायिकां च उपसंहृत्य श्रुतिः स्वेन वचनेन
आख्यायिकानिरर्वत्यर्थमाचष्टे। सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी
विद्या परमे व्योमन् हृदयाकाशगुहायां परमे आनन्दे अद्वैते प्रतिष्ठिता
परिसमाप्ता
अन्नमयादात्मनोऽधिप्रवृत्ता। य वमन्योऽपि तपसैव साधनेन अनेनैव क्रमेण अनुप्रविश्य
आनन्दं ब्रह्म वेद,
स वं विद्याप्रतिष्ठानात् प्रतितिष्ठति आनन्दे
परमे ब्रह्मणि,
ब्रह्मैव भवतीत्यर्थः। दृष्टं च फलं तस्योच्यते -- अन्नवान्
प्रभूतमन्नमस्य विद्यत इत्यन्नवान्; सत्तामात्रेण तु
सर्वो हि अन्नावानिति विद्याया विशेषो न
स्यात्।
वमन्नमत्तीत्यन्नादः,
दीप्ताग्निर्भवतीत्यर्थः। महान्भवति। केन महत्त्वमित्यत आह --
प्रजया पुत्रादिना पशुभिः गवाश्वादिभिः ब्रह्मवर्चसेन
शमदमज्ञानादिनिमित्तेन तेजसा। महान्भवति कर्ीत्या ख्यात्या शुभाचारनिमित्तया॥ इति
षष्ठानुवाकभाष्यम्॥
अन्नं न निन्द्यात्। तद्व्रतम्। प्राणो वा अन्नम्। शरीरमन्नादम्। प्राणे शरीरं
प्रतिष्ठितम्। शरीरे प्राणः प्रतिष्ठितः। तदेतदन्नमन्ने
प्रतिष्ठितम्। स य तदन्नमनने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति।
महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान्
कर्ीत्या॥3.7.1॥
(1) --
आख्यायिका
विद्यास्तुतये,
प्रियाय पुत्राय
पित्रोक्तेति -- भृगुर्वै वारुणिः। वै-शब्दः प्रसिध्दानुस्मारकः,
भृगुरित्येवं
नामा प्रसिध्दो अनुस्मार्यते,
वारुणिः
वरुणस्यापत्यं
वारुणिः वरुणं पितरं ब्रह्म विजिज्ञासुः उपससार उपगतवान् -- अधीहि भगवो ब्रह्म
इत्यनेन मन्त्रेण। अधीहि अध्यापय कथय। स च पिता
विधिवदुपसन्नाय
तस्मै पुत्राय तत् वचनं प्रोवाच -- अन्नं प्राणं चक्षुः श्रोत्रम् मनो वाचम् इति।
अन्नं शरीरं तदभ्यन्तरं च प्राणम् अत्तारम्
अनन्तरमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचम् इत्येतानि ब्रह्मोपलब्धौ
द्वाराण्युक्तवान्। उक्त्वा च द्वारभूतान्येतान्यन्नादीनि तं भृगुं होवाच ब्रह्मणो
लक्षणम्। किं
तत्?
यतः यस्मात् वा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि
जायन्ते, येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते,
विनाशकाले च यत्प्रयन्ति यद्ब्रह्म
प्रतिगच्छन्ति,
अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते,
उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि,
तदेतद्ब्रह्मणो लक्षणम्, तद्ब्रह्म
विजिज्ञासस्व
विशेषेण
ज्ञातुमिच्छस्व;
यदेवंलक्षणं ब्रह्म तदन्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः।
श्रुत्यन्तरं च -- 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत
श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये
मनो विदुस्ते
निचिक्युर्ब्रह्म पुराणमयम्'
इति ब्रह्मोपलब्धौ द्वाराण्येतानीति दर्शयति। स भृगुः
ब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुः,
तपो
ब्रह्मोपलब्धिसाधनत्वेन अतप्यत तप्तवान्। कुतः पुनरनुपदिष्टस्यैव तपसः
साधनत्वप्रतिपत्तिर्भृगोः?
सावशेषोक्तेः। अन्नादिब्रह्मणः प्रतिपत्तौ द्वारं लक्षणं च यतो
वा
इमानि
इत्याद्युक्तवान्। सावशेषं हि तत्,
साक्षाद्ब्रह्मणोऽनिर्देशात्। अन्यथा हि स्वरूपेणैव ब्रह्म
निर्देष्टव्यं जिज्ञासवे पुत्राय इदमित्थंरूपं ब्रह्म इति;
न चैवं
निरदिशत्;
किं तर्हि, सावशेषमेवोक्तवान्।
अतोऽवगम्यते नूनं साधनान्तरमप्यपेक्षते पिता ब्रह्मविज्ञानं प्रतीति।
तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात्; सर्वेषां
हि
नियतसाध्यविषयाणां साधनानां तप व साधकतमं साधनमिति हि प्रसिध्दं लोके। तस्मात्
पित्रा अनुपदिष्टमपि ब्रह्मविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः।
तच्च तपो
बाह्यान्तःकरणसमाधानम्,
तद्द्वारकत्वाद्ब्रह्मप्रतिपत्तेः,'मनसश्चेन्द्रियाणां
च ह्यैकायं परमं तपः। तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते'
इति
स्मृतेः। स च
तपस्तप्त्वा॥ इति प्रथमानुवाकभाष्यम्॥
|